蚁垤《罗摩衍那》 · 篇 3.21
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.21.1
स पुनः पतितां दृष्ट्वा क्रोधाच्छूर्पणखां पुनः।
उवाच व्यक्तया वाचा तामनर्थार्थमागताम् ॥ ३.२१.१ ॥
他看到她再次倒在地上,便因愤怒而用清晰的话语again对前来图谋不轨的首帕那迦说道。
3.21.2
मया त्विदानीं शूरास्ते राक्षसाः पिशिताशनाः।
त्वत्प्रियार्थं विनिर्दिष्टाः किमर्थं रुद्यते पुनः ॥ ३.२१.२ ॥
如今为了让你高兴,我已派遣你那些英勇的食肉罗刹。你为何又哭泣?
3.21.3
भक्ताश्चैवानुरक्ताश्च हिताश्च मम नित्यशः।
हन्यमाना न हन्यन्ते न न कुर्युर्वचो मम ॥ ३.२१.३ ॥
我那些忠诚、亲近、始终有益于我的人,即使被打也不会被杀;他们不会不遵从我的话。
3.21.4
किमेतच्छ्रोतुमिच्छामि कारणं यत्कृते पुनः।
हा नाथेति विनर्दन्ती सर्पवच्चेष्टसे क्षितौ ॥ ३.२१.४ ॥
我想知道你为何像蛇一样在地上翻滚,并喊着“哎呀,我的主人啊!”的缘由。
3.21.5
अनाथवद् विलपसि किं नु नाथे मयि स्थिते।
उत्तिष्ठोत्तिष्ठ मा मैवं वैक्लव्यं त्यज्यतामिति ॥ ३.२१.५ ॥
我在这里,你为何像无人庇护的人那样哀哭?起来,起来!不要这样,放下这份懦弱吧。
3.21.6
इत्येवमुक्ता दुर्धर्षा खरेण परिसान्त्विता।
विमृज्य नयने सास्रे खरं भ्रातरमब्रवीत् ॥ ३.२१.६ ॥
被持明(Khara)如此说话安慰后,那难以抵挡的首帕那迦擦干含泪的眼睛,对她的兄长珂罗说道。
3.21.7
अस्मीदानीमहं प्राप्ता हतश्रवणनासिका।
शोणितौघपरिक्लिन्ना त्वया च परिसान्त्विता ॥ ३.२१.७ ॥
如今我来了,耳鼻被割,浸在血流之中,又得你安慰。
3.21.8
प्रेषिताश्च त्वया शूरा राक्षसास्ते चतुर्दश।
निहन्तुं राघवं घोरं मत्प्रियार्थं सलक्ष्मणम् ॥ ३.२१.८ ॥
你为了我的快乐而派去的那十四名勇猛罗刹,要与罗什曼那一同杀死凶猛的罗怙之子。
3.21.9
ते तु रामेण सामर्षाः शूलपट्टिशपाणयः।
समरे निहताः सर्वे सायकैर्मर्मभेदिभिः ॥ ३.२१.९ ॥
他们个个怒火中烧,手持长矛和铁棒,在战场上被罗摩以穿透要害的箭矢射杀。
3.21.10
तान् भूमौ पतितान् दृष्ट्वा क्षणेनैव महाजवान्।
रामस्य च महत्कर्म महांस्त्रासोऽभवन्मम ॥ ३.२१.१० ॥
看到那些迅捷勇猛的战士在一瞬间倒在地上,又见罗摩的伟大功绩,我心中生出巨大的恐惧。
3.21.11
सास्मि भीता समुद्विग्ना विषण्णा च निशाचर।
शरणं त्वां पुनः प्राप्ता सर्वतो भयदर्शिनी ॥ ३.२१.११ ॥
夜行者啊,我惊恐、万分不安、神情沮丧;见到四面皆是危险,我又来投奔你的庇护。
3.21.12
विषादनक्राध्युषिते परित्रासोर्मिमालिनि।
किं मां न त्रायसे मग्नां विपुले शोकसागरे ॥ ३.२१.१२ ॥
我沉没在这广阔的悲伤之海中,海中满是绝望的鳄鱼,波涛如恐惧的花环,你为何不救我?
3.21.13
एते च निहता भूमौ रामेण निशितैः शरैः।
ये च मे पदवीं प्राप्ता राक्षसाः पिशिताशनाः ॥ ३.२१.१३ ॥
那些被罗摩锐利之箭射倒在地的,以及那些来到我路上的食肉罗刹。
3.21.14
मयि ते यद्यनुक्रोशो यदि रक्षःसु तेषु च।
रामेण यदि शक्तिस्ते तेजो वास्ति निशाचर ॥ ३.२१.१४ ॥
夜行者啊,如果你对我或那些罗刹有一丝怜悯,如果你有与罗摩相抗的力量或勇气。
3.21.15
दण्डकारण्यनिलयं जहि राक्षसकण्टकम्।
यदि रामममित्रघ्नं न त्वमद्य वधिष्यसि ॥ ३.२१.१५ ॥
若你今日不杀那居于檀特迦森林、乃罗刹之刺、摧毁敌人的罗摩,
3.21.16
तव चैवाग्रतः प्राणांस्त्यक्ष्यामि निरपत्रपा।
बुद्ध्याहमनुपश्यामि न त्वं रामस्य संयुगे ॥ ३.२१.१६ ॥
我将在你面前舍弃生命,我以理智看出,你在战场上无法与罗摩对抗。
3.21.17
स्थातुं प्रतिमुखे शक्तः सबलोऽपि महारणे।
शूरमानी न शूरस्त्वं मिथ्यारोपितविक्रमः ॥ ३.२१.१७ ॥
即便率领军队,你也无法在大战中与敌人正面抗衡;你自诩为勇士,却并非真正的勇士,你的威名是虚假附会的。
3.21.18
अपयाहि जनस्थानात् त्वरितः सहबान्धवः।
जहि त्वं समरे मूढान्यथा तु कुलपांसन ॥ ३.२१.१८ ॥
玷污家族之人啊,快与你的亲族离开人间驿站(Janasthāna);否则就在战场上杀死那些愚蠢之徒。
3.21.19
मानुषौ तौ न शक्नोषि हन्तुं वै रामलक्ष्मणौ।
निःसत्त्वस्याल्पवीर्यस्य वासस्ते कीदृशस्त्विह ॥ ३.२१.१९ ॥
你无法杀死那两个凡人,罗摩与罗什曼那。对于一个毫无勇气、力量微弱的人来说,你在这里的居所会是怎样的呢?
3.21.20
रामतेजोऽभिभूतो हि त्वं क्षिप्रं विनशिष्यसि।
स हि तेजःसमायुक्तो रामो दशरथात्मजः ॥ ३.२१.२० ॥
你将被罗摩的光辉所压倒,很快就会毁灭。那位十车王之子罗摩,充满了无上的威光。
3.21.21
भ्राता चास्य महावीर्यो येन चास्मि विरूपिता।
एवं विलप्य बहुशो राक्षसी प्रदरोदरी ॥ ३.२१.२१ ॥
他的兄弟极其勇猛,正是他毁了我的容貌。这样反复哀号的那位腹部被撕裂的罗刹女。
3.21.22
भ्रातुः समीपे शोकार्ता नष्टसंज्ञा बभूव ह।
कराभ्यामुदरं हत्वा रुरोद भृशदुःखिता ॥ ३.२१.२२ ॥
她在兄长身旁因悲痛而陷入昏迷一般。她双手捶打自己的腹部,极度痛苦地哭泣起来。