蚁垤《罗摩衍那》 · 篇 2.61
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.61.1
वनम् गते धर्म परे रामे रमयताम् वरे ।
कौसल्या रुदती स्वार्ता भर्तारम् इदम् अब्रवीत् ॥ २.६१.१ ॥
当遵行法道、最能令人喜悦的罗摩前往森林之后,心中悲痛的考莎利雅一边哭泣,一边对她的丈夫说了这些话。
2.61.2
यद्यपि त्रिषु लोकेषु प्रथितम् ते मयद् यशः ।
सानुक्रोशो वदान्यः च प्रिय वादी च राघवः ॥ २.६१.२ ॥
虽然你的名声传遍三界,罗怙之子却仁慈、慷慨,且言语动听。
2.61.3
कथम् नर वर श्रेष्ठ पुत्रौ तौ सह सीतया ।
दुह्खितौ सुख सम्वृद्धौ वने दुह्खम् सहिष्यतः ॥ २.६१.३ ॥
人中之最,那两个在安乐中长大的儿子,与悉多一同在森林里悲苦地,将如何承受艰辛呢?
2.61.4
सा नूनम् तरुणी श्यामा सुकुमारी सुख उचिता ।
कथम् उष्णम् च शीतम् च मैथिली प्रसहिष्यते ॥ २.६१.४ ॥
她确实年轻、肤色黝黑、娇柔,适于安乐;弥提罗之女将如何承受炎热与寒冷?
2.61.5
भुक्त्वा अशनम् विशाल अक्षी सूप दम्श अन्वितम् शुभम् ।
वन्यम् नैवारम् आहारम् कथम् सीता उपभोक्ष्यते ॥ २.६१.५ ॥
大眼的悉多曾食用配有汤羹与调味的美食,如今怎能进食野生的尼瓦拉稻米呢?
2.61.6
गीत वादित्र निर्घोषम् श्रुत्वा शुभम् अनिन्दिता ।
कथम् क्रव्य अद सिम्हानाम् शब्दम् श्रोष्यति अशोभनम् ॥ २.६१.६ ॥
无瑕的悉多曾听过歌声与乐器的吉祥之音,如今怎能听到食肉狮子那不祥的吼声呢?
2.61.7
महा इन्द्र ध्वज सम्काशः क्व नु शेते महा भुजः ।
भुजम् परिघ सम्काशम् उपधाय महा बलः ॥ २.६१.७ ॥
如今大臂的罗摩,如同大因陀罗旗,以如铁闩般的手臂为枕,那位大力者,躺卧在何处?
2.61.8
पद्म वर्णम् सुकेश अन्तम् पद्म निह्श्वासम् उत्तमम् ।
कदा द्रक्ष्यामि रामस्य वदनम् पुष्कर ईक्षणम् ॥ २.६१.८ ॥
何时才能见到罗摩的面容?那面容如莲花般颜色,发丝精美,呼吸如莲花芬芳,至上无比,眼如莲花。
2.61.9
वज्र सारमयम् नूनम् हृदयम् मे न सम्शयः ।
अपश्यन्त्या न तम् यद् वै फलति इदम् सहस्रधा ॥ २.६१.९ ॥
我的心必定由金刚之精华所造,毫无疑问;因为不见他,它竟没有碎成千片。
2.61.10
यत्त्वया करुणम् कर्म व्यपोह्य मम बान्धवाः ।
निरस्ता परिधावन्ति सुखार्हः कृपणा वने ॥ २.६१.१० ॥
你做出了这样无情的事,抛弃并驱逐了我的亲族;他们本应享受幸福,如今却在森林中可怜地奔走。
2.61.11
यदि पञ्चदशे वर्षे राघवः पुनरेष्यति ।
जह्याद्राज्यम् च कोशम् च भरतो नोपल्स्ख्यते ॥ २.६१.११ ॥
若罗怙后裔(罗摩)在第十五年归来,婆罗多恐怕不会交出王国与库藏;他也将无从找到。
2.61.12
भोजयन्ति किल श्राद्धे केचित्स्वनेव बान्धवान् ।
ततः पश्चात्समीक्षन्ते कृतकार्या द्विजर्षभान् ॥ २.६१.१२ ॥
有人在祭祖(śrāddha)时只供养自己的亲族;事后,目的达成,他们便连那些最优秀的再生婆罗门也不再看一眼。
2.61.13
तत्र ये गुणवन्तश्च विद्वाम्सश्च द्विजातयः ।
न पश्चात्तेऽभिमन्यन्ते सुधामपि सुरोपमाः ॥ २.६१.१३ ॥
那里有德行与学问兼备的再生族人,他们虽如天神,即便得到甘露,事后也不会因此愤怒。
2.61.14
ब्राह्मणेष्वपि तृप्तेषु पश्चाद्भोक्तुम् द्विजर्षभाः ।
नाभ्युपैतुमलम् प्राज्ञाः शृङ्गच्चेदमिवर्ष्भाः ॥ २.६१.१४ ॥
即便婆罗门已经吃饱,那些卓越的再生族人虽有智慧,事后也无法前来用餐,就像被割去角的公牛。
2.61.15
एवम् कनीयसा भ्रात्रा भुक्तम् राज्यम् विशाम् पते ।
भ्राता ज्येष्ठा वरिष्ठाः च किम् अर्थम् न अवमम्स्यते ॥ २.६१.१५ ॥
如此,人民之主啊,王国被幼弟享有;为何长兄、最尊贵的兄长却被轻视?
