Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 2.68

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

2.68.1

तेषाम् तत् वचनम् श्रुत्वा वसिष्ठः प्रत्युवाच ह ।
मित्र अमात्य गणान् सर्वान् ब्राह्मणाम्स् तान् इदम् वचः ॥ २.६८.१ ॥

瓦希斯塔听了他们的话,便对朋友、大臣群体以及所有婆罗门说了这番话。

2.68.2

यद् असौ मातुल कुले पुरे राज गृहे सुखी ।
भरतः वसति भ्रात्रा शत्रुघ्नेन समन्वितः ॥ २.६८.२ ॥

婆罗多在外祖父家、王宫城中,与弟弟舍睹卢那一同幸福地居住。

2.68.3

तत् शीघ्रम् जवना दूता गच्चन्तु त्वरितैः हयैः ।
आनेतुम् भ्रातरौ वीरौ किम् समीक्षामहे वयम् ॥ २.६८.३ ॥

因此,让迅捷的使者乘着快马立即前去,把两位英勇的兄弟请来。我们为何还要等待?

2.68.4

गच्चन्तु इति ततः सर्वे वसिष्ठम् वाक्यम् अब्रुवन् ।
तेषाम् तत् वचनम् श्रुत्वा वसिष्ठो वाक्यम् अब्रवीत् ॥ २.६८.४ ॥

于是众人对瓦希斯塔说:“让他们去吧。”瓦希斯塔听了他们的话,便说道。

2.68.5

एहि सिद्ध अर्थ विजय जयन्त अशोक नन्दन ।
श्रूयताम् इतिकर्तव्यम् सर्वान् एव ब्रवीमि वः ॥ २.६८.५ ॥

来吧,诸位,目的已达成的人,胜利者、遮耶塔、阿输迦、家族的欢喜者!请听应当做的事;我对你们所有人这样说。

2.68.6

पुरम् राज गृहम् गत्वा शीघ्रम् शीघ्र जवैः हयैः ।
त्यक्त शोकैः इदम् वाच्यः शासनात् भरतः मम ॥ २.६८.६ ॥

你们应迅速乘着快马前往王城,心中无忧,奉我之命将此话告诉婆罗多。

2.68.7

पुरोहितः त्वाम् कुशलम् प्राह सर्वे च मन्त्रिणः ।
त्वरमाणः च निर्याहि कृत्यम् आत्ययिकम् त्वया ॥ २.६८.७ ॥

祭司和所有大臣向你问候;你应当急速启程,因为你的使命十分紧迫。

2.68.8

मा च अस्मै प्रोषितम् रामम् मा च अस्मै पितरम् मृतम् ।
भवन्तः शम्सिषुर् गत्वा राघवाणाम् इमम् क्षयम् ॥ २.६८.८ ॥

不要告诉他罗摩流亡在外,也不要告诉他父亲已经去世;也不要向他说起拉古家族的这场毁灭。

2.68.9

कौशेयानि च वस्त्राणि भूषणानि वराणि च ।
क्षिप्रम् आदाय राज्ञः च भरतस्य च गच्चत ॥ २.६८.९ ॥

迅速取上丝绸衣裳和精美的饰物,前往国王与婆罗多那里。

2.68.10

दत्तपथ्यशना दूताजग्मुः स्वम् स्वम् निवेशनम् ।
केकयाम्स्ते गमिष्यन्तो हयानारुह्य सम्मतान् ॥ २.६८.१० ॥

得到路上的食粮后,使者各自回家;随后他们将骑上良马,前往甘西国。

2.68.11

ततः प्रास्थानिकम् कृत्वा कार्यशेषमनन्तरम् ।
वसिष्ठेनाभ्यनुज्ञाता दूताः सम्त्वरिता ययुः ॥ २.६८.११ ॥

随后,在完成启程的仪式和剩余的事务之后,经婆悉瑟吒允许,使者们急速起程。

2.68.12

न्यन्तेनापरतालस्य प्रलम्बस्योत्तरम् प्रति ।
निषेवमाणास्ते जग्मुर्नदीम् मध्येन मालिनीम् ॥ २.६८.१२ ॥

