Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 2.70

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

2.70.1

भरते ब्रुवति स्वप्नम् दूताः ते क्लान्त वाहनाः ।
प्रविश्य असह्य परिखम् रम्यम् राज गृहम् पुरम् ॥ २.७०.१ ॥

当婆罗多正讲述梦境时,那些坐骑疲惫的使者进入了美丽的王城王舍城,其护城壕沟难以逾越。

2.70.2

समागम्य तु राज्ञा च राज पुत्रेण च अर्चिताः ।
राज्ञः पादौ गृहीत्वा तु तम् ऊचुर् भरतम् वचः ॥ २.७०.२ ॥

使者们见到了国王和王子,受到他们的礼遇,然后抱住国王的双足,对婆罗多说了这些话。

2.70.3

पुरोहितः त्वा कुशलम् प्राह सर्वे च मन्त्रिणः ।
त्वरमाणः च निर्याहि कृत्यम् आत्ययिकम् त्वया ॥ २.७०.३ ॥

家族祭司问候你的平安,所有大臣说:'速速启程吧;你有一件紧急的事务要办。'

2.70.4

इमानि च महार्हाणि वस्त्राण्याभरणानि च ।
प्रतिगृह्य विशालाक्ष मातुलस्य च दापय ॥ २.७०.४ ॥

广目者啊,请收下这些珍贵的衣物和饰品,并派人送给你的舅舅。

2.70.5

अत्र विम्शति कोट्यः तु नृपतेर् मातुलस्य ते ।
दश कोट्यः तु सम्पूर्णाः तथैव च नृप आत्मज ॥ २.७०.५ ॥

这里有给国王的二十克罗,给你舅舅的十克罗全数俱在;王子啊,也是如此。

2.70.6

प्रतिगृह्य च तत् सर्वम् स्वनुरक्तः सुहृज् जने ।
दूतान् उवाच भरतः कामैः सम्प्रतिपूज्य तान् ॥ २.७०.६ ॥

婆罗多收下了这一切,对朋友怀着深厚的情谊,用他们所希望的东西好好款待了那些使者,然后对他们说:

2.70.7

कच्चित् सुकुशली राजा पिता दशरथो मम ।
कच्चिच् च अरागता रामे लक्ष्मणे वा महात्मनि ॥ २.७०.७ ॥

我的父亲国王达舍罗陀是否安好?伟大的罗摩和罗什曼那是否无病无恙?

2.70.8

आर्या च धर्म निरता धर्मज्ञा धर्म दर्शिनी ।
अरोगा च अपि कौसल्या माता रामस्य धीमतः ॥ २.७०.८ ॥

那位高贵的考沙利亚,笃守法度、通晓法度、洞见法度,智者罗摩的母亲,是否也无病无恙?

2.70.9

कच्चित् सुमित्रा धर्मज्ञा जननी लक्ष्मणस्य या ।
शत्रुघ्नस्य च वीरस्य सारोगा च अपि मध्यमा ॥ २.७०.९ ॥

通晓法度的须弥陀罗(罗什曼那之母)以及勇士设睹噜祇那之母中后,是否也完全无病无恙?

2.70.10

आत्म कामा सदा चण्डी क्रोधना प्राज्ञ मानिनी ।
अरोगा च अपि कैकेयी माता मे किम् उवाच ह ॥ २.७०.१० ॥

我的母亲吉迦伊,常随己意、刚烈、易怒、聪慧而傲慢,是否也无病无恙?她说了什么?

2.70.11

एवम् उक्ताः तु ते दूता भरतेन महात्मना ।
ऊचुः सम्प्रश्रितम् वाक्यम् इदम् तम् भरतम् तदा ॥ २.७०.११ ॥

伟大的婆罗多如此相问,那些使者便恭敬地对婆罗多说了这些话。

2.70.12

कुशलाः ते नर व्याघ्र येषाम् कुशलम् इच्चसि ।
श्रीश्च त्वाम् वृणुते पद्मा युज्यताम् चापि ते रकः ॥ २.७०.१२ ॥

人中之虎啊,你所挂念的那些人都安好;愿吉祥天女与莲花女神选择你,愿你的福运与你同在。

2.70.13

भरतः च अपि तान् दूतान् एवम् उक्तः अभ्यभाषत ।
आपृच्चे अहम् महा राजम् दूताः सम्त्वरयन्ति माम् ॥ २.७०.१३ ॥

使者如此对他说后,婆罗多也回答道:“我去向大王辞行;使者催促我了。”

2.70.14

एवम् उक्त्वा तु तान् दूतान् भरतः पार्थिव आत्मजः ।
दूतैः सम्चोदितः वाक्यम् मातामहम् उवाच ह ॥ २.७०.१४ ॥

对那些使者说完这些话后,国王之子婆罗多在使者的催促下,对外祖父说了这番话。

2.70.15

राजन् पितुर् गमिष्यामि सकाशम् दूत चोदितः ।
पुनर् अपि अहम् एष्यामि यदा मे त्वम् स्मरिष्यसि ॥ २.७०.१५ ॥

"大王啊,在使者催促下,我将前往父亲身边;当您想念我时,我还会再回来。"

2.70.16

भरतेन एवम् उक्तः तु नृपो मातामहः तदा ।
तम् उवाच शुभम् वाक्यम् शिरस्य् आघ्राय राघवम् ॥ २.७०.१६ ॥

