Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 2.59

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

2.59.1

मम तु अश्वा निवृत्तस्य न प्रावर्तन्त वर्त्मनि ।
उष्णम् अश्रु विमुन्चन्तः रामे सम्प्रस्थिते वनम् ॥ २.५९.१ ॥

罗摩前往森林之时,我那被调转回头的马在路上不肯前行,流着滚烫的眼泪。

2.59.2

उभाभ्याम् राज पुत्राभ्याम् अथ कृत्वा अहम् ज्ञलिम् ।
प्रस्थितः रथम् आस्थाय तत् दुह्खम् अपि धारयन् ॥ २.५९.२ ॥

于是我向两位王子合掌致礼,登上战车出发了,忍受着那份悲痛。

2.59.3

गुहा इव सार्धम् तत्र एव स्थितः अस्मि दिवसान् बहून् ।
आशया यदि माम् रामः पुनः शब्दापयेद् इति ॥ २.५९.३ ॥

我在那里如同山洞般停留了许多天,希望罗摩会再次召唤我。

2.59.4

विषये ते महा राज माम व्यसन कर्शिताः ।
अपि वृक्षाः परिम्लानः सपुष्प अन्कुर कोरकाः ॥ २.५९.४ ॥

大王啊,在您的国土上,见我被灾祸折磨得憔悴,连树木也连同花朵、嫩芽和花苞一起枯萎了。

2.59.5

उपतप्तोदका नद्यः पल्वलानि सराम्सि च ।
परिष्कुपलाशानि वनान्युपवनानि च ॥ २.५९.५ ॥

河流的水已经发热,池塘和湖泊也是如此;森林和园林里满是枯萎的落叶。

2.59.6

न च सर्पन्ति सत्त्वानि व्याला न प्रसरन्ति च ।
राम शोक अभिभूतम् तन् निष्कूजम् अभवद् वनम् ॥ २.५९.६ ॥

生灵不再行走,猛兽也不再游荡;被罗摩的悲痛笼罩的那片森林,变得寂静无声。

2.59.7

लीन पुष्कर पत्राः च नर इन्द्र कलुष उदकाः ।
सम्तप्त पद्माः पद्मिन्यो लीन मीन विहम्गमाः ॥ २.५९.७ ॥

人主啊,荷叶已沉没,水已浑浊;池中荷花枯萎,鱼和鸟都隐匿了。

2.59.8

जलजानि च पुष्पाणि माल्यानि स्थलजानि च ।
न अद्य भान्ति अल्प गन्धीनि फलानि च यथा पुरम् ॥ २.५९.८ ॥

水中生的与陆上生的花朵及花环,如今不再像往日那样光彩,香气也淡了;城中的果实也不如从前。

2.59.9

अत्रोद्यानानि शून्यानि प्रलीनविहगानि च ।
न चाभिरामानारामान् पश्यामि मनुजर्षभ ॥ २.५९.९ ॥

这里的园林空无一物,鸟儿也隐匿了;人中之牛啊,我看不到那些令人愉悦的园林。

2.59.10

प्रविशन्तम् अयोध्याम् माम् न कश्चित् अभिनन्दति ।
नरा रामम् अपश्यन्तः निह्श्वसन्ति मुहुर् मुहुः ॥ २.५९.१० ॥

我进入阿逾陀时,无人向我致意;人们不见罗摩,一再叹息。

2.59.11

देव राजरथम् दृष्ट्वा विना राममिहागतम् ।
दुःखादश्रुमुखः सर्वो राजमार्गगतो जनः ॥ २.५९.११ ॥

看见没有罗摩的王车来到此处,王道上的所有人都满面泪痕,满怀悲伤。

2.59.12

हर्म्यैः विमानैः प्रासादैः अवेक्ष्य रथम् आगतम् ।
हाहा कार कृता नार्यो राम अदर्शन कर्शिताः ॥ २.५९.१२ ॥