2.61.16
न परेण आहृतम् भक्ष्यम् व्याघ्रः खादितुम् इच्चति ।
एवम् एव नर व्याघ्रः पर लीढम् न मम्स्यते ॥ २.६१.१६ ॥
犹如老虎不愿吃别人带来的食物,同样,人中虎啊,别人舔过的东西他不接受。
2.61.17
हविर् आज्यम् पुरोडाशाः कुशा यूपाः च खादिराः ।
न एतानि यात यामानि कुर्वन्ति पुनर् अध्वरे ॥ २.६१.१७ ॥
祭品、澄清黄油、祭饼、吉祥草和卡迪拉木祭柱,一旦变得陈旧,便不会再在祭祀中使用。
2.61.18
तथा हि आत्तम् इदम् राज्यम् हृत साराम् सुराम् इव ।
न अभिमन्तुम् अलम् रामः नष्ट सोमम् इव अध्वरम् ॥ २.६१.१८ ॥
如此,这王国被夺走了,就像失去精华的美酒;罗摩无法把它视为自己的,正如失去苏摩的祭祀。
2.61.19
न एवम् विधम् असत्कारम् राघवो मर्षयिष्यति ।
बलवान् इव शार्दूलो बालधेर् अभिमर्शनम् ॥ २.६१.१९ ॥
罗ghava 不会忍受这样的羞辱,正如强壮的老虎不能忍受被踩到尾巴。
2.61.20
नैतस्य सहिता लोका भयम् कुर्युर्महामृधे ।
अधर्मम् त्विह धर्मात्मा लोकम् धर्मेण योजयेत् ॥ २.६१.२० ॥
即使诸世界联合起来,也无法在大战中使他恐惧;这位法性之人会将非法也引归于法。
2.61.21
नन्वसौ काञ्चनैर्बाणैर्महावीर्यो महाभुजः ।
युगान्त इव भूतानि सागरानपि निर्दहेत् ॥ २.६१.२१ ॥
他确实是大勇猛、双臂有力之人,以金箭焚尽众生乃至大海,犹如劫末。
2.61.22
स तादृशः सिम्ह बलो वृषभ अक्षो नर ऋषभः ।
स्वयम् एव हतः पित्रा जलजेन आत्मजो यथा ॥ २.६१.२२ ॥
他力如狮子,目如牛眼,是人中之最,却被自己的父亲所害,正如莲花所生者杀死了自己的儿子。
2.61.23
द्विजाति चरितः धर्मः शास्त्र दृष्टः सनातनः ।
यदि ते धर्म निरते त्वया पुत्रे विवासिते ॥ २.६१.२३ ॥
二生者所行、经典所示的永恒之法——若你已流放了那位奉行法的儿子……
2.61.24
गतिर् एवाक् पतिर् नार्या द्वितीया गतिर् आत्मजः ।
तृतीया ज्ञातयो राजमः चतुर्थी न इह विद्यते ॥ २.६१.२४ ॥
女子的第一依靠是丈夫,第二是儿子,第三是亲族;大王啊,这里却找不到第四个依靠。
2.61.25
तत्र त्वम् चैव मे न अस्ति रामः च वनम् आश्रितः ।
न वनम् गन्तुम् इच्चामि सर्वथा हि हता त्वया ॥ २.६१.२५ ॥
在那里,对我而言既没有你,也没有别的;罗摩已经投奔森林。我不愿去森林;你已经彻底毁了我。
2.61.26
हतम् त्वया राज्यम् इदम् सराष्ट्रम् ।
हतः तथा आत्मा सह मन्त्रिभिः च ।
हता सपुत्रा अस्मि हताः च पौराः ।
सुतः च भार्या च तव प्रहृष्टौ ॥ २.६१.२६ ॥
你毁掉了这王国连同国土;国王自己也与大臣一同丧命。我与儿子一同毁灭,市民也都毁灭;而你的儿子和妻子却欢喜。
2.61.27
इमाम् गिरम् दारुण शब्द सम्श्रिताम् ।
निशम्य राजा अपि मुमोह दुह्खितः ।
ततः स शोकम् प्रविवेश पार्थिवः ।
स्वदुष्कृतम् च अपि पुनः तदा अस्मरत् ॥ २.६१.२७ ॥
听到这充满可怕言辞的话语,国王也因悲痛而昏厥。随后国王陷入了悲伤,此时他又想起了自己所犯的恶行。