Vedyatra वेदयात्रा
検索

ヴァールミーキのラーマーヤナ · サルガ 3.16

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

3.16.1

अथ पञ्चवटीं गच्छन्नन्तरा रघुनन्दनः।
आससाद महाकायं गृध्रं भीमपराक्रमम् ॥ ३.१६.१ ॥

ラグの歓喜ラーマは、パンチャヴァティーへ向かう途中で、巨大な体と恐ろしい力を持つ一羽の禿鷹に出会った。

3.16.2

तं दृष्ट्वा तौ महाभागौ वनस्थं रामलक्ष्मणौ।
मेनाते राक्षसं पक्षिं ब्रुवाणौ को भवानिति ॥ ३.१६.२ ॥

森に住むその鳥を見た、大いなる幸運に恵まれた二人、ラーマとラクシュマナは、それをラークシャサの鳥と思い、「あなたは誰か」と尋ねた。

3.16.3

ततो मधुरया वाचा सौम्यया प्रीणयन्निव।
उवाच वत्स मां विद्धि वयस्यं पितुरात्मनः ॥ ३.१६.३ ॥

すると、甘く優しい声で、彼らを喜ばせるかのように言った。「わが子よ、私をお前の父の友と知れ。」

3.16.4

स तं पितृसखं मत्वा पूजयामास राघवः।
स तस्य कुलमव्यग्रमथ पप्रच्छ नाम च ॥ ३.१६.४ ॥

ラーガヴァは彼を父の友と見なして敬い、そして落ち着いて、その血統と名を尋ねた。

3.16.5

रामस्य वचनं श्रुत्वा कुलमात्मानमेव च।
आचचक्षे द्विजस्तस्मै सर्वभूतसमुद्भवम् ॥ ३.१६.५ ॥

ラーマの言葉を聞いて、その再生の鳥(ドヴィジャ)は、すべての生き物の起源から始めて、自らの血統と自分自身について語った。

3.16.6

पूर्वकाले महाबाहो ये प्रजापतयोऽभवन्।
तान् मे निगदतः सर्वानादितः शृणु राघव ॥ ३.१६.६ ॥

「昔、生主(プラジャーパティ)となった者たちを、大腕のラーガヴァよ、私が語るとおりに、初めからすべて聞きなさい。」

3.16.7

कर्दमः प्रथमस्तेषां विकृतस्तदनन्तरम्।
शेषश्च संश्रयश्चैव बहुपुत्रश्च वीर्यवान् ॥ ३.१६.७ ॥

彼らのうち最初はカルダマ、その次はヴィクリタ。続いてシェーシャとサンシュラヤ、そして多くの息子を持つ勇者。

3.16.8

स्थाणुर्मरीचरत्रिश्च क्रतुश्चैव महाबलः।
पुलस्त्यश्चाङ्गिराश्चैव प्रचेताः पुलहस्तथा ॥ ३.१६.८ ॥

スターヌ、マリーチとアトリ、そして大力のクラトゥ。プラスティヤ、アンギラス、プラチェータス、そしてプラハも。

3.16.9

दक्षो विवस्वानपरोऽरिष्टनेमिश्च राघव।
कश्यपश्च महातेजास्तेषामासीच्च पश्चिमः ॥ ३.१६.९ ॥

ダクシャ、ヴィヴァスヴァット、もう一人のアリシュタネーミ、ラガヴァよ。そして輝く大カシュヤパ、彼が彼らの最後であった。

3.16.10

प्रजापतेस्तु दक्षस्य बभूवुरिति विश्रुताः।
षष्टिर्दुहितरो राम यशस्विन्यो महायशः ॥ ३.१६.१० ॥

生主ダクシャには六十人の娘が生まれたと伝えられる。ラーマよ、彼女たちは栄光に満ち、大いなる名声を持っていた。

3.16.11

कश्यपः प्रतिजग्राह तासामष्टौ सुमध्यमाः।
अदितिं च दितिं चैव दनूमपि च कालकाम् ॥ ३.१६.११ ॥

カシュヤパは彼女らのうち、細い腰を持つ八人を迎えた。アディティ、ディティ、ダヌー、そしてカーラカー。

3.16.12

ताम्रां क्रोधवशां चैव मनुं चाप्यनलामपि।
तास्तु कन्यास्ततः प्रीतः कश्यपः पुनरब्रवीत् ॥ ३.१६.१२ ॥

タームラー、クロダヴァシャー、マヌ、そしてアナラー。その娘たちに喜んだカシュヤパは、再び語った。

3.16.13

पुत्रांस्त्रैलोक्यभर्तॄन् वै जनयिष्यथ मत्समान्।
अदितिस्तन्मना राम दितिश्च दनुरेव च ॥ ३.१६.१३ ॥

