蚁垤《罗摩衍那》 · 篇 3.23
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.23.1
तत्प्रयातं बलं घोरमशिवं शोणितोदकम्।
अभ्यवर्षन्महाघोरस्तुमुलो गर्दभारुणः ॥ ३.२३.१ ॥
倾盆的血雨落在那支出征的可怖而不祥的军队上;颜色如驴般赤红,极其可怖,喧嚣震天。
3.23.2
निपेतुस्तुरगास्तस्य रथयुक्ता महाजवाः।
समे पुष्पचिते देशे राजमार्गे यदृच्छया ॥ ३.२३.२ ॥
他那些套在战车上、极其迅捷的骏马,在铺满鲜花、平坦的御道上偶然跌倒。
3.23.3
श्यामं रुधिरपर्यन्तं बभूव परिवेषणम्।
अलातचक्रप्रतिमं प्रतिगृह्य दिवाकरम् ॥ ३.२३.३ ॥
一圈边缘带血的黑色光晕出现了,宛如燃烧火把的轮子,将太阳紧紧围住。
3.23.4
ततो ध्वजमुपागम्य हेमदण्डं समुच्छ्रितम्।
समाक्रम्य महाकायस्तस्थौ गृध्रः सुदारुणः ॥ ३.२३.४ ॥
接着,一只身躯巨大、极其凶猛的秃鹫飞到高举的金杆旗帜旁,落在上面,昂然立定。
3.23.5
जनस्थानसमीपे च समाक्रम्य खरस्वनाः।
विस्वरान् विविधान् नादान् मांसादा मृगपक्षिणः ॥ ३.२३.५ ॥
靠近人居之地(Jana-sthāna)时,食肉的走兽与飞禽以粗哑的嗓音,发出种种刺耳的怪叫。
3.23.6
व्याजह्रुरभिदीप्तायां दिशि वै भैरवस्वनम्।
अशिवं यातुधानानां शिवा घोरा महास्वनाः ॥ ३.२३.६ ॥
在火光灼灼的方位,它们发出可怖的嘶鸣;豺狼的凄厉长嚎,对罗刹而言是不祥之兆。
3.23.7
प्रभिन्नगजसंकाशास्तोयशोणितधारिणः।
आकाशं तदनाकाशं चक्रुर्भीमाम्बुवाहकाः ॥ ३.२३.७ ॥
如发情的象群,携带水与血的可怖云团使天空不再是天空。
3.23.8
बभूव तिमिरं घोरमुद्धतं रोमहर्षणम्।
दिशो वा प्रदिशो वापि सुव्यक्तं न चकाशिरे ॥ ३.२३.८ ॥
一片可怖、狂暴、令人毛骨悚然的黑暗降临;四方与四隅都无法清晰可辨。
3.23.9
क्षतजार्द्रसवर्णाभा संध्या कालं विना बभौ।
खरं चाभिमुखं नेदुस्तदा घोरा मृगाः खगाः ॥ ३.२३.९ ॥
一抹浸透鲜血的暮色不合时宜地出现;那时,可怖的兽与鸟面向前方粗厉地嘶鸣。
3.23.10
कङ्कगोमायुगृध्राश्च चुक्रुशुर्भयशंसिनः।
नित्याशिवकरा युद्धे शिवा घोरनिदर्शनाः ॥ ३.२३.१० ॥
鹤、豺狼与秃鹫发出预示恐惧的叫声;那在战场上总带来不祥、显示可怖征兆的母豺,也嚎叫起来。
3.23.11
नेदुर्बलस्याभिमुखं ज्वालोद्गारिभिराननैः।
कबन्धः परिघाभासो दृश्यते भास्करान्तिके ॥ ३.२३.११ ॥
它们以喷吐火焰的口对着军队咆哮;太阳附近出现了一具无头的躯干,形如铁杵。
3.23.12
जग्राह सूर्यं स्वर्भानुरपर्वणि महाग्रहः।
प्रवाति मारुतः शीघ्रं निष्प्रभोऽभूद् दिवाकरः ॥ ३.२३.१२ ॥
