Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 2.83

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

2.83.1

ततः समुत्थितः काल्यम् आस्थाय स्यन्दन उत्तमम् ।
प्रययौ भरतः शीघ्रम् राम दर्शन कान्क्षया ॥ २.८३.१ ॥

于是,Bharata清晨起身,登上上好的战车,渴望见到Rāma,迅速启程。

2.83.2

अग्रतः प्रययुस् तस्य सर्वे मन्त्रि पुरोधसः ।
अधिरुह्य हयैः युक्तान् रथान् सूर्य रथ उपमान् ॥ २.८३.२ ॥

在他前面,所有大臣和祭司乘坐以马驾辕、如同太阳战车的车辆前行。

2.83.3

नव नाग सहस्राणि कल्पितानि यथा विधि ।
अन्वयुर् भरतम् यान्तम् इक्ष्वाकु कुल नन्दनम् ॥ २.८३.३ ॥

九千头大象,依礼装饰,跟随着启程的Bharata——伊克什瓦库家族的喜悦。

2.83.4

षष्ठी रथ सहस्राणि धन्विनो विविध आयुधाः ।
अन्वयुर् भरतम् यान्तम् राज पुत्रम् यशस्विनम् ॥ २.८३.४ ॥

六万辆战车,以及携带各种兵器的弓箭手,跟随着启程的Bharata——这位名声显赫的王子。

2.83.5

शतम् सहस्राणि अश्वानाम् समारूढानि राघवम् ।
अन्वयुर् भरतम् यान्तम् राज पुत्रम् यशस्विनम् ॥ २.८३.५ ॥

十万匹战马,骑士们乘骑其上,跟随着启程的Bharata——罗古后裔,名声显赫的王子。

2.83.6

कैकेयी च सुमित्रा च कौसल्या च यशस्विनी ।
राम आनयन सम्हृष्टा ययुर् यानेन भास्वता ॥ २.८३.६ ॥

名声显赫的Kaikeyī、Sumitrā与Kausalyā,因将迎回Rāma而欢喜,乘坐光辉的车驾出发。

2.83.7

प्रयाताः च आर्य सम्घाता रामम् द्रष्टुम् सलक्ष्मणम् ।
तस्य एव च कथाः चित्राः कुर्वाणा हृष्ट मानसाः ॥ २.८३.७ ॥

众多贵族结伴出发,去见罗摩与罗什曼那,一路上说着种种关于他的话,心中欢喜。

2.83.8

मेघ श्यामम् महा बाहुम् स्थिर सत्त्वम् दृढ व्रतम् ।
कदा द्रक्ष्यामहे रामम् जगतः शोक नाशनम् ॥ २.८३.८ ॥

我们何时才能见到罗摩?他肤色如云般深黑,臂膀宏大,性情坚定,誓言不移,是消除世间忧愁之人。

2.83.9

दृष्टएव हि नः शोकम् अपनेष्यति राघवः ।
तमः सर्वस्य लोकस्य समुद्यन्न् इव भास्करः ॥ २.८३.९ ॥

一旦见到他,罗ghava便会消除我们的忧愁,正如初升的太阳驱散世间的一切黑暗。

2.83.10

परिष्वजानाः च अन्योन्यम् ययुर् नागरिकाः तदा ॥ २.८३.१० ॥

于是城中居民互相拥抱着前行。

2.83.11

ये च तत्र अपरे सर्वे सम्मता ये च नैगमाः ।
रामम् प्रति ययुर् हृष्टाः सर्वाः प्रकृतयः तदा ॥ २.८३.११ ॥

那里其他所有受尊敬的人,以及商会的成员,都欢喜地奔向罗摩;那时所有的臣民也都前往。

2.83.12

मणि काराः च ये केचित् कुम्भ काराः च शोभनाः ।
सूत्र कर्म कृतः चैव ये च शस्त्र उपजीविनः ॥ २.८३.१२ ॥

宝石工匠、一些陶工、技艺精湛的工匠、从事纺织的人,以及以武器为生的人。

2.83.13

मायूरकाः क्राकचिका रोचका वेधकाः तथा ।
दन्त काराः सुधा काराः तथा गन्ध उपजीविनः ॥ २.८३.१३ ॥

制孔雀者、锯工、磨光工、钻孔工,以及象牙工、灰泥工和以香料为生者,也随行而去。

2.83.14

सुवर्ण काराः प्रख्याताः तथा कम्बल धावकाः ।
स्नापक आच्चादका वैद्या धूपकाः शौण्डिकाः तथा ॥ २.८३.१४ ॥

