Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 3.15

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.15.1

ततः पंचवटीम् गत्वा नाना व्याल मृगायुताम् ।
उवाच भ्रातरम् रामो लक्ष्मणम् दीप्त तेजसम् ॥ ३.१५.१ ॥

于是来到般遮婆提,那里栖息着各种猛兽与鹿群,罗摩对光辉灿烂的弟弟罗什曼那说道。

3.15.2

आगताः स्म यथा उद्दिष्टम् यम् देशम् मुनिः अब्रवीत् ।
अयम् पंचवटी देशः सौम्य पुष्पित काननः ॥ ३.१५.२ ॥

我们已到达仙人所指之处。此处便是般遮婆提之地,善良的人啊,这里的森林繁花盛开。

3.15.3

सर्वतः चार्यताम् दृष्टिः कानने निपुणो हि असि ।
आश्रमः कतर अस्मिन् नः देशे भवति सम्मतः ॥ ३.१५.३ ॥

请四处察看,你确实精通林中之事。在此地,哪一处隐修所适合我们居住?

3.15.4

रमते यत्र वैदेही त्वम् अहम् चैव लक्ष्मण ।
तादृशो दृश्यताम् देशः संनिकृष्ट जलाशयः ॥ ३.१५.४ ॥

罗什曼那,请看一处像样的地方,让维代希、你和我都能愉快地居住,且附近有水池。

3.15.5

वन रामण्यकम् यत्र जल रामण्यकम् तथा ।
संनिकृष्टम् च यस्मिन् तु समित् पुष्प कुश उदकम् ॥ ३.१५.५ ॥

哪里有林木之美与水泽之美,近处有柴薪、花朵、吉祥草与清水?

3.15.6

एवम् उक्तः तु रामेण लक्मणः संयत अंजलिः ।
सीता समक्षम् काकुत्स्थम् इदम् वचनम् अब्रवीत् ॥ ३.१५.६ ॥

罗摩如此说后,罗什曼那合掌,在悉多面前,对卡库特斯塔族的罗摩说了这番话。

3.15.7

परवान् अस्मि काकुत्स्थ त्वयि वर्ष शतम् स्थिते ।
स्वयम् तु रुचिरे देशे क्रियताम् इति माम् वद ॥ ३.१५.७ ॥

哦,迦吐持之子,即使您住上百年,我也听从您的吩咐。请您自己选一处美好的地方,吩咐我在那里建造住所。

3.15.8

सुप्रीतः तेन वाक्येन लक्ष्मणस्य महाद्युतिः ।
विमृशन् रोचयामास देशम् सर्व गुण अन्वितम् ॥ ३.१५.८ ॥

大光明的罗摩听了罗什曼那的这番话非常高兴。他思量后,赞许了这处具备一切美德的地方。

3.15.9

स तम् रुचिरम् आक्रम्य देशम् आश्रम कर्मणि ।
हस्ते गृहीत्वा हस्तेन रामः सौमित्रिम् अब्रवीत् ॥ ३.१५.९ ॥

罗摩巡视了那处美好的地方,准备建造庵舍,便握住罗什曼那的手,对他说道。

3.15.10

अयम् देशः समः श्रीमान् पुष्पितैर् तरुभिर् वृतः ।
इह आश्रम पदम् सौम्य यथावत् कर्तुम् अर्हसि ॥ ३.१५.१० ॥

此地平坦美丽,四周环绕着盛开的树木。善良的人啊,你应当在这里妥善地选定庵舍的地址。

3.15.11

इयम् आदित्य संकाशैः पद्मैः सुरभि गंधिभिः ।
अदूरे दृश्यते रम्या पद्मिनी पद्म शोभिता ॥ ३.१५.११ ॥

不远处可以看到这座美丽的莲花池,池中盛开着芬芳的莲花,闪耀如太阳。

3.15.12

यथा आख्यातम् अगस्त्येन मुनिना भावितात्मना ।
इयम् गोदावरी रम्या पुष्पितैः तरुभिर् वृता ॥ ३.१५.१२ ॥

正如心志纯净的仙人阿伽斯蒂亚所描述的那样,这里便是被盛开的树木环绕的美丽的戈达瓦里河。

3.15.13

हंस कारण्डव आकीर्णा चक्रवाक उपशोभिता ।
न अतिदूरे न च आसन्ने मृग यूथ निपीडिता ॥ ३.१५.१३ ॥

天鹅与迦兰达婆鸭云集,赤麻鸭点缀其间,不远不近,群鹿密集其旁。

3.15.14

मयूर नादिता रम्याः प्रांशवो बहु कंदराः ।
दृश्यन्ते गिरयः सौम्य फुल्लैः तरुभिर् आवृताः ॥ ३.१५.१४ ॥

好人啊,可见秀丽高耸的群山,多有洞穴,回荡着孔雀的鸣叫,被开花的树木覆盖。

3.15.15

सौवर्णै राजतैः ताम्रैः देशे देशे च धातुभिः ।
गवाक्षिता इव आभान्ति गजाः परम भक्तिभिः ॥ ३.१५.१५ ॥

各处所产的金、银、铜等矿石装点其身,大象宛如开着窗户,在盛装之中熠熠生辉。

3.15.16

सालैः तालैः तमालैः च खर्जूरैः पनसैः द्रुमैः ।
नीवारैः तिनिशैः चैव पुन्नागैः च उपशोभिताः ॥ ३.१५.१६ ॥

