Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 3.25

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.25.1

अवष्टब्धधनुं रामं क्रुद्धं तं रिपुघातिनम्।
ददर्शाश्रममागम्य खरः सह पुरःसरैः ॥ ३.२५.१ ॥

羯罗(Khara)与前锋将士来到苦行林,看见手握弓、怒气冲冲、摧毁敌人的罗摩。

3.25.2

तं दृष्ट्वा सगुणं चापमुद्यम्य खरनिःस्वनम्।
रामस्याभिमुखं सूतं चोद्यतामित्यचोदयत् ॥ ३.२५.२ ॥

罗摩映入眼帘,他举起上弦的弓,发出羯罗的怒吼,命令御者:“驱车直面罗摩!”

3.25.3

स खरस्याज्ञया सूतस्तुरगान् समचोदयत्।
यत्र रामो महाबाहुरेको धुन्वन् धनुः स्थितः ॥ ३.२५.३ ॥

羯罗的命令下,御者驱马全速前进,直奔那位臂膀有力的罗摩所在之处——罗摩独自站立,抖动着他的弓。

3.25.4

तं तु निष्पतितं दृष्ट्वा सर्वतो रजनीचराः।
मुञ्चमाना महानादं सचिवाः पर्यवारयन् ॥ ३.२५.४ ॥

看见他冲上前来,夜行的罗刹们从四面八方发出巨大的吼声,他的随从们将他团团围住。

3.25.5

स तेषां यातुधानानां मध्ये रथगतः खरः।
बभूव मध्ये ताराणां लोहिताङ्ग इवोदितः ॥ ३.२५.५ ॥

羯罗坐在战车上,置身于那些夜叉之中,宛如红色的火星升起于群星之间。

3.25.6

ततः शरसहस्रेण राममप्रतिमौजसम्।
अर्दयित्वा महानादं ननाद समरे खरः ॥ ३.२५.६ ॥

于是羯罗以千支箭射伤无与伦比的罗摩,在战场上发出巨大的吼声。

3.25.7

ततस्तं भीमधन्वानं क्रुद्धाः सर्वे निशाचराः।
रामं नानाविधैः शस्त्रैरभ्यवर्षन्त दुर्जयम् ॥ ३.२५.७ ॥

于是所有愤怒的夜行者向罗摩——那可怖的持弓者、不可战胜的英雄——倾泻了各种各样的兵器。

3.25.8

मुद्गरैरायसैः शूलैः प्रासैः खड्गैः परश्वधैः।
राक्षसाः समरे शूरं निजघ्नू रोषतत्पराः ॥ ३.२५.८ ॥

罗刹们怀着愤怒,以铁棍、长矛、短枪、刀剑和斧头,在战斗中击打那位勇士。

3.25.9

ते बलाहकसंकाशा महाकाया महाबलाः।
अभ्यधावन्त काकुत्स्थं रथैर्वाजिभिरेव च ॥ ३.२५.९ ॥

他们黑如乌云,身躯庞大,力量强劲,乘着战车与战马,朝着迦古特斯特族的罗摩冲去。

3.25.10

गजैः पर्वतकूटाभै रामं युद्धे जिघांसवः।
ते रामे शरवर्षाणि व्यसृजन् रक्षसां गणाः ॥ ३.२५.१० ॥

罗刹的大军骑乘如山峰般的大象,渴望在战斗中杀死罗摩,向他倾泻下箭雨。

3.25.11

शैलेन्द्रमिव धाराभिर्वर्षमाणा महाघनाः।
सर्वैः परिवृतो रामो राक्षसैः क्रूरदर्शनैः ॥ ३.२५.११ ॥

如同巨大的乌云向山中之王倾泻急雨,罗摩被所有面目凶恶的罗刹团团围住。

3.25.12

तिथिष्विव महादेवो वृतः पारिषदां गणैः।
तानि मुक्तानि शस्त्राणि यातुधानैः स राघवः ॥ ३.२५.१२ ॥

