Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 3.22

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.22.1

एवमाधर्षितः शूरः शूर्पणख्या खरस्ततः।
उवाच रक्षसां मध्ये खरः खरतरं वचः ॥ ३.२२.१ ॥

被首波那迦如此羞辱之后,勇武的呵罗在罗刹众中说出了更加严厉的话语。

3.22.2

तवापमानप्रभवः क्रोधोऽयमतुलो मम।
न शक्यते धारयितुं लवणाम्भ इवोल्बणम् ॥ ३.२२.२ ॥

我因你受辱而生的这股无可比拟的愤怒,无法抑制,犹如咸海中翻涌的波涛。

3.22.3

न रामं गणये वीर्यान्मानुषं क्षीणजीवितम्।
आत्मदुश्चरितैः प्राणान् हतो योऽद्य विमोक्ष्यते ॥ ३.२२.३ ॥

我不因他的勇力而看重罗摩;他是寿数将尽的凡人,今日必因自己的恶行被击倒而舍弃性命。

3.22.4

बाष्पः संधार्यतामेष सम्भ्रमश्च विमुच्यताम्।
अहं रामं सह भ्रात्रा नयामि यमसादनम् ॥ ३.२२.४ ॥

止住这泪水,抛开这慌乱。我要把罗摩连同他的兄弟一起送往阎摩的居所。

3.22.5

परश्वधहतस्याद्य मन्दप्राणस्य भूतले।
रामस्य रुधिरं रक्तमुष्णं पास्यसि राक्षसि ॥ ३.२२.५ ॥

罗刹女啊!今日你将饮下罗摩温热的鲜血——他被斧头击倒,躺在地上,气息微弱。

3.22.6

सम्प्रहृष्टा वचः श्रुत्वा खरस्य वदनाच्च्युतम्।
प्रशशंस पुनर्मौर्ख्याद् भ्रातरं रक्षसां वरम् ॥ ३.२२.६ ॥

听到从呵罗口中说出的话,罗刹女大为欢喜,出于愚昧,又赞扬了她那位罗刹中最优秀的兄长。

3.22.7

तया परुषितः पूर्वं पुनरेव प्रशंसितः।
अब्रवीद् दूषणं नाम खरः सेनापतिं तदा ॥ ३.२२.७ ॥

卡拉先前被她的粗言激怒,随后又受到赞誉,那时他对统帅杜沙那说道。

3.22.8

चतुर्दश सहस्राणि मम चित्तानुवर्तिनाम्।
रक्षसां भीमवेगानां समरेष्वनिवर्तिनाम् ॥ ३.२२.८ ॥

一万四千名罗刹,他们遵从我的意志,速度可怕,在战场上从不退缩。

3.22.9

नीलजीमूतवर्णानां लोकहिंसाविहारिणाम्।
सर्वोद्योगमुदीर्णानां रक्षसां सौम्य कारय ॥ ३.२२.९ ॥

好友,请准备好那些颜色如蓝色雷云、以伤害世界为乐、已为一切行动振奋起来的罗刹。

3.22.10

उपस्थापय मे क्षिप्रं रथं सौम्य धनूंषि च।
शरांश्च चित्रान् खड्गांश्च शक्तीश्च विविधाः शिताः ॥ ३.२२.१० ॥

好友,快把我的战车牵来,还有弓、各式华美的箭、剑,以及各种锋利的长矛。

3.22.11

अग्रे निर्यातुमिच्छामि पौलस्त्यानां महात्मनाम्।
वधार्थं दुर्विनीतस्य रामस्य रणकोविद ॥ ३.२२.११ ॥

精通战事的人啊,我想走在伟大的波罗斯底之前,去杀死傲慢的罗摩。

3.22.12

सदश्वैः शबलैर्युक्तमाचचक्षेऽथ दूषणः ॥ ३.२२.१२ ॥

于是杜沙那宣布了驾着良好斑驳骏马的战车。

3.22.13

तं मेरुशिखराकारं तप्तकाञ्चनभूषणम्।
हेमचक्रमसम्बाधं वैदूर्यमयकूबरम् ॥ ३.२२.१३ ॥

在那辆形如须弥山峰、以熔金装饰、金轮、宽敞、以琉璃制成车辕的战车上,

3.22.14

मत्स्यैः पुष्पैर्द्रुमैः शैलैश्चन्द्रसूर्यैश्च काञ्चनैः।
माङ्गल्यैः पक्षिसङ्घैश्च ताराभिश्च समावृतम् ॥ ३.२२.१४ ॥