ラーマよ、そなたたちは三界の主であり、わしに等しい息子たちを産むであろう。アディティ、ディティ、ダヌもまた心をそこに向けて、同じようにするであろう。

3.16.14

कालका च महाबाहो शेषास्त्वमनसोऽभवन्।
अदित्यां जज्ञिरे देवास्त्रयस्त्रिंशदरिंदम ॥ ३.१६.१४ ॥

大腕の者よ、カーラカーとほかの者たちは不満の心となった。アディティからは三十三神が生まれた、敵を制する者よ。

3.16.15

आदित्या वसवो रुद्रा अश्विनौ च परंतप।
दितिस्त्वजनयत् पुत्रान् दैत्यांस्तात यशस्विनः ॥ ३.१६.१५ ॥

アーディティヤ神群、ヴァス神群、ルドラ神群、二人のアシュヴィン、敵を焼く者よ。しかしディティは、名高いダイティヤの息子たちを産んだ、わが子よ。

3.16.16

तेषामियं वसुमती पुराऽऽसीत् सवनार्णवा।
दनुस्त्वजनयत् पुत्रमश्वग्रीवमरिंदम ॥ ३.१६.१६ ॥

かつてこの大地ヴァスマティーは海に囲まれ、彼らのものであった。ダヌは息子アシュヴァグリーヴァを産んだ、敵を制する者よ。

3.16.17

नरकं कालकं चैव कालकापि व्यजायत।
क्रौञ्चीं भासीं तथा श्येनीं धृतराष्ट्रीं तथा शुकीम् ॥ ३.१६.१७ ॥

カーラカーはナラカとカーラカを産み、またクラウンチー、バースィー、シュエーニー、ドリタラーシュトリー、シュキーをも産んだ。

3.16.18

ताम्रा तु सुषुवे कन्याः पञ्चैता लोकविश्रुताः।
उलूकाञ्जनयत् क्रौञ्ची भासी भासान् व्यजायत ॥ ३.१६.१८ ॥

タームラーは世に名高いこの五人の娘を産んだ。クラウンチーはフクロウを産み、バースィーからは鷹が生まれた。

3.16.19

श्येनी श्येनांश्च गृध्रांश्च व्यजायत सुतेजसः।
धृतराष्ट्री तु हंसांश्च कलहंसाश्च सर्वशः ॥ ३.१६.१९ ॥

シュエーニーは鷹と禿鷹を産んだ。いずれも大いに輝いていた。ドリタラーシュトリーは白鳥と鶴を、あらゆる種類にわたって産んだ。

3.16.20

चक्रवाकांश्च भद्रं ते विजज्ञे सापि भामिनी।
शुकी नतां विजज्ञे तु नतायां विनता सुता ॥ ३.१६.२० ॥

あなたに幸いがあるように。その美しい女はまた赤鴨を産んだ。シュキーはナターを産み、ナターの娘がヴィナターであった。

3.16.21

दश क्रोधवशा राम विजज्ञेऽप्यात्मसंभवाः।
मृगीं च मृगमन्दां च हरीं भद्रमदामपि ॥ ३.१६.२१ ॥

ラーマよ、クローダヴァシャーは自ら生んだ十人の娘を産んだ。雌鹿、ムリガマンダー、ハリー、そしてバドラマダーも。

3.16.22

मातङ्गीमथ शार्दूलीं श्वेतां च सुरभीं तथा।
सर्वलक्षणसम्पन्नां सुरसां कद्रुकामपि ॥ ३.१६.२२ ॥

マータンギー、シャールドゥーリー、シュヴェーター、スラビー、そして一切の吉相を備えたスラサー、そしてカドルカーも。

3.16.23

अपत्यं तु मृगाः सर्वे मृग्या नरवरोत्तम।
ऋक्षाश्च मृगमन्दायाः सृमराश्चमरास्तथा ॥ ३.१६.२३ ॥

人の中で最も優れた方よ、すべての鹿は雌鹿の子孫である。熊、スルマラ鹿、ヤクはムリガマンダーの子孫である。

3.16.24

ततस्त्विरावतीं नाम जज्ञे भद्रमदा सुताम्।
तस्यास्त्वैरावतः पुत्रो लोकनाथो महागजः ॥ ३.१६.२४ ॥

次にバドラマダーはアイラーヴァティーという娘を産んだ。その子はアイラーヴァタ、世界の主である大象であった。

3.16.25

हर्याश्च हरयोऽपत्यं वानराश्च तपस्विनः।
गोलाङ्गूलाश्च शार्दूली व्याघ्रांश्चाजनयत् सुतान् ॥ ३.१६.२५ ॥

