Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 3.1

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.1.1

प्रविश्य तु महारण्यं दण्डकारण्यमात्मवान्।
रामो ददर्श दुर्धर्षस्तापसाश्रममण्डलम् ॥ ३.१.१ ॥

自制而难以战胜的罗摩进入了大森林——檀陀迦森林,看见了苦行者的林居群落。

3.1.2

कुशचीरपरिक्षिप्तं ब्राह्म्या लक्ष्म्या समावृतम्।
यथा प्रदीप्तं दुर्दर्शं गगने सूर्यमण्डलम् ॥ ३.१.२ ॥

周围是吉祥草和树皮衣,被婆罗门的光辉笼罩,如同天空中燃烧的太阳圆盘,令人难以直视。

3.1.3

शरण्यं सर्वभूतानां सुसम्मृष्टाजिरं सदा।
मृगैर्बहुभिराकीर्णं पक्षिसंघैः समावृतम् ॥ ३.१.३ ॥

是一切众生的庇护所,庭院常年洒扫干净,充满众多鹿群,被鸟群环绕。

3.1.4

पूजितं चोपनृत्तं च नित्यमप्सरसां गणैः।
विशालैरग्निशरणैः स्रुग्भाण्डैरजिनैः कुशैः ॥ ३.१.४ ॥

常受阿普萨拉仙女群的礼敬,她们在此起舞;以宽广的祭火坛、勺与器皿、鹿皮及吉祥草为装饰。

3.1.5

समिद्भिस्तोयकलशैः फलमूलैश्च शोभितम्।
आरण्यैश्च महावृक्षैः पुण्यैः स्वादुफलैर्वृतम् ॥ ३.१.५ ॥

以柴薪、水瓶、果实和根茎装点,被林中大树和结甘美果实的圣树环绕。

3.1.6

बलिहोमार्चितं पुण्यं ब्रह्मघोषनिनादितम्।
पुष्पैश्चान्यैः परिक्षिप्तं पद्मिन्या च सपद्मया ॥ ३.१.६ ॥

受祭祀与供奉礼敬,神圣清净,回荡着吠陀的诵声,被其他花卉和盛开莲花的池塘环绕。

3.1.7

फलमूलाशनैर्दान्तैश्चीरकृष्णाजिनाम्बरैः।
सूर्यवैश्वानराभैश्च पुराणैर्मुनिभिर्युतम् ॥ ३.१.७ ॥

其中有古老的仙人,以果实和根茎为食,克制自己的感官,身着树皮衣和黑羚羊皮,光辉如太阳与祭火毗湿伐那罗。

3.1.8

पुण्यैश्च नियताहारैः शोभितं परमर्षिभिः।
तद् ब्रह्मभवनप्रख्यं ब्रह्मघोषनिनादितम् ॥ ३.१.८ ॥

那座修道之所有圣洁的大仙人以节制饮食装点,宛如梵天的居所,回荡着吠陀诵唱之声。

3.1.9

ब्रह्मविद्भिर्महाभागैर्ब्राह्मणैरुपशोभितम्।
तद् दृष्ट्वा राघवः श्रीमांस्तापसाश्रममण्डलम् ॥ ३.१.९ ॥

罗怀婆(罗摩)看见那一片苦行者的林居圈,为通晓梵者和大福德的婆罗门所装点,这位光辉的罗怀婆。

3.1.10

अभ्यगच्छन्महातेजा विज्यं कृत्वा महद् धनुः।
दिव्यज्ञानोपपन्नास्ते रामं दृष्ट्वा महर्षयः ॥ ३.१.१० ॥

威光盛大者张开大弓走近;具备神圣智慧的诸大仙人看见了罗摩。

3.1.11

अभिजग्मुस्तदा प्रीता वैदेहीं च यशस्विनीम्।
ते तु सोममिवोद्यन्तं दृष्ट्वा वै धर्मचारिणम् ॥ ३.१.११ ॥

于是他们欢喜地也走向著名的毗提诃公主(悉多);因为他们看见了行法的罗摩,如同升起的月亮。

3.1.12

लक्ष्मणं चैव दृष्ट्वा तु वैदेहीं च यशस्विनीम्।
मङ्गलानि प्रयुञ्जानाः प्रत्यगृह्णन् दृढव्रताः ॥ ३.१.१२ ॥

