蚁垤《罗摩衍那》 · 篇 2.74
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.74.1
ताम् तथा गर्हयित्वा तु मातरम् भरतः तदा ।
रोषेण महता आविष्टः पुनर् एव अब्रवीद् वचः ॥ २.७४.१ ॥
婆罗多如此斥责了母亲,此时被极大的愤怒所笼罩,又说出了这些话。
2.74.2
राज्यात् भ्रम्शस्व कैकेयि नृशम्से दुष्ट चारिणि ।
परित्यक्ता च धर्मेण मा मृतम् रुदती भव ॥ २.७४.२ ॥
甘婆啊,从王国中坠落吧!残忍的女人,行为邪恶的人,被法所弃,不要像死人一样哭泣。
2.74.3
किम् नु ते अदूषयद् राजा रामः वा भृश धार्मिकः ।
ययोः मृत्युर् विवासः च त्वत् कृते तुल्यम् आगतौ ॥ २.७४.३ ॥
国王或最为正直的罗摩,对你做了什么坏事?因为你,死亡和流放同样降临到了他们两人身上?
2.74.4
भ्रूणहत्याम् असि प्राप्ता कुलस्य अस्य विनाशनात् ।
कैकेयि नरकम् गच्च मा च भर्तुः सलोकताम् ॥ २.७४.४ ॥
你毁灭了这个家族,已经背负了杀害胎儿的罪过。甘婆啊,去地狱吧,不要得到你丈夫的世界。
2.74.5
यत्त्वया हीदृशम् पापम् कृतम् घोरेण कर्मणा ।
सर्वलोकप्रियम् हित्वा ममाप्यापादितम् भयम् ॥ २.७४.५ ॥
你以可怕的行为犯下了这样的罪过:舍弃了为众世界所爱的罗摩,甚至也给我带来了恐惧。
2.74.6
त्वत् कृते मे पिता वृत्तः रामः च अरण्यम् आश्रितः ।
अयशो जीव लोके च त्वया अहम् प्रतिपादितः ॥ २.७४.६ ॥
因为你,我的父亲已经去世,罗摩也投身森林。因为你,我被迫在世上背负着污名而活着。
2.74.7
मातृ रूपे मम अमित्रे नृशम्से राज्य कामुके ।
न ते अहम् अभिभाष्यो अस्मि दुर्वृत्ते पति घातिनि ॥ २.७४.७ ॥
你这披着母亲外表的仇敌,残忍而贪恋王位的女人!行为恶劣、杀害丈夫的人,我不配与你说话。
2.74.8
कौसल्या च सुमित्रा च याः च अन्या मम मातरः ।
दुह्खेन महता आविष्टाः त्वाम् प्राप्य कुल दूषिणीम् ॥ २.७४.८ ॥
考莎厘雅、苏弥陀罗以及我的其他母亲,因遭受巨大痛苦,因得到你这玷污家族的人而悲伤。
2.74.9
न त्वम् अश्व पतेः कन्या धर्म राजस्य धीमतः ।
राक्षसी तत्र जाता असि कुल प्रध्वम्सिनी पितुः ॥ २.७४.९ ॥
你并非那位正法之王、智慧的阿湿缚波蒂之女;你在那里出生为罗刹女,是毁灭父亲家族的人。
2.74.10
यत् त्वया धार्मिको रामः नित्यम् सत्य परायणः ।
वनम् प्रस्थापितः दुह्खात् पिता च त्रिदिवम् गतः ॥ २.७४.१० ॥
因为你把正直、始终坚守真理的罗摩流放到森林,而父亲因悲痛已升天。
2.74.11
यत् प्रधाना असि तत् पापम् मयि पित्रा विना कृते ।
भ्रातृभ्याम् च परित्यक्ते सर्व लोकस्य च अप्रिये ॥ २.७४.११ ॥
因为你是主谋,没有父亲而做的那桩罪过落在了我身上:我被两位兄弟抛弃,成为整个世界所厌恶的人。
2.74.12
कौसल्याम् धर्म सम्युक्ताम् वियुक्ताम् पाप निश्चये ।
कृत्वा कम् प्राप्स्यसे तु अद्य लोकम् निरय गामिनी ॥ २.७४.१२ ॥
你以罪恶的决意使具有法德的考莎厘雅与儿子分离,如今你将得到怎样的世界呢,你这将堕入地狱的人?
