蚁垤《罗摩衍那》 · 篇 3.12
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.12.1
स प्रविश्याश्रमपदं लक्ष्मणो राघवानुजः।
अगस्त्यशिष्यमासाद्य वाक्यमेतदुवाच ह ॥ ३.१२.१ ॥
罗怙之子(罗摩)的幼弟罗什曼那进入修行处,走近阿伽斯提亚的弟子,说了这些话。
3.12.2
राजा दशरथो नाम ज्येष्ठस्तस्य सुतो बली।
रामः प्राप्तो मुनिं द्रष्टुं भार्यया सह सीतया ॥ ३.१२.२ ॥
名为十车王的国王之长子、强大的罗摩,与妻子悉多一同前来拜见圣人。
3.12.3
लक्ष्मणो नाम तस्याहं भ्राता त्ववरजो हितः।
अनुकूलश्च भक्तश्च यदि ते श्रोत्रमागतः ॥ ३.१२.३ ॥
我名罗什曼那,是他的幼弟,忠诚、顺从、虔敬;若此事已传到您的耳中。
3.12.4
ते वयं वनमत्युग्रं प्रविष्टाः पितृशासनात्।
द्रष्टुमिच्छामहे सर्वे भगवन्तं निवेद्यताम् ॥ ३.१२.४ ॥
奉父亲之命,我们进入了这片极其可怕的森林。我们都想拜见尊者,请代为通报。
3.12.5
तस्य तद् वचनं श्रुत्वा लक्ष्मणस्य तपोधनः।
तथेत्युक्त्वाग्निशरणं प्रविवेश निवेदितुम् ॥ ३.१२.५ ॥
苦行富足的圣人听了罗什曼那的话,说:「就这样吧」,便走进火祭之所去通报。
3.12.6
स प्रविश्य मुनिश्रेष्ठं तपसा दुष्प्रधर्षणम्।
कृताञ्जलिरुवाचेदं रामागमनमञ्जसा ॥ ३.१२.६ ॥
他走入圣人中最卓越者的面前——此人以苦行而不可侵犯——合掌,随即这样直接禀报了罗摩的到来。
3.12.7
यथोक्तं लक्ष्मणेनैव शिष्योऽगस्त्यस्य सम्मतः।
पुत्रौ दशरथस्येमौ रामो लक्ष्मण एव च ॥ ३.१२.७ ॥
正如罗什曼那所说,阿伽斯蒂亚所爱的弟子说:这两人是十车王之子,罗摩与罗什曼那。
3.12.8
प्रविष्टावाश्रमपदं सीतया सह भार्यया।
द्रष्टुं भवन्तमायातौ शुश्रूषार्थमरिंदमौ ॥ ३.१२.८ ॥
二位降伏敌人的英雄与妻子悉多一同进入修行处,为拜见您并侍奉您而来。
3.12.9
यदत्रानन्तरं तत् त्वमाज्ञापयितुमर्हसि।
ततः शिष्यादुपश्रुत्य प्राप्तं रामं सलक्ष्मणम् ॥ ३.१२.९ ॥
此后应当如何,请您吩咐。于是,从弟子那里听说罗摩与罗什曼那已经到来——
3.12.10
वैदेहीं च महाभागामिदं वचनमब्रवीत्।
दिष्ट्या रामश्चिरस्याद्य द्रष्टुं मां समुपागतः ॥ ३.१२.१० ॥
他对极有福气的毗提诃说了这些话:幸运的是,罗摩今日久别之后前来见我。
3.12.11
मनसा कांक्षितं ह्यस्य मयाप्यागमनं प्रति।
गम्यतां सत्कृतो रामः सभार्यः सहलक्ष्मणः ॥ ३.१२.११ ॥
我心中也曾期盼他们的到来。请以礼相迎,让罗摩与妻子及罗什曼那一同前来。
3.12.12
प्रवेश्यतां समीपं मे किमसौ न प्रवेशितः।
एवमुक्तस्तु मुनिना धर्मज्ञेन महात्मना ॥ ३.१२.१२ ॥
应当把他带到我的跟前;为何未将他引进来?——当这位通晓法义、心胸广大的仙人如此说时——
3.12.13
अभिवाद्याब्रवीच्छिष्यस्तथेति नियताञ्जलिः।