以娑罗树、多罗树、多摩罗树、枣椰、菠萝蜜及其他树木装点,也有尼瓦拉、提尼舍和本那加树相映。

3.15.17

चूतैर् अशोकैः तिलकैः केतकैर् अपि चंपकैः ।
पुष्प गुल्म लता उपेतैः तैः तैः तरुभिर् आवृताः ॥ ३.१५.१७ ॥

也有芒果树、无忧树、提拉卡树、盖塔基花、金色之花,被这些那些满布花朵、灌木与藤蔓的树木覆盖。

3.15.18

स्यन्दनैः चंदनैः नीपैः पर्णासैः लकुचैः अपि ।
धव अश्वकर्ण खदिरैः शमी किंशुक पाटलैः ॥ ३.१५.१८ ॥

有苏扬达那树、旃檀树、尼波树、帕尔纳沙树、拉古恰树,也有达婆树、马耳树、卡迪拉树、沙弥树、金苏卡树和帕塔拉树。

3.15.19

इदम् पुण्यम् इदम् रम्यम् इदम् बहु मृग द्विजम् ।
इह वत्स्याम सौमित्रे सार्धम् एतेन पक्षिणा ॥ ३.१५.१९ ॥

苏弥special的儿子啊,此处神圣而秀美,鹿与鸟类众多。我们便在此与这只鸟一同居住。

3.15.20

एवम् उक्तः तु रामेण लक्ष्मणः परवीरहा ।
अचिरेण आश्रमम् भ्रातुः चकार सुमहाबलः ॥ ३.१५.२० ॥

罗摩如此吩咐后,诛灭敌方英雄、力量极大的罗什曼那很快为兄长建成了一座修行之舍。

3.15.21

पर्णशालाम् सुविपुलाम् तत्र संघात मृत्तिकाम् ।
सुस्तंभाम् मस्करैर् दीर्घैः कृत वंशाम् सुशोभनाम् ॥ ३.१५.२१ ॥

他在那里建起一座十分宽敞的叶屋,墙用夯实的泥土筑成,柱子牢固,以长竹为支撑,并固定了屋脊梁,十分秀美。

3.15.22

शमी शाखाभिः आस्तीर्य धृढ पाशावपाशितम् ।
कुश काश शरैः पर्णैः सुपरिच्छादिताम् तथा ॥ ३.१५.२२ ॥

以沙弥树的枝条覆盖,用坚韧的绳索捆扎,并以古沙草、迦沙草、芦苇和树叶盖得十分严密。

3.15.23

समीकृत तलाम् रम्याम् चकार सुमहाबलः ।
निवासम् राघवस्य अर्थे प्रेक्ष्णीयम् अनुत्तमम् ॥ ३.१५.२३ ॥

大力的罗什曼那为罗怙后裔(罗摩)建造了一处地面平整、令人心悦的居所,值得一观,无与伦比。

3.15.24

स गत्वा लक्ष्मणः श्रीमान् नदीम् गोदावरीम् तदा ।
स्नात्वा पद्मानि च आदाय सफलः पुनर् आगतः ॥ ३.१५.२४ ॥

那位光辉的罗什曼那随即前往戈达瓦里河,沐浴之后,采了莲花,圆满地返回。

3.15.25

ततः पुष्प बलिम् कृत्वा शान्तिम् च स यथाविधि ।
दर्शयामास रामाय तद् आश्रम पदम् कृतम् ॥ ३.१५.२५ ॥

随后,他依照仪轨献上花供并行安宁之礼,向罗摩展示了他所建的那处修行处所。

3.15.26

स तम् दृष्ट्वा कृतम् सौम्यम् आश्रमम् सह सीतया ।
राघवः पर्णशालायाम् हर्षम् आहारयत् परम् ॥ ३.१५.२६ ॥

罗摩与悉多一同看到所建的那处清雅的修行处所,在叶屋中生出极大的喜悦。

3.15.27

सुसंहृष्टः परिष्वज्य बाहुभ्याम् लक्ष्मणम् तदा ।
अति स्निग्धम् च गाढम् च वचनम् च इदम् अब्रवीत् ॥ ३.१५.२७ ॥

他十分欢喜,以双臂拥抱罗什曼,以极为温厚而坚定的话语说道:

3.15.28

प्रीतो अस्मि ते महत् कर्म त्वया कृतम् इदम् प्रभो ।
प्रदेयो यन् निमित्तम् ते परिष्वंगो मया कृतः ॥ ३.१५.२८ ॥

啊,主人,我因你而欢喜;你完成了这件大事。为你的缘故,我给予了这个拥抱作为酬谢。

3.15.29

भावज्ञेन कृतज्ञेन धर्मज्ञेन च लक्ष्मण ।
त्वया पुत्रेण धर्मात्मा न संवृत्तः पिता मम ॥ ३.१५.२९ ॥

啊,罗什曼,你懂人心、知恩义、明正法,虽为儿子,我那德行高尚的父亲却仿佛不再为我而在。

3.15.30

एवम् लक्ष्मणम् उक्त्वा तु राघवो लक्ष्मिवर्धनः ।
तस्मिन् देशे बहु फले न्यवसत् स सुखम् सुखी ॥ ३.१५.३० ॥

对罗什曼说完这些话,增益吉祥的罗摩便在那果实丰饶之地安然喜乐地居住下来。

3.15.31

कंचित् कालम् स धर्मात्मा सीतया लक्ष्मणेन च अन्वास्यमानो न्यवसत् स्वर्ग लोके यथा अमरः ॥ ३.१५.३१ ॥

праведный Рама在此居住了一段时间,受到悉多和罗什曼那的侍奉,如同天界的不死者一般。