Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 3.24

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.24.1

आश्रमं प्रतियाते तु खरे खरपराक्रमे।
तानेवौत्पातिकान् रामः सह भ्रात्रा ददर्श ह ॥ ३.२४.१ ॥

当勇猛的伽罗返回修行处之后,罗摩与其兄弟一同看见了那些凶兆。

3.24.2

तानुत्पातान् महाघोरान् रामो दृष्ट्वात्यमर्षणः।
प्रजानामहितान् दृष्ट्वा वाक्यं लक्ष्मणमब्रवीत् ॥ ३.२४.२ ॥

罗摩看见那些极为可怕的凶兆,知道它们对众生有害,极为愤慨,便对罗什曼那说了这些话。

3.24.3

इमान् पश्य महाबाहो सर्वभूतापहारिणः।
समुत्थितान् महोत्पातान् संहर्तुं सर्वराक्षसान् ॥ ३.२४.३ ॥

看那些大凶兆啊,大臂者!它们是毁灭一切众生的,已经出现,要灭绝所有罗刹。

3.24.4

अमी रुधिरधारास्तु विसृजन्ते खरस्वनाः।
व्योम्नि मेघा निवर्तन्ते परुषा गर्दभारुणाः ॥ ३.२४.४ ॥

看这些血流在发出刺耳的声音倾泻;天空中,像驴一样发红的粗暴乌云正在退回。

3.24.5

सधूमाश्च शराः सर्वे मम युद्धाभिनन्दिताः।
रुक्मपृष्ठानि चापानि विचेष्टन्ते विचक्षण ॥ ३.२४.५ ॥

聪明的人啊,我的箭都冒着烟,因战斗而欢欣;金背的弓在颤动。

3.24.6

यादृशा इह कूजन्ति पक्षिणो वनचारिणः।
अग्रतो नोऽभयं प्राप्तं संशयो जीवितस्य च ॥ ३.२४.६ ॥

此处林中飞鸟如此鸣叫,可知前方虽似得安稳,我们的性命却有了疑虑。

3.24.7

सम्प्रहारस्तु सुमहान् भविष्यति न संशयः।
अयमाख्याति मे बाहुः स्फुरमाणो मुहुर्मुहुः ॥ ३.२४.७ ॥

必有一场大战,毫无疑问。我的这只手臂一再跳动,向我昭示此事。

3.24.8

संनिकर्षे तु नः शूर जयं शत्रोः पराजयम्।
सुप्रभं च प्रसन्नं च तव वक्त्रं हि लक्ष्यते ॥ ३.२४.८ ॥

英雄啊,近在眼前的战斗中,我方必胜,敌人必败,因为你的面容显得十分光明而平和。

3.24.9

उद्यतानां हि युद्धार्थं येषां भवति लक्ष्मण।
निष्प्रभं वदनं तेषां भवत्यायुः परिक्षयः ॥ ३.२४.९ ॥

啊,罗什曼那,那些准备作战的人,若面容失去光彩,其寿命便会衰减。

3.24.10

रक्षसां नर्दतां घोरः श्रूयतेऽयं महाध्वनिः।
आहतानां च भेरीणां राक्षसैः क्रूरकर्मभिः ॥ ३.२४.१० ॥

可闻那些行事残暴的罗刹怒吼的骇人巨响,以及被罗刹击打的战鼓之声。

3.24.11

अनागतविधानं तु कर्तव्यं शुभमिच्छता।
आपदं शङ्कमानेन पुरुषेण विपश्चिता ॥ ३.२४.११ ॥

有智慧的人,希望得善、畏惧灾祸,应当对未来之事预先作好安排。

3.24.12

तस्माद् गृहीत्वा वैदेहीं शरपाणिर्धनुर्धरः।
गुहामाश्रय शैलस्य दुर्गां पादपसंकुलाम् ॥ ३.२४.१२ ॥