तदा निष्क्रम्य सम्भ्रान्तः शिष्यो लक्ष्मणमब्रवीत् ॥ ३.१२.१३ ॥
弟子行礼后说:「遵命。」他合掌,惊慌地走出,对罗什曼那说道。
3.12.14
कोऽसौ रामो मुनिं द्रष्टुमेतु प्रविशतु स्वयम्।
ततो गत्वाऽऽश्रमपदं शिष्येण सह लक्ष्मणः ॥ ३.१२.१४ ॥
「让那位罗摩来拜见圣人,让他亲自进来。」于是,罗什曼那与弟子一同前往隐居处……
3.12.15
दर्शयामास काकुत्स्थं सीतां च जनकात्मजाम्।
तं शिष्यः प्रश्रितं वाक्यमगस्त्यवचनं ब्रुवन् ॥ ३.१२.१५ ॥
他向他们展示了迦古特斯塔的罗摩与阁那伽之女悉多。弟子说着恭敬的话语——那是阿伽斯蒂亚的口信——
3.12.16
प्रावेशयद् यथान्यायं सत्कारार्हं सुसत्कृतम्।
प्रविवेश ततो रामः सीतया सह लक्ष्मणः ॥ ३.१२.१६ ॥
他依礼将值得尊敬、备受礼遇的罗摩领进;随后罗摩与悉多、罗什曼那一同入内。
3.12.17
प्रशान्तहरिणाकीर्णमाश्रमं ह्यवलोकयन्।
स तत्र ब्रह्मणः स्थानमग्नेः स्थानं तथैव च ॥ ३.१२.१७ ॥
他环顾这座充满宁静鹿群的隐居处,在那里看见了梵天的圣所,也看见了火神的圣所。
3.12.18
विष्णोः स्थानं महेन्द्रस्य स्थानं चैव विवस्वतः।
सोमस्थानं भगस्थानं स्थानं कौबेरमेव च ॥ ३.१२.१८ ॥
毗湿奴的圣所、摩呵因陀罗的圣所、毗婆娑婆(太阳)的圣所、月神的圣所、婆伽的圣所,以及俱毗罗的圣所。
3.12.19
धातुर्विधातुः स्थानं च वायोः स्थानं तथैव च।
स्थानं च पाशहस्तस्य वरुणस्य महात्मनः ॥ ३.१२.१९ ॥
造物者与安排者的居所,风神的居所,同样还有手持绳索的大德伐楼拿的居所。
3.12.20
स्थानं तथैव गायत्र्या वसूनां स्थानमेव च।
स्थानं च नागराजस्य गरुडस्थानमेव च ॥ ३.१२.२० ॥
同样还有伽耶特丽的居所与诸婆苏的居所;蛇王的居所,以及迦楼罗的居所。
3.12.21
कार्तिकेयस्य च स्थानं धर्मस्थानं च पश्यति।
ततः शिष्यैः परिवृतो मुनिरप्यभिनिष्पतत् ॥ ३.१२.२१ ॥
他又看见了迦尔提盖耶的居所与法神的居所。此时,被弟子们环绕的仙人也走了出来。
3.12.22
तं ददर्शाग्रतो रामो मुनीनां दीप्ततेजसाम्।
अब्रवीद् वचनं वीरो लक्ष्मणं लक्ष्मिवर्धनम् ॥ ३.१२.२२ ॥
英雄罗摩在光辉灿烂的众仙人前方看见了他,并对增添吉祥的罗什曼那说了这番话。
3.12.23
बहिर्लक्ष्मण निष्क्रामत्यगस्त्यो भगवानृषिः।
औदार्येणावगच्छामि निधानं तपसामिमम् ॥ ३.१२.२३ ॥
罗什曼那,尊贵的仙人阿加斯提亚正走出来。由他的仁厚,我知道他是苦行的宝藏。
3.12.24
एवमुक्त्वा महाबाहुरगस्त्यं सूर्यवर्चसम्।
जग्राहापततस्तस्य पादौ च रघुनन्दनः ॥ ३.१२.२४ ॥
说完这话,大臂的罗怙后裔之乐走向如太阳般光辉的阿加斯提亚,俯身跪倒,抱住了他的双足。
3.12.25
अभिवाद्य तु धर्मात्मा तस्थौ रामः कृताञ्जलिः।
सीतया सह वैदेह्या तदा रामः सलक्ष्मणः ॥ ३.१२.२५ ॥
正直的罗摩行礼之后合掌而立;此时罗摩与毗提诃公主悉多、罗什曼那一同站立。