从高楼、宫殿与楼台望见王车驶来,妇人们纷纷哀叫“唉!唉!”;因不见罗摩,她们憔悴不堪。

2.59.13

आयतैः विमलैः नेत्रैः अश्रु वेग परिप्लुतैः ।
अन्योन्यम् अभिवीक्षन्ते व्यक्तम् आर्ततराः स्त्रियः ॥ २.५९.१३ ॥

长而清澈的眼睛被泪水的洪流淹没,最为悲痛的妇女们彼此明白地注视着。

2.59.14

न अमित्राणाम् न मित्राणाम् उदासीन जनस्य च ।
अहम् आर्ततया कम्चित् विशेषम् न उपलक्षये ॥ २.५९.१४ ॥

因悲痛而心神迷乱,我已无法分辨敌人、朋友与旁观的人有何不同。

2.59.15

अप्रहृष्ट मनुष्या च दीन नाग तुरम्गमा ।
आर्त स्वर परिम्लाना विनिह्श्वसित निह्स्वना ॥ २.५९.१५ ॥

百姓不再欢喜,象与马都萎靡不振;充斥着哀痛的声音而憔悴,满是叹息与低微的声响。

2.59.16

निरानन्दा महा राज राम प्रव्राजन आतुला ।
कौसल्या पुत्र हीना इवायोध्या प्रतिभाति मा मा ॥ २.५९.१६ ॥

大王啊,因罗摩被流放,阿逾陀显得无比黯淡无欢,仿佛失去了憍萨罗之子一般——我心中如此觉得。

2.59.17

सूतस्य वचनम् श्रुत्वा वाचा परम दीनया ।
बाष्प उपहतया राजा तम् सूतम् इदम् अब्रवीत् ॥ २.५९.१७ ॥

国王听了御者的话,以极其哀伤、哽咽于泪水的声音,对那御者说了这番话。

2.59.18

कैकेय्या विनियुक्तेन पाप अभिजन भावया ।
मया न मन्त्र कुशलैः वृद्धैः सह समर्थितम् ॥ २.५९.१८ ॥

受到吉凯伊的驱使,又被罪恶卑劣的心性所左右,我没有与精通谋略的长者们商议此事。

2.59.19

न सुहृद्भिर् न च अमात्यैः मन्त्रयित्वा न नैगमैः ।
मया अयम् अर्थः सम्मोहात् स्त्री हेतोह् सहसा कृतः ॥ २.५९.१९ ॥

我未与亲友、大臣或城中长者商议,因迷惑,为了一个女人,仓促做出了此决定。

2.59.20

भवितव्यतया नूनम् इदम् वा व्यसनम् महत् ।
कुलस्य अस्य विनाशाय प्राप्तम् सूत यदृच्चया ॥ २.५९.२० ॥

御者啊,这必定是命运的安排,或是这场大祸偶然降临,要毁灭这一家族。

2.59.21

सूत यद्य् अस्ति ते किम्चिन् मया अपि सुकृतम् कृतम् ।
त्वम् प्रापय आशु माम् रामम् प्राणाः सम्त्वरयन्ति माम् ॥ २.५९.२१ ॥

御者啊,若你知道我曾做过什么善举,就快送我去见罗摩吧;我的生命气息在催促我。

2.59.22

यद् यद् या अपि मम एव आज्ञा निवर्तयतु राघवम् ।
न शक्ष्यामि विना राम मुहूर्तम् अपि जीवितुम् ॥ २.५९.२२ ॥

无论用何种方法,凭我的命令,让罗怙之后返回吧;没有罗摩,我连一刻也活不下去。

2.59.23

अथवा अपि महा बाहुर् गतः दूरम् भविष्यति ।
माम् एव रथम् आरोप्य शीघ्रम् रामाय दर्शय ॥ २.५९.२३ ॥

或许那大臂者已走远,那就请让我登上战车,快快带我去见罗摩吧。

2.59.24

वृत्त दम्ष्ट्रः महा इष्वासः क्व असौ लक्ष्मण पूर्वजः ।
यदि जीवामि साध्व् एनम् पश्येयम् सह सीतया ॥ २.५९.२४ ॥

