Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 3.13

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.13.1

राम प्रीतोऽस्मि भद्रं ते परितुष्टोऽस्मि लक्ष्मण।
अभिवादयितुं यन्मां प्राप्तौ स्थः सह सीतया ॥ ३.१३.१ ॥

罗摩说:罗什曼那,愿你吉祥。你们二人与悉多一同前来向我致敬,我甚感欣慰,心满意足。

3.13.2

अध्वश्रमेण वां खेदो बाधते प्रचुरश्रमः।
व्यक्तमुत्कण्ठते वापि मैथिली जनकात्मजा ॥ ३.१३.२ ॥

旅途的疲劳折磨着你们二人,巨大的辛劳压迫着你们。显然,遮那伽之女弥提利也在思念与忧虑之中。

3.13.3

एषा च सुकुमारी च खेदैश्च न विमानिता।
प्राज्यदोषं वनं प्राप्ता भर्तृस्नेहप्रचोदिता ॥ ३.१३.३ ॥

她虽柔弱,却未因这些艰辛而受辱。受对夫君之爱的驱使,她来到了充满重重危险的森林。

3.13.4

यथैषा रमते राम इह सीता तथा कुरु।
दुष्करं कृतवत्येषा वने त्वामभिगच्छती ॥ ३.१३.४ ॥

请使悉多在此处像罗摩一样快乐;她来到森林中找你,已完成了一件艰难的事。

3.13.5

एषा हि प्रकृतिः स्त्रीणामासृष्टे रघुनन्दन।
समस्थमनुरज्यन्ते विषमस्थं त्यजन्ति च ॥ ३.१३.५ ॥

啊,罗怙族的喜悦者,自创世以来,女子的本性正是如此:她们依恋处于安逸之人,却抛弃身处困境之人。

3.13.6

शतह्रदानां लोलत्वं शस्त्राणां तीक्ष्णतां तथा।
गरुडानिलयोः शैघ्र्यमनुगच्छन्ति योषितः ॥ ३.१३.६ ॥

女子效法闪电的无常、兵器的锋利,以及迦如荼与风的迅疾。

3.13.7

इयं तु भवतो भार्या दोषैरेतैर्विवर्जिता।
श्लाघ्या च व्यपदेश्या च यथा देवीष्वरुन्धती ॥ ३.१३.७ ॥

她是你的妻子,没有这些过失;她值得赞美,堪比众女神中的阿伦陀蒂,可作为典范。

3.13.8

अलंकृतोऽयं देशश्च यत्र सौमित्रिणा सह।
वैदेह्या चानया राम वत्स्यसि त्वमरिंदम ॥ ३.१३.८ ॥

此地也十分美丽;罗摩啊,降伏敌人者,你将与苏弥特拉及这位毗提诃公主一同居住在此。

3.13.9

एवमुक्तस्तु मुनिना राघवः संयताञ्जलिः।
उवाच प्रश्रितं वाक्यमृषिं दीप्तमिवानलम् ॥ ३.१३.९ ॥

圣人如此说后,罗怙后裔合掌恭敬地对这位光辉如燃烧之火的圣人说话。

3.13.10

धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे मुनिपुंगवः।
गुणैः सभ्रातृभार्यस्य गुरुर्नः परितुष्यति ॥ ३.१३.१० ॥

我何其有幸、蒙受恩宠,圣人中的至尊、我们的导师,因其德行而喜悦于我,连同我的兄弟和妻子。

3.13.11

किं तु व्यादिश मे देशं सोदकं बहुकाननम्।
यत्राश्रमपदं कृत्वा वसेयं निरतः सुखम् ॥ ३.१३.११ ॥

请为我指示一处有水、林木茂盛的地方,让我在那里建立修行处,安乐地专心修行居住。

3.13.12

ततोऽब्रवीन्मुनिश्रेष्ठः श्रुत्वा रामस्य भाषितम्।
ध्यात्वा मुहूर्तं धर्मात्मा ततोवाच वचः शुभम् ॥ ३.१३.१२ ॥

于是圣人中的至尊听了罗摩的话,沉思片刻,这位善心者说出了吉祥的话语。

3.13.13

इतो द्वियोजने तात बहुमूलफलोदकः।
देशो बहुमृगः श्रीमान् पञ्चवट्यभिविश्रुतः ॥ ३.१३.१३ ॥

