蚁垤《罗摩衍那》 · 篇 2.77
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.77.1
ततः दश अहे अतिगते कृत शौचो नृप आत्मजः ।
द्वादशे अहनि सम्प्राप्ते श्राद्ध कर्माणि अकारयत् ॥ २.७७.१ ॥
此后十日已过,已行净身之礼的王子于第十二日命人举行祭祖之śrāddha仪式。
2.77.2
ब्राह्मणेभ्यो ददौ रत्नम् धनम् अन्नम् च पुष्कलम् ।
वासाम्सि च महार्हाणि रत्नानि विविधानि च ॥ २.७७.२ ॥
他向婆罗门施予珠宝、财富和丰盛的食物,又施予贵重的衣物与各式宝石。
2.77.3
बास्तिकम् बहु शुक्लम् च गाः च अपि शतशः तथा ।
दासी दासम् च यानम् च वेश्मानि सुमहान्ति च ॥ २.७७.३ ॥
他还施予许多白山羊、数百头牛、男女仆人、车辆和极大的房屋。
2.77.4
ब्राह्मणेभ्यो ददौ पुत्रः राज्ञः तस्य और्ध्वदैहिकम् ।
ततः प्रभात समये दिवसे अथ त्रयोदशे ॥ २.७७.४ ॥
王子将其葬礼之仪交付婆罗门。随后,于黎明时分,第十三日。
2.77.5
विललाप महा बाहुर् भरतः शोक मूर्चितः ।
शब्द अपिहित कण्ठः च शोधन अर्थम् उपागतः ॥ २.७७.५ ॥
大臂的婆罗多悲痛昏厥而哀号,喉头哽咽;他前来举行净化之礼。
2.77.6
चिता मूले पितुर् वाक्यम् इदम् आह सुदुह्खितः ।
तात यस्मिन् निषृष्टः अहम् त्वया भ्रातरि राघवे ॥ २.७७.६ ॥
他在柴堆之下,悲痛欲绝,对父亲说道:“父亲啊!那位兄长罗怙之子,您曾将我托付于他——
2.77.7
तस्मिन् वनम् प्रव्रजिते शून्ये त्यक्तः अस्म्य् अहम् त्वया ।
यथा गतिर् अनाथायाः पुत्रः प्रव्राजितः वनम् ॥ २.७७.७ ॥
他前往森林之后,你在这空寂的宫室中抛弃了我,如同无依之母的儿子被流放到森林中。
2.77.8
ताम् अम्बाम् तात कौसल्याम् त्यक्त्वा त्वम् क्व गतः नृप ।
दृष्ट्वा भस्म अरुणम् तच् च दग्ध अस्थि स्थान मण्डलम् ॥ २.७७.८ ॥
父亲啊!你抛下母亲考萨利亚,国王啊,你去了何方?看见那被灰烬染红、布满焚烧骸骨的地方。
2.77.9
पितुः शरीर निर्वाणम् निष्टनन् विषसाद ह ।
स तु दृष्ट्वा रुदन् दीनः पपात धरणी तले ॥ २.७७.९ ॥
他见到父亲遗体焚化,呻吟着陷入绝望。他悲苦地哭泣,倒在地上。
2.77.10
उत्थाप्यमानः शक्रस्य यन्त्र ध्वजैव च्युतः ।
अभिपेतुस् ततः सर्वे तस्य अमात्याः शुचि व्रतम् ॥ २.७७.१० ॥
虽然众人如扶起因陀罗的机械旗竿那样扶他起来,他仍然倒下。于是他那些持守清净誓愿的大臣们都扑到他身上。
2.77.11
अन्त काले निपतितम् ययातिम् ऋषयो यथा ।
शत्रुघ्नः च अपि भरतम् दृष्ट्वा शोक परिप्लुतम् ॥ २.७७.११ ॥
如同诸仙人见到耶耶提在寿终时倒下,舍弹罗那也见到沉浸于悲痛中的婆罗多。
2.77.12
विसम्ज्ञो न्यपतत् भूमौ भूमि पालम् अनुस्मरन् ।
उन्मत्तैव निश्चेता विललाप सुदुह्खितः ॥ २.७७.१२ ॥
他想念那大地的守护者,失去知觉倒在地上。他如同疯狂,神志不清,极其悲痛地哀号起来。
2.77.13
स्मृत्वा पितुर् गुण अन्गानि तनि तानि तदा तदा ।
मन्थरा प्रभवः तीव्रः कैकेयी ग्राह सम्कुलः ॥ २.७७.१३ ॥
他一次次回想父亲的种种德行,那悲痛之海以曼特罗为源头,以凶猛的鳄鱼即凯开伊为其群,汹涌翻腾起来。