并非日食之时,大行星斯瓦尔跋奴攫住了太阳;风疾速吹起,日神失去了光辉。
3.23.13
उत्पेतुश्च विना रात्रिं ताराः खद्योतसप्रभाः।
संलीनमीनविहगा नलिन्यः शुष्कपङ्कजाः ॥ ३.२३.१३ ॥
没有夜晚,像萤火虫一样闪亮的星星升起了;干枯莲花的池塘里,鱼和鸟都躲藏起来。
3.23.14
तस्मिन् क्षणे बभूवुश्च विना पुष्पफलैर्द्रुमाः।
उद्धूतश्च विना वातं रेणुर्जलधरारुणः ॥ ३.२३.१४ ॥
就在那一刻,树木失去了花与果;没有风,却升起了像云一样发红的尘土。
3.23.15
चीचीकूचीति वाश्यन्त्यो बभूवुस्तत्र सारिकाः।
उल्काश्चापि सनिर्घोषा निपेतुर्घोरदर्शनाः ॥ ३.२३.१५ ॥
那里的鹩哥开始叫着“吱吱—咕吱”,形貌可怖的流星伴着轰鸣坠落。
3.23.16
प्रचचाल मही चापि सशैलवनकानना।
खरस्य च रथस्थस्य नर्दमानस्य धीमतः ॥ ३.२३.१६ ॥
大地连同山岳、树林与森林都在颤动,因为智慧的罗刹恭罗站在战车上吼叫。
3.23.17
प्राकम्पत भुजः सव्यः स्वरश्चास्यावसज्जत।
सास्रा सम्पद्यते दृष्टिः पश्यमानस्य सर्वतः ॥ ३.२३.१७ ॥
他的左臂剧烈颤抖,声音哽咽,当他向四周望去时,双眼充满了泪水。
3.23.18
ललाटे च रुजो जाता न च मोहान्न्यवर्तत।
तान् समीक्ष्य महोत्पातानुत्थितान् रोमहर्षणान् ॥ ३.२३.१८ ॥
他的额头生出疼痛,但因迷妄他仍没有回头,即使看见这些令人毛骨悚然的大凶兆已经出现。
3.23.19
अब्रवीद् राक्षसान् सर्वान् प्रहसन् स खरस्तदा।
महोत्पातानिमान् सर्वानुत्थितान् घोरदर्शनान् ॥ ३.२३.१९ ॥
于是罗刹首领科罗笑着对所有罗刹说:“这些可怖的大凶兆全都出现了。”
3.23.20
न चिन्तयाम्यहं वीर्याद् बलवान् दुर्बलानिव।
तारा अपि शरैस्तीक्ष्णैः पातयेयं नभस्तलात् ॥ ३.२३.२० ॥
“凭借我的勇力,我不把他们放在心上,正如强者不把弱者放在眼里;我能用利箭把天上的星辰也射落下来。”
3.23.21
मृत्युं मरणधर्मेण संक्रुद्धो योजयाम्यहम्।
राघवं तं बलोत्सिक्तं भ्रातरं चापि लक्ष्मणम् ॥ ३.२३.२१ ॥
“我愤怒地要依照生灭之法,让那倚仗力量而骄傲的罗ghava(罗摩)以及他的兄弟罗什曼那,与死亡相遇。”
3.23.22
अहत्वा सायकैस्तीक्ष्णैर्नोपावर्तितुमुत्सहे।
यन्निमित्तं तु रामस्य लक्ष्मणस्य विपर्ययः ॥ ३.२३.२२ ॥
“在没有用利箭杀死那些使罗摩与罗什曼那遭此败局的人之前,我不愿回去。”
3.23.23
सकामा भगिनीमेऽस्तु पीत्वा तु रुधिरं तयोः।
न क्वचित् प्राप्तपूर्वो मे संयुगेषु पराजयः ॥ ३.२३.२३ ॥
“愿我妹妹的心愿得以实现,我饮下他们的鲜血。在战场上,我从未遭遇过败绩。”
3.23.24
युष्माकमेतत् प्रत्यक्षं नानृतं कथयाम्यहम्।