ハリヤーの子孫はハリ、ヴァーナラ、苦行者であった。ゴーランゴーラとシャールドゥーリーは虎を息子として産んだ。

3.16.26

मातङ्ग्यास्त्वथ मातङ्गा अपत्यं मनुजर्षभ।
दिशागजं तु काकुत्स्थ श्वेता व्यजनयत् सुतम् ॥ ३.१६.२६ ॥

マータンギーの子孫はマータンガ(象)であった。人中の牡牛よ、カークトゥスタよ、シュヴェータは方角の象ディシャーガジャという息子を産んだ。

3.16.27

ततो दुहितरौ राम सुरभिर्द्वे व्यजायत।
रोहिणीं नाम भद्रं ते गन्धर्वीं च यशस्विनीम् ॥ ३.१६.२७ ॥

そののち、ラーマよ、スラビには二人の娘が生まれた。ローヒニーという名の娘と、名高いガンダルヴィーである。あなたに幸いがあるように。

3.16.28

रोहिण्यजनयद् गावो गन्धर्वी वाजिनः सुतान्।
सुरसाजनयन्नागान् राम कद्रूश्च पन्नगान् ॥ ३.१६.२८ ॥

ローヒニーは牛を産み、ガンダルヴィーは馬を息子として産んだ。ラーマよ、スラサーは龍(ナーガ)を産み、カドルーは蛇を産んだ。

3.16.29

मनुर्मनुष्याञ्जनयत् कश्यपस्य महात्मनः।
ब्राह्मणान् क्षत्रियान् वैश्यान् शूद्रांश्च मनुजर्षभ ॥ ३.१६.२९ ॥

偉大なるカシャパの子マヌは人間を生んだ。すなわちバラモン、クシャトリヤ、ヴァイシャ、シュードラである。人中の牡牛よ。

3.16.30

मुखतो ब्राह्मणा जाता उरसः क्षत्रियास्तथा।
ऊरुभ्यां जज्ञिरे वैश्याः पद्भ्यां शूद्रा इति श्रुतिः ॥ ३.१६.३० ॥

口からバラモンが生まれ、胸からクシャトリヤが生まれた。腿からヴァイシャが生まれ、足からシュードラが生まれた——とシュルティは伝える。

3.16.31

सर्वान् पुण्यफलान् वृक्षाननलापि व्यजायत।
विनता च शुकीपौत्री कद्रूश्च सुरसास्वसा ॥ ३.१६.३१ ॥

アナラーは功徳の実を結ぶすべての木を生んだ。シュキーの孫娘ヴィナターと、スラサーの妹カドルーも、この系譜に連なる。

3.16.32

कद्रूर्नागसहस्रं तु विजज्ञे धरणीधरान्।
द्वौ पुत्रौ विनतायास्तु गरुडोऽरुण एव च ॥ ३.१६.३२ ॥

カドルーは大地を支える千のナーガを生んだ。ヴィナターには二人の息子、ガルダとアルナがいた。

3.16.33

तस्माज्जातोऽहमरुणात् सम्पातिश्च ममाग्रजः।
जटायुरिति मां विद्धि श्येनीपुत्रमरिंदम ॥ ३.१६.३३ ॥

そのアルナから私は生まれた。私の兄はサンパーティ。私をジャターユと知れ——シュyenīの息子、敵を制する者よ。

3.16.34

सोऽहं वाससहायस्ते भविष्यामि यदीच्छसि।
इदं दुर्गं हि कान्तारं मृगराक्षससेवितम्।
सीतां च तात रक्षिष्ये त्वयि याते सलक्ष्मणे ॥ ३.१६.३४ ॥

もし望むなら、あなたの住まいの伴侶となろう。この森は越えがたく、鹿と羅刹が出入りする。愛しい子よ、あなたがラクシュマナと共に去った後、私がシーターを守ろう。

3.16.35

जटायुषं तु प्रतिपूज्य राघवो
मुदा परिष्वज्य च संनतोऽभवत् ।
पितुर्हि शुश्राव सखित्वमात्मवा-
ञ्जटायुषा संकथितं पुनः पुनः ॥ ३.१६.३५ ॥

ジャターユを敬い、ラーガヴァは喜んで抱擁し深く頭を垂れた。自制心ある彼は、ジャターユが繰り返し語った父との友情を聞いた。

3.16.36

स तत्र सीतां परिदाय मैथिलीं
सहैव तेनातिबलेन पक्षिणा।
जगाम तां पञ्चवटीं सलक्ष्मणो
रिपून् दिधक्षन् शलभानिवानलः ॥ ३.१६.३६ ॥

そこでミティラーの娘シーターをあの非常に強力な鳥に託し、ラクシュマナと共にパンチャヴァティーへ向かった。敵を蛾のように焼き尽くそうとする火のように。