装饰着鱼、花、树、山、金色的日月、吉祥徽记、鸟群和星辰,

3.22.15

ध्वजनिस्त्रिंशसम्पन्नं किंकिणीवरभूषितम्।
सदश्वयुक्तं सोऽमर्षादारुरोह खरस्तदा ॥ ३.२२.१५ ॥

那辆装饰着旗帜与利剑、饰有精美铃铛、驾着良马的战车,此时卡拉怒气冲冲地登上了。

3.22.16

खरस्तु तन्महत्सैन्यं रथचर्मायुधध्वजम्।
निर्यातेत्यब्रवीत् प्रेक्ष्य दूषणः सर्वराक्षसान् ॥ ३.२२.१६ ॥

卡拉望见那支由战车、盾牌、兵器和旗帜组成的大军,说道:“出发!”杜沙那也环视了所有罗刹,

3.22.17

ततस्तद् राक्षसं सैन्यं घोरचर्मायुधध्वजम्।
निर्जगाम जनस्थानान्महानादं महाजवम् ॥ ३.२२.१७ ॥

于是,那支罗刹大军手持可怖的盾牌、兵器与旗帜,伴着巨大的吼声、以极快的速度从解散之地(Janasthāna)冲出。

3.22.18

मुद्गरैः पट्टिशैः शूलैः सुतीक्ष्णैश्च परश्वधैः।
खड्गैश्चक्रैश्च हस्तस्थैर्भ्राजमानैः सतोमरैः ॥ ३.२२.१८ ॥

手持闪耀的棍棒、铁杵、长矛、锋利无比的斧钺、刀剑与飞轮,并有标枪相伴。

3.22.19

शक्तिभिः परिघैर्घोरैरतिमात्रैश्च कार्मुकैः।
गदासिमुसलैर्वज्रैर्गृहीतैर्भीमदर्शनैः ॥ ३.२२.१९ ॥

手持长矛、铁棒、可怕而巨大的弓、狼牙棒、刀剑、杵棍与金刚杵,形貌可怖。

3.22.20

राक्षसानां सुघोराणां सहस्राणि चतुर्दश।
निर्यातानि जनस्थानात् खरचित्तानुवर्तिनाम् ॥ ३.२२.२० ॥

追随卡罗心意的十四千极为可怖的罗刹,从人丛居出发。

3.22.21

तांस्तु निर्धावतो दृष्ट्वा राक्षसान् भीमदर्शनान्।
खरस्याथ रथः किंचिज्जगाम तदनन्तरम् ॥ ३.२२.२१ ॥

看见那些可怖的罗刹冲奔而出,卡罗的战车随即稍稍向前驶去。

3.22.22

ततस्ताञ्छबलानश्वांस्तप्तकाञ्चनभूषितान्।
खरस्य मतमाज्ञाय सारथिः पर्यचोदयत् ॥ ३.२२.२२ ॥

于是御者领会了卡罗的意图,策动那些饰以炽热黄金的斑驳骏马。

3.22.23

संचोदितो रथः शीघ्रं खरस्य रिपुघातिनः।
शब्देनापूरयामास दिशः सप्रदिशस्तथा ॥ ३.२२.२३ ॥

卡罗的战车被迅速驱动,这位灭敌者的车声震响了四方与四隅。

3.22.24

प्रवृद्धमन्युस्तु खरः खरस्वरो
रिपोर्वधार्थं त्वरितो यथान्तकः।
अचूचुदत् सारथिमुन्नदन् पुन-
र्महाबलो मेघ इवाश्मवर्षवान् ॥ ३.२२.२४ ॥

卡罗怒火猛增,声音粗厉,如同死神般急欲杀敌,咆哮着又催促御者前行——他如同降下石雨的大力乌云。