因此,你带着毗提诃,手持箭与弓,躲进山中那被树木遮蔽、难以到达的洞穴里避难吧。

3.24.13

प्रतिकूलितुमिच्छामि न हि वाक्यमिदं त्वया।
शापितो मम पादाभ्यां गम्यतां वत्स मा चिरम् ॥ ३.२४.१३ ॥

我不愿违逆你这番话。我以我的双足起誓,孩子,快去,不要迟延。

3.24.14

त्वं हि शूरश्च बलवान् हन्या एतान् न संशयः।
स्वयं निहन्तुमिच्छामि सर्वानेव निशाचरान् ॥ ३.२४.१४ ॥

你勇敢而强大,毫无疑问你能杀死他们。但我想亲自杀死这些夜行者。

3.24.15

एवमुक्तस्तु रामेण लक्ष्मणः सह सीतया।
शरानादाय चापं च गुहां दुर्गां समाश्रयत् ॥ ३.२४.१५ ॥

罗摩如此吩咐后,罗什曼那取了箭与弓,与悉多一同进入那难以到达的洞穴。

3.24.16

तस्मिन् प्रविष्टे तु गुहां लक्ष्मणे सह सीतया।
हन्त निर्युक्तमित्युक्त्वा रामः कवचमाविशत् ॥ ३.२४.१६ ॥

罗什曼那与悉多进入那洞穴后,罗摩说道:“好,准备好了。”便披上了铠甲。

3.24.17

स तेनाग्निनिकाशेन कवचेन विभूषितः।
बभूव रामस्तिमिरे महानग्निरिवोत्थितः ॥ ३.२४.१७ ॥

罗摩披着那如火般耀眼的铠甲,在黑暗中仿佛一团腾起的大火。

3.24.18

स चापमुद्यम्य महच्छरानादाय वीर्यवान्।
सम्बभूवास्थितस्तत्र ज्यास्वनैः पूरयन् दिशः ॥ ३.२४.१८ ॥

那位威猛的罗摩举起大弓,取了许多箭,站立在那里,以弓弦的响声充满四方。

3.24.19

ततो देवाः सगन्धर्वाः सिद्धाश्च सह चारणैः।
समेयुश्च महात्मानो युद्धदर्शनकांक्षया ॥ ३.२४.१९ ॥

于是诸天神与乾闼婆、悉陀及遮罗那共同聚集;诸大德因想观看战斗而相会。

3.24.20

ऋषयश्च महात्मानो लोके ब्रह्मर्षिसत्तमाः।
समेत्य चोचुः सहितास्तेऽन्योन्यं पुण्यकर्मणः ॥ ३.२४.२० ॥

世间的大德仙人、最优秀的梵仙相会,这些行善积德之人彼此交谈。

3.24.21

स्वस्ति गोब्राह्मणानां च लोकानां चेति संस्थिताः।
जयतां राघवो युद्धे पौलस्त्यान् रजनीचरान् ॥ ३.२४.२१ ॥

他们说:“愿牛、婆罗门与世界安宁”,然后站立一旁,祝愿罗怙之子在战斗中战胜补罗斯提耶夜行罗刹。

3.24.22

चक्रहस्तो यथा युद्धे सर्वानसुरपुंगवान्।
एवमुक्त्वा पुनः प्रोचुरालोक्य च परस्परम् ॥ ३.२४.२२ ॥

他们说:正如持轮者在战斗中胜过诸位优秀的阿修罗,愿此人也如此获胜;说罢,他们互相望了望,又开口说话。

3.24.23

चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम्।
एकश्च रामो धर्मात्मा कथं युद्धं भविष्यति ॥ ३.२४.२३ ॥

有十四千名行恶可怖的罗刹,而正直的罗摩只有一人——这场战斗将如何进行?