亲爱的孩子,离此两由旬之处有一处美丽的地方,盛产根茎、果实与清水,鹿群众多,名为般遮婆提。

3.13.14

तत्र गत्वाऽऽश्रमपदं कृत्वा सौमित्रिणा सह।
रमस्व त्वं पितुर्वाक्यं यथोक्तमनुपालयन् ॥ ३.१३.१४ ॥

你到那里后,与Saumitri(罗什曼那)一起建立修行处,依照父亲所说的话去遵行,在那里安乐地居住吧。

3.13.15

विदितो ह्येष वृत्तान्तो मम सर्वस्तवानघ।
तपसश्च प्रभावेण स्नेहाद् दशरथस्य च ॥ ३.१३.१५ ॥

无罪者啊,你的全部经历我都知道,这是因我苦行的力量,也因对十车王的爱。

3.13.16

हृदयस्थं च ते च्छन्दो विज्ञातं तपसा मया।
इह वासं प्रतिज्ञाय मया सह तपोवने ॥ ३.१३.१६ ॥

你心中的意愿,我也以苦行所知。你承诺在此与我一同居住于苦行林中……

3.13.17

अतश्च त्वामहं ब्रूमि गच्छ पञ्चवटीमिति।
स हि रम्यो वनोद्देशो मैथिली तत्र रंस्यते ॥ ३.१३.१७ ॥

因此我告诉你:去般遮婆提吧。那片林地确实令人心悦,在那里,摩提利将感到欢乐。

3.13.18

स देशः श्लाघनीयश्च नातिदूरे च राघव।
गोदावर्याः समीपे च मैथिली तत्र रंस्यते ॥ ३.१३.१८ ॥

罗怙婆啊,那地方值得称赞,也不太远;它靠近戈达瓦里河,在那里,摩提利将感到欢乐。

3.13.19

प्राज्यमूलफलैश्चैव नानाद्विजगणैर्युतः।
विविक्तश्च महाबाहो पुण्यो रम्यस्तथैव च ॥ ३.१३.१९ ॥

啊,大臂者!此地盛产根茎与果实,群鸟繁多,幽静、神圣而又宜人。

3.13.20

भवानपि सदाचारः शक्तश्च परिरक्षणे।
अपि चात्र वसन् राम तापसान् पालयिष्यसि ॥ ३.१३.२० ॥

你也常持善行,又能护佑他人。罗摩啊,住在此地,你也将护卫苦行者。

3.13.21

एतदालक्ष्यते वीर मधूकानां महावनम्।
उत्तरेणास्य गन्तव्यं न्यग्रोधमपि गच्छता ॥ ३.१३.२१ ॥

啊,英雄!此处可见那片庞大的摩度迦树林。应向其北方而行,同时也朝着榕树的方向前去。

3.13.22

ततः स्थलमुपारुह्य पर्वतस्याविदूरतः।
ख्यातः पञ्चवटीत्येव नित्यपुष्पितकाननः ॥ ३.१३.२२ ॥

随后登上山旁不远的一片平地,便见那片名为般遮婆提、常年花开的树林。

3.13.23

अगस्त्येनैवमुक्तस्तु रामः सौमित्रिणा सह।
सत्कृत्यामन्त्रयामास तमृषिं सत्यवादिनम् ॥ ३.१३.२३ ॥

阿伽斯提如此说后,罗摩与苏弥陀罗之子一同敬礼那位诚实的仙人,然后向他告辞。

3.13.24

तौ तु तेनाभ्यनुज्ञातौ कृतपादाभिवन्दनौ।
तमाश्रमं पञ्चवटीं जग्मतुः सह सीतया ॥ ३.१३.२४ ॥

二人得到许可,向他的脚下礼拜后,与悉多一同前往那座名为般遮婆提的净修林。

3.13.25

गृहीतचापौ तु नराधिपात्मजौ
विषक्ततूणी समरेष्वकातरौ।
यथोपदिष्टेन पथा महर्षिणा
प्रजग्मतुः पञ्चवटीं समाहितौ ॥ ३.१३.२५ ॥

两位王子手持弓箭,背负箭囊,在战阵中无所畏惧,心神专注地依照大仙所指的路,前往般遮伐底。