看见罗什曼那与著名的毗提诃公主(悉多),守持坚定誓愿的仙人们吟诵吉祥之语欢迎了他们。

3.1.13

रूपसंहननं लक्ष्मीं सौकुमार्यं सुवेषताम्।
ददृशुर्विस्मिताकारा रामस्य वनवासिनः ॥ ३.१.१३ ॥

林中的居民面带惊讶之色,注视着罗摩的容貌、强健的体格、光彩、温和气质与俊美的仪表。

3.1.14

वैदेहीं लक्ष्मणं रामं नेत्रैरनिमिषैरिव।
आश्चर्यभूतान् ददृशुः सर्वे ते वनवासिनः ॥ ३.१.१४ ॥

林中所有居民都以不眨的眼睛注视着维德赫希、罗什曼那和罗摩,仿佛他们是奇迹。

3.1.15

अत्रैनं हि महाभागाः सर्वभूतहिते रताः।
अतिथिं पर्णशालायां राघवं संन्यवेशयन् ॥ ३.१.१५ ॥

这些有大福之人专心于一切众生的利益,把罗ghava作为客人安置在叶屋之中。

3.1.16

ततो रामस्य सत्कृत्य विधिना पावकोपमाः।
आजह्रुस्ते महाभागाः सलिलं धर्मचारिणः ॥ ३.१.१६ ॥

随后,那些如火般光辉、行持法道的大福之人,依礼恭敬地款待罗摩,并取来了水。

3.1.17

मङ्गलानि प्रयुञ्जाना मुदा परमया युताः।
मूलं पुष्पं फलं सर्वमाश्रमं च महात्मनः ॥ ३.१.१७ ॥

他们满怀至上的喜悦,行吉祥之礼,将根、花、果及一切,以及隐修之所,献给这位大德之人。

3.1.18

निवेदयित्वा धर्मज्ञास्ते तु प्राञ्जलयोऽब्रुवन्।
धर्मपालो जनस्यास्य शरण्यश्च महायशाः ॥ ३.१.१८ ॥

那些通晓法道之人献上礼物后,合掌说道:"此人是这些百姓的法道护持者、庇护所,且有大名望。"

3.1.19

पूजनीयश्च मान्यश्च राजा दण्डधरो गुरुः।
इन्द्रस्यैव चतुर्भागः प्रजा रक्षति राघव ॥ ३.१.१९ ॥

国王值得尊敬,受人敬重,执掌刑杖,又是师长;如同因陀罗的四分之一,他守护百姓,罗怙之后啊。

3.1.20

राजा तस्माद् वरान् भोगान् रम्यान् भुङ्क्ते नमस्कृतः।
ते वयं भवता रक्ष्या भवद्विषयवासिनः।
नगरस्थो वनस्थो वा त्वं नो राजा जनेश्वरः ॥ ३.१.२० ॥

因此,国王受人致敬,享受着上好而令人愉悦的欢乐。我们居住在你的国土上,应受你的守护。无论在城中还是林中,你都是我们的国王,万民之主。

3.1.21

न्यस्तदण्डा वयं राजञ्जितक्रोधा जितेन्द्रियाः।
रक्षणीयास्त्वया शश्वद् गर्भभूतास्तपोधनाः ॥ ३.१.२१ ॥

国王啊,我们已放下刑杖;我们战胜了愤怒,制服了感官。苦行便是我们的财富;你应当永远守护我们,如同守护腹中的胎儿。

3.1.22

एवमुक्त्वा फलैर्मूलैः पुष्पैरन्यैश्च राघवम्।
वन्यैश्च विविधाहारैः सलक्ष्मणमपूजयन् ॥ ३.१.२२ ॥

说罢,他们以果实、根茎、花朵、其他林中之物和各种食物,款待了罗怙之后与罗什曼那。

3.1.23

तथान्ये तापसाः सिद्धा रामं वैश्वानरोपमाः।
न्यायवृत्ता यथान्यायं तर्पयामासुरीश्वरम् ॥ ३.१.२३ ॥

其余的成就苦行者亦然,他们如祭火般光耀,行事合乎正道,依礼向主人罗摩奉献,使其欢喜。