3.24.24

जातकौतूहलास्तस्थुर्विमानस्थाश्च देवताः ॥ ३.२४.२४ ॥

诸天神满怀好奇,站在他们的飞车之中。

3.24.25

आविष्टं तेजसा रामं संग्रामशिरसि स्थितम्।
दृष्ट्वा सर्वाणि भूतानि भयाद् विव्यथिरे तदा ॥ ३.२४.२५ ॥

众生见罗摩立于战阵之首,光明充溢,于是皆因恐惧而战栗。

3.24.26

रूपमप्रतिमं तस्य रामस्याक्लिष्टकर्मणः।
बभूव रूपं क्रुद्धस्य रुद्रस्येव महात्मनः ॥ ३.२४.२६ ॥

行事不费力的罗摩,其形貌变得无与伦比,宛如愤怒的大德楼陀罗之相。

3.24.27

ततो गम्भीरनिर्ह्रादं घोरचर्मायुधध्वजम् ॥ ३.२४.२७ ॥

于是,那支伴着深沉吼声、手持可怖盾牌、兵器与旗帜的大军。

3.24.28

अनीकं यातुधानानां समन्तात् प्रत्यपद्यत।
वीरालापान् विसृजतामन्योन्यमभिगच्छताम् ॥ ३.२४.२८ ॥

罗刹之军从四面而来,发出豪壮的叫阵之声,彼此相向迎上。

3.24.29

चापानि विस्फारयतां जृम्भतां चाप्यभीक्ष्णशः।
विप्रघुष्टस्वनानां च दुन्दुभींश्चापि निघ्नताम् ॥ ३.२४.२९ ॥

拉满弓弦,屡屡张口吐气,高声呼喊,又击打战鼓。

3.24.30

तेषां सुतुमुलः शब्दः पूरयामास तद् वनम्।
तेन शब्देन वित्रस्ताः श्वापदा वनचारिणः ॥ ३.२४.३० ॥

他们那震天的喧嚣充满了整座森林,林中游荡的猛兽被这声音吓得惊慌失措。

3.24.31

दुद्रुवुर्यत्र निःशब्दं पृष्ठतो नावलोकयन्।
तच्चानीकं महावेगं रामं समनुवर्तत ॥ ३.२४.३१ ॥

他们悄然逃走,不回头张望;那支大军迅猛疾进,朝着罗摩逼近。

3.24.32

धृतनानाप्रहरणं गम्भीरं सागरोपमम्।
रामोऽपि चारयंश्चक्षुः सर्वतो रणपण्डितः ॥ ३.२४.३२ ॥

那支大军手持各种兵器,深广如大海;而精通战阵的罗摩也环顾四方。

3.24.33

ददर्श खरसैन्यं तद् युद्धायाभिमुखो गतः।
वितत्य च धनुर्भीमं तूण्याश्चोद्धृत्य सायकान् ॥ ३.२४.३३ ॥

他迎着战斗前行,看见了罗刹王迦罗的军队;他拉开可怕的弓,从箭囊中抽出箭矢。

3.24.34

क्रोधमाहारयत् तीव्रं वधार्थं सर्वरक्षसाम्।
दुष्प्रेक्ष्यश्चाभवत् क्रुद्धो युगान्ताग्निरिव ज्वलन् ॥ ३.२४.३४ ॥

为了歼灭所有罗刹,他激起了猛烈的愤怒;怒火中燃烧,如同劫末之火,令人不敢直视。

3.24.35

तं दृष्ट्वा तेजसाऽऽविष्टं प्राव्यथन् वनदेवताः।
तस्य रुष्टस्य रूपं तु रामस्य ददृशे तदा।
दक्षस्येव क्रतुं हन्तुमुद्यतस्य पिनाकिनः ॥ ३.२४.३५ ॥

看到他光辉充满,林中神祇皆感恐惧;那时愤怒的罗摩之形,犹如手持毗那迦弓的湿婆,将要毁灭达刹的祭祀。

3.24.36

तत्कार्मुकैराभरणै रथैश्च
तद्वर्मभिश्चाग्निसमानवर्णैः।
बभूव सैन्यं पिशिताशनानां
सूर्योदये नीलमिवाभ्रजालम् ॥ ३.२४.३६ ॥

那群食肉罗刹的军队,以弓、饰物、战车和火色铠甲,在日出时宛如一团深蓝色的云雾。