婆罗多如此说后,外祖父国王便嗅了嗅罗怙后裔(婆罗多)的头,对他说了这些吉祥的话。

2.70.17

गच्च तात अनुजाने त्वाम् कैकेयी सुप्रजाः त्वया ।
मातरम् कुशलम् ब्रूयाः पितरम् च परम् तप ॥ २.७०.१७ ॥

"去吧,孩子;我准许你去。因为你,吉迦伊有了一个好儿子。替我向你母亲问安,也向你父亲问安,哦苦行者。"

2.70.18

पुरोहितम् च कुशलम् ये च अन्ये द्विज सत्तमाः ।
तौ च तात महा इष्वासौ भ्रातरु राम लक्ष्मणौ ॥ २.७०.१८ ॥

"替我向家族祭司和其他最优秀的再生者问安;孩子,也替我向那两位伟大的弓箭手兄弟罗摩和罗什曼那问安。"

2.70.19

तस्मै हस्ति उत्तमामः चित्रान् कम्बलान् अजिनानि च ।
अभिसत्कृत्य कैकेयो भरताय धनम् ददौ ॥ २.७०.१९ ॥

凯迦耶王恭敬地赠予婆罗多最好的大象、彩色毛毯和兽皮,并给予财富。

2.70.20

रुक्म निष्क सहस्रे द्वे षोडश अश्व शतानि च ।
सत्कृत्य कैकेयी पुत्रम् केकयो धनम् आदिशत् ॥ २.७०.२० ॥

凯迦耶王尊敬凯凯依之子,下令赠予财富:两千金尼什卡与一千六百匹马。

2.70.21

तथा अमात्यान् अभिप्रेतान् विश्वास्यामः च गुण अन्वितान् ।
ददाव् अश्व पतिः शीघ्रम् भरताय अनुयायिनः ॥ २.७०.२१ ॥

阿湿婆跋提也迅速赠予婆罗多受人喜爱、可靠且有德行的大臣及随从。

2.70.22

ऐरावतान् ऐन्द्र शिरान् नागान् वै प्रिय दर्शनान् ।
खरान् शीघ्रान् सुसम्युक्तान् मातुलो अस्मै धनम् ददौ ॥ २.७०.२२ ॥

舅父赠予他财富:如同爱罗婆多的大象,头如因陀罗之象,外观美丽,还有迅捷、驾具齐备的驴。

2.70.23

अन्तः पुरे अतिसम्वृद्धान् व्याघ्र वीर्य बल अन्वितान् ।
दम्ष्ट्र आयुधान् महा कायान् शुनः च उपायनम् ददौ ॥ २.७०.२३ ॥

他又赠送了在后宫精心饲养的大型猎犬,它们具有虎的勇猛与力量,以獠牙为武器。

2.70.24

स मातामहम् आपृच्च्य मातुलम् च युधा जितम् ।
रथम् आरुह्य भरतः शत्रुघ्न सहितः ययौ ॥ २.७०.२४ ॥

婆罗多向外祖父和舅父Yudhājit告别,登上战车,与设睹卢祇那一同启程。

2.70.25

बभूव ह्यस्य हृदते चिन्ता सुमहती तदा ।
त्वरया चापि दूतानाम् स्वप्नस्यापि च दर्शनात् ॥ २.७०.२५ ॥

那时他心中生起极大的忧虑,因使者的急促,也因所见的梦。

2.70.26

स स्ववेश्माभ्यतिक्रम्य नरनागश्वसम्वृतम् ।
प्रपेदे सुमहच्छ्रीमान् राजमार्गमनुत्तमम् ॥ २.७०.२६ ॥

他走出自己的住所,来到被人群、象和马环绕的最上等御道。

2.70.27

अभ्यतीत्य ततोऽपश्यदन्तः पुरमुदारधीः ।
ततस्तद्भरतः श्रीमानाविवेशानिवारितः ॥ २.७०.२७ ॥

走过之后,这位心胸高尚者看见了内宫;随后光辉的婆罗多毫无阻拦地走了进去。

2.70.28

स माता महमापृच्च्य मातुलम् च युधाजितम् ।
रथमारुह्य भरतः शत्रुघ्नसहितो ययौ ॥ २.७०.२८ ॥

与外祖父及舅父尤陀吉特告别后,婆罗多登上战车,与设睹卢祇那一同出发。

2.70.29

रथान् मण्डल चक्रामः च योजयित्वा परः शतम् ।
उष्ट्र गो अश्व खरैः भृत्या भरतम् यान्तम् अन्वयुः ॥ २.७०.२९ ॥

套上一百多辆战车与圆轮车,连同骆驼、牛、马和驴,仆人们跟随启程的婆罗多而去。

2.70.30

बलेन गुप्तः भरतः महात्मा ।
सह आर्यकस्य आत्म समैः अमात्यैः ।
आदाय शत्रुघ्नम् अपेत शत्रुर् ।
गृहात् ययौ सिद्धैव इन्द्र लोकात् ॥ २.७०.३० ॥

大心的婆罗多在军队护卫下离家,与阿利耶迦及与自己同等的大臣同行,带着设睹卢祇那,无敌无忧,如成就者离开因陀罗界。