ヴァールミーキのラーマーヤナ · サルガ 3.19
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.19.1
तां तथा पतितां दृष्ट्वा विरूपां शोणितोक्षिताम्।
भगिनीं क्रोधसंतप्तः खरः पप्रच्छ राक्षसः ॥ ३.१९.१ ॥
彼女がこのように倒れ、姿を損なわれ血にまみれているのを見て、怒りに焼かれた羅刹カラは妹に尋ねた。
3.19.2
उत्तिष्ठ तावदाख्याहि प्रमोहं जहि सम्भ्रमम्।
व्यक्तमाख्याहि केन त्वमेवंरूपा विरूपिता ॥ ३.१९.२ ॥
立ち上がって、今すぐ話せ。混乱と動揺を捨てよ。誰がお前をこのように醜くしたのか、はっきり言え。
3.19.3
कः कृष्णसर्पमासीनमाशीविषमनागसम्।
तुदत्यभिसमापन्नमङ्गुल्यग्रेण लीलया ॥ ३.१९.३ ॥
そこに座っている黒い蛇、毒を持つが罪なきものを、近づいてきたのに、戯れに指先で突くのは誰か。
3.19.4
कालपाशं समासज्य कण्ठे मोहान्न बुध्यते।
यस्त्वामद्य समासाद्य पीतवान् विषमुत्तमम् ॥ ३.१९.४ ॥
首に死の綱を巻きつけながら迷いによってそれに気づかず、今日お前のもとに来て、最上の毒を飲んだのは誰か。
3.19.5
बलविक्रमसम्पन्ना कामगा कामरूपिणी।
इमामवस्थां नीता त्वं केनान्तकसमागता ॥ ३.१९.५ ॥
力と勇気を備え、意のままに動き、意のままに姿を変えるお前が、誰によってこのような状態に追い込まれたのか。まるで死神に出会ったかのようだ。
3.19.6
देवगन्धर्वभूतानामृषीणां च महात्मनाम्।
कोऽयमेवं महावीर्यस्त्वां विरूपां चकार ह ॥ ३.१९.६ ॥
神々、ガンダルヴァ、精霊、聖仙、偉大な魂の中で、このように大いなる力を持ち、お前を醜くしたのは誰か。
3.19.7
नहि पश्याम्यहं लोके यः कुर्यान्मम विप्रियम्।
अमरेषु सहस्राक्षं महेन्द्रं पाकशासनम् ॥ ३.१९.७ ॥
世界中に私の気に障ることをする者は見当たらない。神々の中の千眼のマヘーンドラ、パーカを制するインドラでさえも。
3.19.8
अद्याहं मार्गणैः प्राणानादास्ये जीवितान्तगैः।
सलिले क्षीरमासक्तं निष्पिबन्निव सारसः ॥ ३.१९.८ ॥
今日、私は命を断つ矢で彼らの命を奪おう。水に混ざった乳を鶴が飲むように。
3.19.9
निहतस्य मया संख्ये शरसंकृत्तमर्मणः।
सफेनं रुधिरं कस्य मेदिनी पातुमिच्छति ॥ ३.१९.९ ॥
戦いで私に討たれ、急所を矢に断たれた者の泡立つ血を、どの大地が飲みたがるだろうか。
3.19.10
कस्य पत्ररथाः कायान्मांसमुत्कृत्य संगताः।
प्रहृष्टा भक्षयिष्यन्ति निहतस्य मया रणे ॥ ३.१९.१० ॥
戦いで私に討たれた者の体から、翼ある者たちが肉を引き裂き、集まって喜びながら食らうのはどの者か。
3.19.11
तं न देवा न गन्धर्वा न पिशाचा न राक्षसाः।
मयापकृष्टं कृपणं शक्तास्त्रातुं महाहवे ॥ ३.१९.११ ॥
私に引きずり倒されたその哀れな者を、大戦において神々も、ガンダルヴァも、ピシャーチャも、ラークシャサも救うことはできまい。
3.19.12
उपलभ्य शनैः संज्ञां तं मे शंसितुमर्हसि।
येन त्वं दुर्विनीतेन वने विक्रम्य निर्जिता ॥ ३.१९.१२ ॥
ゆっくり意識を取り戻したなら、森で力ずくでお前を打ち負かした、その無礼者の名を私に告げるがよい。
3.19.13
ततः शूर्पणखा वाक्यं सबाष्पमिदमब्रवीत् ॥ ३.१९.१३ ॥