沿着阿波罗陀罗之下方行进,朝向普罗兰跋之北,他们从摩利尼河中间渡过。

2.68.13

ते हस्तिनापुरे गङ्गाम् तीर्त्वा प्रत्यङ्मुखा ययुः ।
पाञलदेशमासाद्य मध्येन कुरुजाङ्गलम् ॥ २.६८.१३ ॥

他们在象城渡过恒河,面朝西方而行;抵达般遮罗国后,从俱卢-闍栗罗的中部穿过。

2.68.14

सराम्सि च सुपूर्णानि नदीश्च विमलोदकाः ।
निरीक्षमाणास्ते जग्मुर्दूताः कार्यवशाद्द्रुतम् ॥ २.६८.१४ ॥

他们一边观看满溢的湖泊和清澈的河流,那些使者因公务而迅速前行。

2.68.15

ते प्रसन्नोदकाम् दिव्याम् नानाविहगसेविताम् ।
उपातिजग्मुर्वेगेन शरदण्डाम् जनाकुलाम् ॥ २.६८.१५ ॥

他们迅速经过那清澈之水的神圣的沙罗檀陀,那里常有各种飞鸟栖息,人群熙攘。

2.68.16

निकूलवृक्षमासाद्य दिव्यम् सत्योपयाचनम् ।
अभिगम्याभिवाद्यम् तम् कुलिङ्गाम् प्राविशन् पुरीम् ॥ २.६८.१६ ॥

他们到达那神圣的真诚祈愿之地尼苦罗树,走近并向它致敬,然后进入库林伽城。

2.68.17

अभिकालम् ततः प्राप्यते बोधिभवनाच्च्युताम् ।
पितृपैतामहीम् पुण्याम् तेरुरिक्षुमतीम् नदीम् ॥ २.६८.१७ ॥

随后,在适当的时候,他们渡过了祖先所有、从菩提之居流出的神圣伊克舒玛蒂河。

2.68.18

अवेक्स्याञ्जलिपानाम्श्च ब्राह्मणान् वेदपारगान् ।
ययुर्मध्येन बाह्लीकान् सुदामानम् च पर्वतम् ॥ २.६८.१८ ॥

他们看见以掌心掬水而饮的精通吠陀的婆罗门,便穿过巴赫利卡之地,朝苏达曼山而去。

2.68.19

विष्णोः पदम् प्रेक्षमाणा विपाशाम् चापि शाल्मालीम् ।
नदीर्वापीस्तटाकानि पल्वलानि सराम्सि च ॥ २.६८.१९ ॥

他们观望毗湿奴的足迹,观望毗跋沙与舍尔玛利二河,以及河流、阶梯井、池塘、小水潭和湖泊,继续前行。

2.68.20

पस्यन्तो विविधाम्श्चापि सिमहव्याग्रमृगद्विपान् ।
ययुः पथातिमहता शासनम् भर्तुरीप्सवः ॥ २.६८.२० ॥

他们一路上也看到各种狮子、老虎、鹿和大象,怀着完成主君至重命令的心愿前行。

2.68.21

ते श्रान्त वाहना दूता विकृष्टेन सता पथा ।
गिरि व्रजम् पुर वरम् शीघ्रम् आसेदुर् अन्जसा ॥ २.६८.२१ ॥

那些使者,坐骑已经疲惫,沿着艰险的道路,迅速而直接地抵达了名为吉里夫拉贾的殊胜城市。

2.68.22

भर्तुः प्रिय अर्थम् कुल रक्षण अर्थम् ।
भर्तुः च वम्शस्य परिग्रह अर्थम् ।
अहेडमानाः त्वरया स्म दूता ।
रात्र्याम् तु ते तत् पुरम् एव याताः ॥ २.६८.२२ ॥

为了主君的心愿,为了守护家族,为了主君与王统的存续,使者们毫不懈怠,急速前行;他们在夜间便抵达了那座城市。