那位牙齿圆润的大弓箭手,罗什曼那的兄长在哪里?若我还活着,愿能与悉多一同好好见到他。

2.59.25

लोहित अक्षम् महा बाहुम् आमुक्त मणि कुण्डलम् ।
रामम् यदि न पश्यामि गमिष्यामि यम क्षयम् ॥ २.५९.२५ ॥

若我不见红眼、大臂、佩戴宝珠耳环的罗摩,我将前往阎摩之境。

2.59.26

अतः नु किम् दुह्खतरम् यो अहम् इक्ष्वाकु नन्दनम् ।
इमाम् अवस्थाम् आपन्नो न इह पश्यामि राघवम् ॥ २.५९.२६ ॥

我陷入此境,却见不到这里的罗ghava——伊克什瓦库家族的欢喜,还有什么比这更痛苦的呢?

2.59.27

हा राम राम अनुज हा हा वैदेहि तपस्विनी ।
न माम् जानीत दुह्खेन म्रियमाणम् अनाथवत् ॥ २.५९.२७ ॥

哎呀,罗摩!罗摩!哎呀,弟弟!哎呀哎呀,苦行的维德黑希!你们不知道我正因悲痛而死,如同无依无靠之人。

2.59.28

स तेन राजा दुःखेन भृशमर्पितचेतनः ।
अवगाढः सुदुष्पारम् शोकसागमब्रवीत् ॥ २.५९.२८ ॥

国王为那悲痛所淹没,心神昏乱,陷入难以渡过的忧愁之海,于是开口说道。

2.59.29

रामशोकमहाभोगः सीताविरहपारगः ।
श्वसितोर्मिमहावर्तो बाष्पफेनजलाविलः ॥ २.५९.२९ ॥

对罗摩的深哀是它巨大的漩涡,延伸到与悉多分离的彼岸,有着大旋涡和叹息的波浪,被泪水与泡沫之水搅得浑浊。

2.59.30

बाहुविक्षेपमीनौघो विक्रन्दितमहास्वनः ।
प्रकीर्णकेशशैवालः कैकेयीबडबामुखः ॥ २.५९.३० ॥

手臂挥动如鱼群,哀号声如巨响,散乱的头发如水草,口中是名为耆迦伊的海底之火(巴达跋大火)。

2.59.31

ममाश्रुवेगप्रभवः कुब्जावाक्यमहाग्रहः ।
वरवेलो नृशम्साया रामप्रव्राजनायतः ॥ २.५९.३१ ॥

生于我泪水的洪流,有驼背女的话语构成的巨大漩涡,是残忍者之恩赐的岸,直延伸至罗摩的流放。

2.59.32

यस्मिन् बत निमग्नोऽहम् कौसल्ये राघवम् विना ।
दुस्तरः जीवता देवि मया अयम् शोक सागरः ॥ २.५९.३२ ॥

考莎利雅啊,没有罗摩我沉没于这悲伤之海;王后啊,对于尚在人世的我,这悲伤之海难以渡过。

2.59.33

अशोभनम् यो अहम् इह अद्य राघवम् ।
दिदृक्षमाणो न लभे सलक्ष्मणम्इति इव राजा विलपन् महा यहाशःपपात तूर्णम् शयने स मूर्चितः ॥ २.५९.३३ ॥

“今日我想见罗摩与罗什曼那,却见不到,实在不该。”如此悲叹,这位大名的国王迅速倒在床上,昏厥过去。

2.59.34

करुणतरम् द्विगुणम् च राम हेतोः ।
वचनम् अनुनिशम्य तस्य देवी ।
भयम् अगमत् पुनर् एव राम माता ॥ २.५९.३४ ॥

听到他因罗摩而发出的更加悲悯、加倍的话语,王后,罗摩之母,再次充满了恐惧。