2.77.14
वर दानमयो अक्षोभ्यो अमज्जयत् शोक सागरः ।
सुकुमारम् च बालम् च सततम् लालितम् त्वया ॥ २.७७.१४ ॥
那由恩赐构成的、不可动摇的悲痛之海,使他沉没。那柔弱年幼、总是被你宠爱的人,
2.77.15
क्व तात भरतम् हित्वा विलपन्तम् गतः भवान् ।
ननु भोज्येषु पानेषु वस्त्रेष्व् आभरणेषु च ॥ २.७७.१५ ॥
父亲啊!你撇下哀哭的婆罗多去了哪里?你本是在饮食、饮品、衣物和饰品上照料他的啊。
2.77.16
प्रवारयसि नः सर्वाम्स् तन् नः को अद्य करिष्यति ।
अवदारण काले तु पृथिवी न अवदीर्यते ॥ २.७७.१६ ॥
你曾庇护我们所有人;如今为我们做这件事的人是谁?即便到了应当裂开的时候,大地也不裂开。
2.77.17
विहीना या त्वया राज्ञा धर्मज्ञेन महात्मना ।
पितरि स्वर्गम् आपन्ने रामे च अरण्यम् आश्रिते ॥ २.७७.१७ ॥
失去了你——那位通晓法义、心胸宏大的君王——当父亲升天,罗摩入林隐居之时。
2.77.18
किम् मे जीवित सामर्थ्यम् प्रवेक्ष्यामि हुत अशनम् ।
हीनो भ्रात्रा च पित्रा च शून्याम् इक्ष्वाकु पालिताम् ॥ २.७७.१८ ॥
我还有什么生存的力量?失去兄长与父亲的我,将投入火中——在这座由甘蔗王族守护、如今荒芜的城中。
2.77.19
अयोध्याम् न प्रवेक्ष्यामि प्रवेक्ष्यामि तपो वनम् ।
तयोः विलपितम् श्रुत्वा व्यसनम् च अन्ववेक्ष्य तत् ॥ २.७७.१९ ॥
我不进入阿逾陀;我将进入苦行林。听到他们二人的哀哭,并思考了那场灾难。
2.77.20
भृशम् आर्ततरा भूयः सर्वएव अनुगामिनः ।
ततः विषण्णौ श्रान्तौ च शत्रुघ्न भरताव् उभौ ॥ २.७७.२० ॥
随从们再次更加悲痛。于是,舍睩与婆罗多二人都沮丧而疲惫。
2.77.21
धरण्याम् सम्व्यचेष्टेताम् भग्न शृन्गाव् इव ऋषभौ ।
ततः प्रकृतिमान् वैद्यः पितुर् एषाम् पुरोहितः ॥ २.७७.२१ ॥
两人如断角的两头公牛,在地上翻滚挣扎。于是那位有智慧的医者,即他们父亲的家庭祭司。
2.77.22
वसिष्ठो भरतम् वाक्यम् उत्थाप्य तम् उवाच ह ।
त्रयोदशोऽयम् दिवसः पितुर्वृत्तस्य ते विभो ॥ २.७७.२२ ॥
婆私吒扶起婆罗多,对他说道:“啊,尊贵者,今天是你父亲去世后的第十三天。”
2.77.23
सावशेषास्थिनिचये किमिह त्वम् विलम्बसे ।
त्रीणि द्वन्द्वानि भूतेषु प्रवृत्तानि अविशेषतः ॥ २.७७.२३ ॥
你为何在这骨堆的残骸旁逗留?众生之中,三对相对之事无分别地存在。
2.77.24
तेषु च अपरिहार्येषु न एवम् भवितुम् अर्हति ।
सुमन्त्रः च अपि शत्रुघ्नम् उत्थाप्य अभिप्रसाद्य च ॥ २.७७.२४ ॥
在这些不可避免之事上,不应如此。苏曼陀罗也扶起舍睩,安慰他,[同样说道]。
2.77.25
श्रावयाम् आस तत्त्वज्ञः सर्व भूत भव अभवौ ।
उत्थितौ तौ नर व्याघ्रौ प्रकाशेते यशस्विनौ ॥ २.७७.२५ ॥
通晓真理的须摩陀罗使人宣讲一切众生生灭的道理;那两位人中虎、名声显赫的人便起身,光彩焕发。
2.77.26
वर्ष आतप परिक्लिन्नौ पृथग् इन्द्र ध्वजाव् इव ।
अश्रूणि परिमृद्नन्तौ रक्त अक्षौ दीन भाषिणौ ॥ २.७७.२६ ॥
两人被雨水和烈日淋湿,如同因陀罗的旗帜般各自分立,擦拭着泪水,双眼通红,以哀伤的声音说话。