金匠、著名的毯子洗涤工、沐浴侍者、缝制衣物者、医师、制香者和酿酒者,也随行而去。

2.83.15

रजकाः तुन्न वायाः च ग्राम घोष महत्तराः ।
शैलूषाः च सह स्त्रीभिर् यान्ति कैवर्तकाः तथा ॥ २.८३.१५ ॥

洗衣工、裁缝、村落与牧人聚落的长者、伶人,以及与妻子同行的渔夫,也随婆罗多而行。

2.83.16

समाहिता वेदविदो ब्राह्मणा वृत्त सम्मताः ।
गो रथैः भरतम् यान्तम् अनुजग्मुः सहस्रशः ॥ २.८३.१६ ॥

心志专一、通晓吠陀、以德行受人尊敬的婆罗门,成千上万地乘牛车跟随着前往的婆罗多。

2.83.17

सुवेषाः शुद्ध वसनाः ताम्र मृष्ट अनुलेपनाः ।
सर्वे ते विविधैः यानैः शनैः भरतम् अन्वयुः ॥ २.८३.१७ ॥

他们都衣着整洁,身穿洁净衣裳,身上涂抹着光亮的铜色香膏,乘坐各式车辆,缓缓跟随婆罗多。

2.83.18

प्रहृष्ट मुदिता सेना सान्वयात् कैकयी सुतम् ।
भ्रातुरानयने यान्तम् भरतम् भ्रातृवत्सलम् ॥ २.८३.१८ ॥

欢欣喜悦的军队紧随着婆罗多——那位去迎回兄长、深爱兄长的吉迦伊之子。

2.83.19

ते गत्वा दूरमध्वानम् रथम् यानाश्वकुञ्जरैः ।
समासेदुस्ततो गङ्गाम् शृङ्गिबेरपुरम् प्रति ॥ २.८३.१९ ॥

他们乘车辆、马与象走过漫长的路程,向恒河边的Śṛṅgiberapura行去。

2.83.20

यत्र रामसखो वीरो गुहो ज्ञातिगणैर्वृतः ।
निवसत्यप्रमादेन देशम् तम् परिपालयन् ॥ २.८३.२० ॥

勇士Guha是罗摩的朋友,被亲族围绕,谨慎地守护着那片土地,居住在那里。

2.83.21

उपेत्य तीरम् गङ्गायाश्चक्रमाकैरलङ्कतम् ।
व्यवतिष्ठत सा सेना भरतस्य अनुयायिनी ॥ २.८३.२१ ॥

抵达恒河岸边后,跟随婆罗多的那支军队在一个круг形营地中停驻,营地以如山的帐篷装饰。

2.83.22

निरीक्ष्य अनुगताम् सेनाम् ताम् च गन्गाम् शिव उदकाम् ।
भरतः सचिवान् सर्वान् अब्रवीद् वाक्य कोविदः ॥ २.८३.२२ ॥

婆罗多望着随行的军队和水清吉祥的恒河,善于言辞的他对所有大臣说道。

2.83.23

निवेशयत मे सैन्यम् अभिप्रायेण सर्वशः ।
विश्रान्तः प्रतरिष्यामः श्वैदानीम् महा नदीम् ॥ २.८३.२३ ॥

按照我的意图,把我的军队全部安置好;休息之后,明天我们将渡过这条大河。

2.83.24

दातुम् च तावद् इच्चामि स्वर् गतस्य मही पतेः ।
और्ध्वदेह निमित्त अर्थम् अवतीर्य उदकम् नदीम् ॥ २.८३.२४ ॥

现在我想为升天的国王奉献水祭;为了亡者的葬礼仪式,我将下到河中献上水。

2.83.25

तस्य एवम् ब्रुवतः अमात्याः तथा इति उक्त्वा समाहिताः ।
न्यवेशयम्स् तामः चन्देन स्वेन स्वेन पृथक् पृथक् ॥ २.८३.२५ ॥

他这样说完,大臣们说:“就这样吧。”于是专心地将那支军队各自按其意愿分别安置在不同的地方。

2.83.26

निवेश्य गन्गाम् अनु ताम् महा नदीम् ।
चमूम् विधानैः परिबर्ह शोभिनीम् ।
उवास रामस्य तदा महात्मनो ।
विचिन्तयानो भरतः निवर्तनम् ॥ २.८३.२६ ॥

他将那支以随从与装备为饰的军队沿着大河恒河安营后,婆罗多便留在那里,思念着伟大之魂罗摩的归来。