2.74.13
किम् न अवबुध्यसे क्रूरे नियतम् बन्धु सम्श्रयम् ।
ज्येष्ठम् पितृ समम् रामम् कौसल्याय आत्म सम्भवम् ॥ २.७४.१३ ॥
残忍的女人啊,你难道不明白,罗摩是长子,与父亲相等,是亲族的依靠,是考沙利雅亲自所生吗?
2.74.14
अन्ग प्रत्यन्गजः पुत्रः हृदयाच् च अपि जायते ।
तस्मात् प्रियतरः मातुः प्रियत्वान् न तु बान्धवः ॥ २.७४.१४ ॥
从肢体与各部分所生的儿子,也从心中所生;因此,母亲因为爱而更加珍视他,而不只是把他当作亲属。
2.74.15
अन्यदा किल धर्मज्ञा सुरभिः सुर सम्मता ।
वहमानौ ददर्श उर्व्याम् पुत्रौ विगत चेतसौ ॥ २.७४.१५ ॥
有一次,知晓正法、受诸天尊敬的苏罗毗看见她的两个儿子在地上负重,失去了知觉。
2.74.16
ताव् अर्ध दिवसे श्रान्तौ दृष्ट्वा पुत्रौ मही तले ।
रुरोद पुत्र शोकेन बाष्प पर्याकुल ईक्षणा ॥ २.७४.१६ ॥
正午时分,她看见两个疲惫地倒在地上的儿子,便为儿子的悲痛而哭泣,泪水模糊了双眼。
2.74.17
अधस्तात् व्रजतः तस्याः सुर राज्ञो महात्मनः ।
बिन्दवः पतिता गात्रे सूक्ष्माः सुरभि गन्धिनः ॥ २.७४.१७ ॥
她从下方经过时,如苏罗毗般芬芳的细小水滴落在这位大德的诸神之王身上。
2.74.18
इन्द्रोऽप्यश्रुनिपातम् तम् स्वगात्रे पुण्यगन्धिनम् ।
सुरभिम् मन्यते दृष्ट्वा भूयसीम् ताम् सुरेश्वरः ॥ २.७४.१८ ॥
因陀罗看见自己身上落下的那些香气纯净的泪滴,便以为那是苏罗毗大量的水滴。
2.74.19
निरीक्समाणः शक्रस्ताम् ददर्श सुरभिम् स्थिताम् ।
आकाशे विष्ठिताम् दीनाम् रुदतीम् भृशदुःखिताम् ॥ २.७४.१९ ॥
因陀罗凝视着她,看见站在空中、悲惨哭泣、极其痛苦的苏罗跋彌。
2.74.20
ताम् दृष्ट्वा शोक सम्तप्ताम् वज्र पाणिर् यशस्विनीम् ।
इन्द्रः प्रान्जलिर् उद्विग्नः सुर राजो अब्रवीद् वचः ॥ २.७४.२० ॥
看见这位因悲伤而痛苦的荣耀者,手持金刚杵的因陀罗合掌不安,诸神之王说出了这些话。
2.74.21
भयम् कच्चिन् न च अस्मासु कुतश्चित् विद्यते महत् ।
कुतः निमित्तः शोकः ते ब्रूहि सर्व हित एषिणि ॥ २.७४.२१ ॥
我们是否从任何地方面临大的恐惧?你悲伤的原因是什么?说吧,你这位追求众生福祉的人。
2.74.22
एवम् उक्ता तु सुरभिः सुर राजेन धीमता ।
पत्युवाच ततः धीरा वाक्यम् वाक्य विशारदा ॥ २.७४.२२ ॥
智慧的诸神之王如此问她之后,善于言辞、坚定的苏罗跋彌便对她的丈夫说出了这些话。
2.74.23
शान्तम् पातम् न वः किम्चित् कुतश्चित् अमर अधिप ।
अहम् तु मग्नौ शोचामि स्व पुत्रौ विषमे स्थितौ ॥ २.७४.२३ ॥
众神之主啊,你们从任何地方都不会遭遇覆灭。但我为身处困境的两个儿子而悲伤。
2.74.24
एतौ दृष्ट्वा कृषौ दीनौ सूर्य रश्मि प्रतापिनौ ।
अर्ध्यमानौ बली वर्दौ कर्षकेण सुर अधिप ॥ २.७४.२४ ॥