3.12.26
प्रतिगृह्य च काकुत्स्थमर्चयित्वाऽऽसनोदकैः।
कुशलप्रश्नमुक्त्वा च आस्यतामिति सोऽब्रवीत् ॥ ३.१२.२६ ॥
他接待了迦古特斯塔的罗摩,以座位和清水敬待,问候其平安,说道:“请坐。”
3.12.27
अग्निं हुत्वा प्रदायार्घ्यमतिथीन् प्रतिपूज्य च।
वानप्रस्थेन धर्मेण स तेषां भोजनं ददौ ॥ ३.१२.२७ ॥
他向火供奉,献上敬水,恭敬地款待客人,依照林居者的规矩给他们食物。
3.12.28
प्रथमं चोपविश्याथ धर्मज्ञो मुनिपुंगवः।
उवाच राममासीनं प्राञ्जलिं धर्मकोविदम् ॥ ३.१२.२८ ॥
这位知法的最优秀的仙人先行坐下,然后对坐着、合掌的、精通法的罗摩说道。
3.12.29
अग्निं हुत्वा प्रदायार्घ्यमतिथिं प्रतिपूजयेत्।
अन्यथा खलु काकुत्स्थ तपस्वी समुदाचरन्।
दुःसाक्षीव परे लोके स्वानि मांसानि भक्षयेत् ॥ ३.१२.२९ ॥
应当以向火供奉和献上敬水来尊敬客人;否则,迦古特斯塔的罗摩啊,行事相反的苦行者,如同伪证者,将在来世吃自己的肉。
3.12.30
राजा सर्वस्य लोकस्य धर्मचारी महारथः।
पूजनीयश्च मान्यश्च भवान् प्राप्तः प्रियातिथिः ॥ ३.१२.३० ॥
你是整个世界的君王,奉行法的大车士;值得尊敬和敬重,你作为可爱的客人而来。
3.12.31
एवमुक्त्वा फलैर्मूलैः पुष्पैश्चान्यैश्च राघवम्।
पूजयित्वा यथाकामं ततोऽगस्त्यस्तमब्रवीत् ॥ ३.१२.३१ ॥
说罢,他以果实、根茎、花朵和其他物品,依罗怙之愿加以供养,然后阿伽斯蒂亚对他说道。
3.12.32
इदं दिव्यं महच्चापं हेमवज्रविभूषितम्।
वैष्णवं पुरुषव्याघ्र निर्मितं विश्वकर्मणा ॥ ३.१२.३२ ॥
人中之虎啊!这张神圣的大弓以黄金和金刚石装饰,属于毗湿奴,由毗首羯摩所造。
3.12.33
अमोघः सूर्यसंकाशो ब्रह्मदत्तः शरोत्तमः।
दत्तौ मम महेन्द्रेण तूणी चाक्षय्यसायकौ ॥ ३.१२.३३ ॥
这支不会落空、如太阳般光辉的箭,是梵天所赐的最上之箭;而因陀罗(摩亨德拉)赐给我两个装有不尽之箭的箭囊。
3.12.34
सम्पूर्णौ निशितैर्बाणैर्ज्वलद्भिरिव पावकैः।
महाराजतकोशोऽयमसिर्हेमविभूषितः ॥ ३.१२.३४ ॥
那两个箭囊装满了锐利的箭,光芒灼灼如同烈火;而这把剑,带着巨大的金鞘,以黄金装饰。
3.12.35
अनेन धनुषा राम हत्वा संख्ये महासुरान्।
आजहार श्रियं दीप्तां पुरा विष्णुर्दिवौकसाम् ॥ ३.१२.३५ ॥
罗摩啊!正是凭借这张弓,毗湿奴在战斗中杀死了众多大阿修罗,从前夺回了诸天神的光辉荣耀。
3.12.36
तद्धनुस्तौ च तूणी च शरं खड्गं च मानद।
जयाय प्रतिगृह्णीष्व वज्रं वज्रधरो यथा ॥ ३.१२.३६ ॥
赐人尊荣者啊!请接受这张弓、那两个箭囊、箭与剑,以求胜利,正如持金刚者接受金刚杵一般。
3.12.37
एवमुक्त्वा महातेजाः समस्तं तद्वरायुधम्।
दत्त्वा रामाय भगवानगस्त्यः पुनरब्रवीत् ॥ ३.१२.३७ ॥
说罢,大光明的世尊阿伽斯蒂亚将那一切上好的兵器全部交给罗摩,然后又说道。