Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 2.69

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

2.69.1

याम् एव रात्रिम् ते दूताः प्रविशन्ति स्म ताम् पुरीम् ।
भरतेन अपि ताम् रात्रिम् स्वप्नो दृष्टः अयम् अप्रियः ॥ २.६९.१ ॥

使者进入那座城市的那个夜晚,婆罗多也做了这个不祥的梦。

2.69.2

व्युष्टाम् एव तु ताम् रात्रिम् दृष्ट्वा तम् स्वप्नम् अप्रियम् ।
पुत्रः राज अधिराजस्य सुभृशम् पर्यतप्यत ॥ २.६९.२ ॥

那夜天亮之后,王中之王之子婆罗多见到那不祥的梦,极为烦恼。

2.69.3

तप्यमानम् समाज्ञाय वयस्याः प्रिय वादिनः ।
आयासम् हि विनेष्यन्तः सभायाम् चक्रिरे कथाः ॥ २.६९.३ ॥

朋友们察觉他痛苦,便以悦耳的言语在议事厅中谈天,以驱散他的烦恼。

2.69.4

वादयन्ति तथा शान्तिम् लासयन्ति अपि च अपरे ।
नाटकानि अपरे प्राहुर् हास्यानि विविधानि च ॥ २.६९.४ ॥

有人奏乐,有人令人起舞;另一些人讲述戏剧,诵说各种滑稽的故事。

2.69.5

स तैः महात्मा भरतः सखिभिः प्रिय वादिभिः ।
गोष्ठी हास्यानि कुर्वद्भिर् न प्राहृष्यत राघवः ॥ २.६९.५ ॥

尽管那些说话悦耳的朋友们在聚会中说笑,伟大的婆罗多(罗怙族之后)却并不欢喜。

2.69.6

तम् अब्रवीत् प्रिय सखो भरतम् सखिभिर् वृतम् ।
सुहृद्भिः पर्युपासीनः किम् सखे न अनुमोदसे ॥ २.६९.६ ॥

一位亲近的朋友对被朋友与亲人环绕的婆罗多说:“朋友,你为何不欢喜呢?”

2.69.7

एवम् ब्रुवाणम् सुहृदम् भरतः प्रत्युवाच ह ।
शृणु त्वम् यन् निमित्तम्मे दैन्यम् एतत् उपागतम् ॥ २.६९.७ ॥

朋友如此说道,婆罗多答道:请听我为何陷入这种沮丧的缘由。

2.69.8

स्वप्ने पितरम् अद्राक्षम् मलिनम् मुक्त मूर्धजम् ।
पतन्तम् अद्रि शिखरात् कलुषे गोमये ह्रदे ॥ २.६९.८ ॥

我在梦中见到父亲:污秽,披散着头发,从山顶坠入污浊的牛粪池中。

2.69.9

प्लवमानः च मे दृष्टः स तस्मिन् गोमय ह्रदे ।
पिबन्न् अन्जलिना तैलम् हसन्न् इव मुहुर् मुहुः ॥ २.६९.९ ॥

我看见他在那粪池中游泳,双手捧起油来喝,反复大笑,仿佛很开心。

2.69.10

ततः तिलोदनम् भुक्त्वा पुनः पुनर् अधः शिराः ।
तैलेन अभ्यक्त सर्व अन्गः तैलम् एव अवगाहत ॥ २.६९.१० ॥

然后他吃了芝麻饭,一次次头朝下,全身涂满油,只在油中沐浴。

2.69.11

स्वप्ने अपि सागरम् शुष्कम् चन्द्रम् च पतितम् भुवि ।
सहसा च अपि सम्शन्तम् ज्वलितम् जात वेदसम् ॥ २.६९.११ ॥

我在梦中还见到大海枯竭,月亮坠落于地,熊熊烈火忽然熄灭。

2.69.12

औपवाह्यस्य नागस्य विषाणम् शकलीकृतम् ।
सहसा चापि सम्शान्तम् ज्वलितम् जातवेदसम् ॥ २.६९.१२ ॥

我看见王家象的象牙被打成碎片,熊熊烈火也忽然熄灭。

2.69.13

अवदीर्णाम् च पृथिवीम् शुष्कामः च विविधान् द्रुमान् ।
अहम् पश्यामि विध्वस्तान् सधूमामः चैव पार्वतान् ॥ २.६९.१३ ॥

我看见大地裂开,各种枯树被摧毁,山峦冒着烟。

2.69.14

पीठे कार्ष्णायसे च एनम् निषण्णम् कृष्ण वाससम् ।
प्रहसन्ति स्म राजानम् प्रमदाः कृष्ण पिन्गलाः ॥ २.६९.१४ ॥

这位国王身着黑衣,坐在黑铁的座位上,肤色黝黑、发黄的女子们正嘲笑他。

2.69.15

त्वरमाणः च धर्म आत्मा रक्त माल्य अनुलेपनः ।
रथेन खर युक्तेन प्रयातः दक्षिणा मुखः ॥ २.६९.१५ ॥

一位善良之人,佩戴红色花环、涂着香膏,乘着驴拉的车急速向南方而去。

2.69.16

प्रहसन्तीव राजानम् प्रमदा रक्तवासिनी ।
प्रकर्षन्ती मया दृष्टा राक्षसी विकृतासना ॥ २.६९.१६ ॥

我看见一名身穿红衣的女子,仿佛在嘲笑国王;她是形貌丑陋的罗刹女,正拖拽着什么人。

2.69.17

एवम् एतन् मया दृष्टम् इमाम् रात्रिम् भय आवहाम् ।
अहम् रामः अथ वा राजा लक्ष्मणो वा मरिष्यति ॥ २.६९.१७ ॥

在这令人恐惧的夜晚,我看见了这一切:或者我会死,或者罗摩、国王或罗什曼那会死。

2.69.18

नरः यानेन यः स्वप्ने खर युक्तेन याति हि ।
अचिरात् तस्य धूम अग्रम् चितायाम् सम्प्रदृश्यते ॥ २.६९.१८ ॥

在梦中乘坐驴拉之车的人,不久他的火葬柴堆上便会看见升起的烟柱。

2.69.19

एतन् निमित्तम् दीनो अहम् तन् न वः प्रतिपूजये ।
शुष्यति इव च मे कण्ठो न स्वस्थम् इव मे मनः ॥ २.६९.१९ ॥

因这凶兆我心中悲痛,所以不回答你们。我的喉咙仿佛干涸,心神也不安定。

2.69.20

न पश्यामि भयस्थानम् भयम् चैवोपधारये ।
भ्रष्टश्च स्वरयोगो मे चाया चोपहता मम ॥ २.६९.२० ॥

我看不到危险之处,却感到了恐惧。我的声音失去了和谐,容颜的光彩也受损了。

2.69.21

जुगुप्सन्न् इव च आत्मानम् न च पश्यामि कारणम् ।
इमाम् हि दुह्स्वप्न गतिम् निशाम्य ताम् ।
अनेक रूपाम् अवितर्किताम् पुरा ।
भयम् महत् तद्द् हृदयान् न याति मे ।
विचिन्त्य राजानम् अचिन्त्य दर्शनम् ॥ २.६९.२१ ॥

我仿佛厌弃自己,却找不到原因。听了这噩梦的走向,它形态万千,从前从未想到,那巨大的恐惧仍不离我的心。想到那位不可思议之相的君王——