众神之主啊,请看这两头:被犁耕折磨得消瘦、可怜,被日光灼烤,两头强壮的公牛正被农夫鞭打。
2.74.25
मम कायात् प्रसूतौ हि दुह्खितौ भार पीडितौ ।
यौ दृष्ट्वा परितप्ये अहम् न अस्ति पुत्र समः प्रियः ॥ २.७४.२५ ॥
这两人出自我的身体,悲伤而被重担所压。见到他们,我痛苦万分;没有谁比儿子更亲爱。
2.74.26
यस्याः पुत्र सहस्त्रैस्तु कृत्स्नम् व्याप्तमिदम् जगत् ।
ताम् दृष्ट्वा रुदतीम् शक्रो न सुतान्मन्यते परम् ॥ २.७४.२६ ॥
她的千子充满整个世界;见她哭泣,连因陀罗也不认为自己的儿子胜过她。
2.74.27
सदाऽप्रतिमवृत्ताया लोकधारणकाम्यया ।
श्रीमत्या गुणनित्यायाः स्वभावपरिचेष्टया ॥ २.७४.२७ ॥
她的行为始终无与伦比,愿意护持世界,光辉而德行常备,其天性所行皆善。
2.74.28
यस्याः पुत्रसहस्राणि सापि शोचै कामधुक् ।
किम् पुनर् या विना रामम् कौसल्या वर्तयिष्यति ॥ २.७४.२८ ॥
即便她千子在侧,如同如意牛,也会悲伤;那么没有罗摩,考莎利亚将如何生存?
2.74.29
एक पुत्रा च साध्वी च विवत्सा इयम् त्वया कृता ।
तस्मात् त्वम् सततम् दुह्खम् प्रेत्य च इह च लप्स्यसे ॥ २.७४.२९ ॥
她是唯一的儿子的贤惠母亲,你却使她像失去小牛的母牛。因此你将在今世和来世永远受苦。
2.74.30
अहम् हि अपचितिम् भ्रातुः पितुः च सकलाम् इमाम् ।
वर्धनम् यशसः च अपि करिष्यामि न सम्शयः ॥ २.७४.३० ॥
我必将向兄长和父亲致以完满的敬意,并增进他们的荣誉;此事毫无疑问。
2.74.31
आनाययित्वा तनयम् कौसल्याया महा द्युतिम् ।
स्वयम् एव प्रवेक्ष्यामि वनम् मुनि निषेवितम् ॥ २.७४.३१ ॥
我将亲自把考莎厘雅那光辉灿烂的儿子接回,然后进入圣人们常居的森林。
2.74.32
न ह्यहम् पापसम्कल्पे पापे पापम् त्वया कृतम् ।
शक्तो धारयितुम् पौरैरश्रुकण्ठै र्निरीक्षितः ॥ २.७४.३२ ॥
你这心怀恶念的人,你这罪人!你所犯的罪过我无法承担;那些哽咽落泪的城中百姓正看着我。
2.74.33
सा त्वमग्निम् प्रविश वा स्वयम् वा दण्डकान्विश ।
रज्जुम् बधान वा कण्ठे न हि तेऽन्यत्परायणम् ॥ २.७४.३३ ॥
你去投火吧,或者自己前往檀陀迦森林,或者在颈上系一根绳子;对你来说,别无他途可归。
2.74.34
अहमप्यवनिम् प्राप्ते रामे सत्यपराक्रमे ।
कृतकृत्यो भविष्यामि विप्रवासितकल्मषः ॥ २.७४.३४ ॥
当真正勇武的罗摩回到大地之时,我也将完成我的责任,因流放而洗去了我的罪过。
2.74.35
पपात भुवि सम्क्रुद्धो निह्श्वसन्न् इव पन्नगः ॥ २.७४.३५ ॥
他极度愤怒,像蛇一样喘息着,倒在了地上。
2.74.36
सम्रक्त नेत्रः शिथिल अम्बरः तदा ।
विधूत सर्व आभरणः परम्तपः ।
बभूव भूमौ पतितः नृप आत्मजः ।
शची पतेः केतुर् इव उत्सव क्षये ॥ २.७४.३६ ॥
双眼通红,衣衫松散,所有饰物尽已脱落,这位令敌人苦恼的王子倒在地上,如同节庆结束时,帝释天(舍脂之夫)的旗帜倒下。