Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 2.81

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

2.81.1

ततः नान्दी मुखीम् रात्रिम् भरतम् सूत मागधाः ।
तुष्टुवुर् वाग् विशेषज्ञाः स्तवैः मन्गल सम्हितैः ॥ २.८१.१ ॥

此时,在名为难提穆基的夜晚,精通言辞的御者与赞者以充满吉祥之词的颂歌赞美婆罗多。

2.81.2

सुवर्ण कोण अभिहतः प्राणदद् याम दुन्दुभिः ।
दध्मुः शन्खामः च शतशो वाद्यामः च उच्च अवच स्वरान् ॥ २.८१.२ ॥

以金槌敲击的更鼓响起,数百枚海螺与乐器以高低不同的音调齐鸣。

2.81.3

स तूर्य घोषः सुमहान् दिवम् आपूरयन्न् इव ।
भरतम् शोक सम्तप्तम् भूयः शोकैः अरन्ध्रयत् ॥ २.८१.३ ॥

那乐器之声极为宏大,仿佛充满了天空;它又以忧愁刺痛了深受哀伤煎熬的婆罗多。

2.81.4

ततः प्रबुद्धो भरतः तम् घोषम् सम्निवर्त्य च ।
न अहम् राजा इति च अपि उक्त्वा शत्रुघ्नम् इदम् अब्रवीत् ॥ २.८१.४ ॥

于是醒来的婆罗多止住了那声响,说道:“我并非国王。”随后对师露祗那说了这番话。

2.81.5

पश्य शत्रुघ्न कैकेय्या लोकस्य अपकृतम् महत् ।
विसृज्य मयि दुह्खानि राजा दशरथो गतः ॥ २.८१.५ ॥

看哪,师露祗那,凯开伊给世界造成了多么大的伤害!国王十车王将诸般悲苦抛给了我,自己离去了。

2.81.6

तस्य एषा धर्म राजस्य धर्म मूला महात्मनः ।
परिभ्रमति राज श्रीर् नौर् इव अकर्णिका जले ॥ २.८१.६ ॥

那位以法为本的大德法王的这份王者之福,如同水上没有舵的船,四处漂荡。

2.81.7

यो हि नः सुमहान्नाथः सोऽपि प्रव्राजितो वनम् ।
अनया धर्ममुत्सृज्य मात्रा मे राघवः स्वयम् ॥ २.८१.७ ॥

我们伟大的主人、那位罗伽瓦,也因这位我的母亲而舍弃法,被亲自放逐到森林中。

2.81.8

कृपणम् रुरुदुः सर्वाः सस्वरम् योषितः तदा ॥ २.८१.८ ॥

那时,所有女子都悲切地放声痛哭。

2.81.9

तथा तस्मिन् विलपति वसिष्ठो राज धर्मवित् ।
सभाम् इक्ष्वाकु नाथस्य प्रविवेश महा यशाः ॥ २.८१.९ ॥

她们如此哀哭之时,通晓王法、大名远扬的婆罗门仙人跋湿吒走进了伊刹婆迦王之主的议事堂。

2.81.10

शात कुम्भमयीम् रम्याम् मणि रत्न समाकुलाम् ।
सुधर्माम् इव धर्म आत्मा सगणः प्रत्यपद्यत ॥ २.८१.१० ॥

进入那用纯金制成、华美且镶满珠宝的大厅,如同善法堂一般,正义的婆罗门仙人与其随从抵达。

2.81.11

स कान्चनमयम् पीठम् पर अर्ध्य आस्तरण आवृतम् ।
अध्यास्त सर्व वेदज्ञो दूतान् अनुशशास च ॥ २.८१.११ ॥

他坐在覆盖着珍贵织物的金座上,通晓一切吠陀,于是对使者作了指示。

2.81.12

ब्राह्मणान् क्षत्रियान् योधान् अमात्यान् गण बल्लभान् ।
क्षिप्रम् आनयत अव्यग्राः कृत्यम् आत्ययिकम् हि नः ॥ २.८१.१२ ॥

请迅速召来婆罗门、刹帝利、武士、大臣以及会众的亲近之人;你们从容前去,因为我们的事务十分紧急。

2.81.13

सराजभृत्यम् शत्रुघ्नम् भरतम् च यश्स्विनम् ।
युधाजितम् सुमन्त्रम् च ये च तत्र हिता जनाः ॥ २.८१.१३ ॥

请带来与国王侍从一同的设睹卢祇那、著名的婆罗多、优陀耆多、苏曼陀罗,以及在那里的友好之人。

2.81.14

ततः हलहला शब्दो महान् समुदपद्यत ।
रथैः अश्वैः गजैः च अपि जनानाम् उपगच्चताम् ॥ २.८१.१४ ॥

于是,车辆、马匹、大象以及前来的人群发出巨大的喧嚣声。

2.81.15

ततः भरतम् आयान्तम् शत क्रतुम् इव अमराः ।
प्रत्यनन्दन् प्रकृतयो यथा दशरथम् तथा ॥ २.८१.१५ ॥

如同诸天欢迎百祭之因陀罗的到来,臣民也如当年迎接十车王那样,欢迎前来的婆罗多。

2.81.16

ह्रदैव तिमि नाग सम्वृतः ।
स्तिमित जलो मणि शन्ख शर्करः ।
दशरथ सुत शोभिता सभा ।
सदशरथा इव बभौ यथा पुरा ॥ २.८१.१६ ॥

如同被鱼群与水族环绕、水波静止、满布宝石、贝壳与砂砾的湖泊,由十车王之子装点的议事厅闪耀着光辉,仿佛十车王亲在其中,一如往昔。