するとシュールパナカーは涙ながらにこの言葉を語った。
3.19.14
तरुणौ रूपसम्पन्नौ सुकुमारौ महाबलौ।
पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ ॥ ३.१९.१४ ॥
二人は若く美しく、柔らかで大いなる力を持ち、蓮の花びらのように広い目をして、樹皮の衣と黒鹿の皮をまとっている。
3.19.15
फलमूलाशनौ दान्तौ तापसौ ब्रह्मचारिणौ।
पुत्रौ दशरथस्यास्तां भ्रातरौ रामलक्ष्मणौ ॥ ३.१९.१५ ॥
果実と根を食べ、自制し、苦行し、梵行を守る者たち——ダシャラタの二人の息子、兄弟のラーマとラクシュマナである。
3.19.16
गन्धर्वराजप्रतिमौ पार्थिवव्यञ्जनान्वितौ।
देवौ वा दानवावेतौ न तर्कयितुमुत्सहे ॥ ३.१९.१६ ॥
ガンダルヴァの王のようで、王者の印を備えている。この二人が神々なのか魔族なのか、私には判断できない。
3.19.17
तरुणी रूपसम्पन्ना सर्वाभरणभूषिता।
दृष्टा तत्र मया नारी तयोर्मध्ये सुमध्यमा ॥ ३.१९.१७ ॥
そこで私は二人の間に一人の若い女を見た——美しく、あらゆる装身具で飾られ、腰の細い女を。
3.19.18
ताभ्यामुभाभ्यां सम्भूय प्रमदामधिकृत्य ताम्।
इमामवस्थां नीताहं यथानाथासती तथा ॥ ३.१९.१८ ॥
その二人は共に、あの女を口実にして私をこんな状態にした——まるで私が庇護のない不貞の女であるかのように。
3.19.19
तस्याश्चानृजुवृत्तायास्तयोश्च हतयोरहम्।
सफेनं पातुमिच्छामि रुधिरं रणमूर्धनि ॥ ३.१९.१९ ॥
あの曲がった振る舞いの女と、その二人が討たれたなら、戦場の最前線で泡立つ彼らの血を飲みたい。
3.19.20
एष मे प्रथमः कामः कृतस्तत्र त्वया भवेत्।
तस्यास्तयोश्च रुधिरं पिबेयमहमाहवे ॥ ३.१९.२० ॥
これが私の最初の願いです。そこで汝がそれを叶えてくれますように。私が戦いで彼女と二人の血を飲めますように。
3.19.21
व्यादिदेश खरः क्रुद्धो राक्षसानन्तकोपमान् ॥ ३.१९.२१ ॥
怒ったカラは、死神(アンタカ)そのもののような羅刹たちに命じた。
3.19.22
मानुषौ शस्त्रसम्पन्नौ चीरकृष्णाजिनाम्बरौ।
प्रविष्टौ दण्डकारण्यं घोरं प्रमदया सह ॥ ३.१९.२२ ॥
武器を携え、樹皮の衣と黒羚羊の皮をまとった二人の人間が、一人の女と共に恐ろしいダンダカの森に入り込んだ。
3.19.23
तौ हत्वा तां च दुर्वृत्तामुपावर्तितुमर्हथ।
इयं च भगिनी तेषां रुधिरं मम पास्यति ॥ ३.१९.२३ ॥
あの二人を討ち、あの悪行の女も連れ戻すべきだ。そしてこの妹は、私と共に彼らの血を飲むことになる。
3.19.24
मनोरथोऽयमिष्टोऽस्या भगिन्या मम राक्षसाः।
शीघ्रं सम्पाद्यतां गत्वा तौ प्रमथ्य स्वतेजसा ॥ ३.१९.२४ ॥
これは我が妹の願いだ、羅刹たちよ。行け、自らの威力であの二人を打ち砕き、速やかにこれを成就させよ。
3.19.25
युष्माभिर्निहतौ दृष्ट्वा तावुभौ भ्रातरौ रणे।
इयं प्रहृष्टा मुदिता रुधिरं युधि पास्यति ॥ ३.१९.२५ ॥
戦場でその二人の兄弟がお前たちに殺されたのを見て、彼女は大いに喜び勇んで、戦いの中で血を飲むことでしょう。
3.19.26
तत्र जग्मुस्तया सार्धं घना वातेरिता इव ॥ ३.१९.२६ ॥
彼らは彼女とともにそこへ向かった。風に追われる雲のように。