देवराजमपि क्रुद्धो मत्तैरावतगामिनम् ॥ ३.२३.२४ ॥
“这在你们面前是明摆着的,我不说谎。即使是骑着狂暴的爱罗婆多的天王,我愤怒之时也敢与之对抗。”
3.23.25
वज्रहस्तं रणे हन्यां किं पुनस्तौ च मानवौ।
सा तस्य गर्जितं श्रुत्वा राक्षसानां महाचमूः ॥ ३.२३.२५ ॥
“即便手持金刚杵的因陀罗,我也能在战场上杀死;何况那两个凡人!”罗刹的大军听到他的吼声
3.23.26
प्रहर्षमतुलं लेभे मृत्युपाशावपाशिता।
समेयुश्च महात्मानो युद्धदर्शनकांक्षिणः ॥ ३.२३.२६ ॥
被死亡之索缠住的她感到无比的喜悦;而渴望目睹战斗的大德们聚集在一起。
3.23.27
ऋषयो देवगन्धर्वाः सिद्धाश्च सह चारणैः।
समेत्य चोचुः सहितास्तेऽन्योन्यं पुण्यकर्मणः ॥ ३.२३.२७ ॥
仙人、天神、乾闼婆与悉陀,连同游方者,相聚一处,彼此说道——那些行善积德之人。
3.23.28
स्वस्ति गोब्राह्मणेभ्यस्तु लोकानां ये च सम्मताः।
जयतां राघवो युद्धे पौलस्त्यान् रजनीचरान् ॥ ३.२३.२८ ॥
“愿牛与婆罗门平安,愿世间受人尊敬者平安!愿罗怙之子在战场上战胜补罗私多之后的夜行罗刹!”
3.23.29
चक्रहस्तो यथा विष्णुः सर्वानसुरसत्तमान्।
एतच्चान्यच्च बहुशो ब्रुवाणाः परमर्षयः ॥ ३.२३.२९ ॥
“正如手持轮盘的毗湿奴战胜了所有最强的阿修罗”——这些大仙一再说着此话及其他许多话语。
3.23.30
जातकौतूहलास्तत्र विमानस्थाश्च देवताः।
ददृशुर्वाहिनीं तेषां राक्षसानां गतायुषाम् ॥ ३.२३.३० ॥
诸天神站在天界车上,满怀好奇,在那里看见了那些寿数已尽的罗刹大军。
3.23.31
रथेन तु खरो वेगात् सैन्यस्याग्राद् विनिःसृतः।
श्येनगामी पृथुग्रीवो यज्ञशत्रुर्विहंगमः ॥ ३.२३.३१ ॥
可罗那乘车疾驰,从军队前列冲出。他步伐如鹰,颈项宽阔,是祭祀的敌人,像鸟一样飞扑而来。
3.23.32
दुर्जयः करवीराक्षः परुषः कालकार्मुकः।
हेममाली महामाली सर्पास्यो रुधिराशनः ॥ ३.२३.३२ ॥
不可战胜的迦罗毗罗刹、手持死神之弓的严酷迦罗迦尔摩迦、金鬘、大鬘、蛇面以及食血者鲁提罗阿舍那。
3.23.33
द्वादशैते महावीर्याः प्रतस्थुरभितः खरम्।
महाकपालः स्थूलाक्षः प्रमाथस्त्रिशिरास्तथा।
चत्वार एते सेनाग्रे दूषणं पृष्ठतोऽन्वयुः ॥ ३.२३.३३ ॥
这十二位大勇士环绕可罗那出发:还有大骷髅、粗眼、普拉玛塔与三头罗刹。这四人走在军队前列,而如意则从后方跟随。
3.23.34
सा भीमवेगा समराभिकांक्षिणी
सुदारुणा राक्षसवीरसेना।
तौ राजपुत्रौ सहसाभ्युपेता
माला ग्रहाणामिव चन्द्रसूर्यौ ॥ ३.२३.३४ ॥
那支迅猛可怖、渴望战斗的罗刹英雄大军,突然扑向两位王子,恰如群星之环逼近月与日。