如同在朔望之日,大神湿婆被他的随从群众所环绕,罗ghava便站立在罗刹所射出的那些兵器之中。

3.25.13

प्रतिजग्राह विशिखैर्नद्योघानिव सागरः।
स तैः प्रहरणैर्घोरैर्भिन्नगात्रो न विव्यथे ॥ ३.२५.१३ ॥

如大海接纳河流的洪流,他承受了箭矢;尽管身体被那些可怕的武器刺穿,他并未痛苦。

3.25.14

रामः प्रदीप्तैर्बहुभिर्वज्रैरिव महाचलः।
स विद्धः क्षतजादिग्धः सर्वगात्रेषु राघवः ॥ ३.२५.१४ ॥

如大山被许多燃烧的雷电击中,罗摩身上被刺穿,全身沾满鲜血。

3.25.15

बभूव रामः संध्याभ्रैर्दिवाकर इवावृतः।
विषेदुर्देवगन्धर्वाः सिद्धाश्च परमर्षयः ॥ ३.२५.१५ ॥

罗摩如同被暮云遮蔽的太阳;天神、乾达婆、悉陀和大仙都感到忧伤。

3.25.16

एकं सहस्रैर्बहुभिस्तदा दृष्ट्वा समावृतम्।
ततो रामस्तु संक्रुद्धो मण्डलीकृतकार्मुकः ॥ ३.२५.१६ ॥

罗摩见一人被数千之众围困,大怒,将弓拉成圆形。

3.25.17

ससर्ज निशितान् बाणान् शतशोऽथ सहस्रशः।
दुरावारान् दुर्विषहान् कालपाशोपमान् रणे ॥ ३.२५.१७ ॥

于是罗摩射出成百上千支锐利的箭,无法抵挡,难以承受,如同战场上死神的绳索。

3.25.18

मुमोच लीलया कङ्कपत्रान् काञ्चनभूषणान्।
ते शराः शत्रुसैन्येषु मुक्ता रामेण लीलया ॥ ३.२५.१८ ॥

罗摩轻松地射出饰有金饰、以鹤羽为翎的箭;这些由罗摩轻易射出的箭,落在敌军之中。

3.25.19

आददू रक्षसां प्राणान् पाशाः कालकृता इव।
भित्त्वा राक्षसदेहांस्तांस्ते शरा रुधिराप्लुताः ॥ ३.२५.१९ ॥

这些箭如同死神设下的绳索,夺走了罗刹的性命;穿透罗刹的身体后,箭上满是鲜血。

3.25.20

अन्तरिक्षगता रेजुर्दीप्ताग्निसमतेजसः।
असंख्येयास्तु रामस्य सायकाश्चापमण्डलात् ॥ ३.२५.२० ॥

在空中飞行的箭光芒如燃烧的烈火;罗摩弓圈中射出了无数的箭。

3.25.21

विनिष्पेतुरतीवोग्रा रक्षःप्राणापहारिणः।
तैर्धनूंषि ध्वजाग्राणि चर्माणि कवचानि च ॥ ३.२५.२१ ॥

极其凶猛、夺取罗刹性命的箭射出;箭所过之处,弓、旗杆顶端、盾牌与甲胄都被摧毁。

3.25.22

बाहून् सहस्ताभरणानूरून् करिकरोपमान्।
चिच्छेद रामः समरे शतशोऽथ सहस्रशः ॥ ३.२५.२२ ॥

罗摩在战场上斩断了带着手与饰物的手臂,以及如象鼻般的大腿,一次又一次,数以百计,又数以千计。

3.25.23

हयान् काञ्चनसंनाहान् रथयुक्तान् ससारथीन्।
गजांश्च सगजारोहान् सहयान् सादिनस्तदा ॥ ३.२५.२३ ॥

披着金饰马具、驾在战车上的骏马连同御者;大象连同象夫;骑兵连同战马——当时全部被击倒。

3.25.24

चिच्छिदुर्बिभिदुश्चैव रामबाणा गुणच्युताः।
पदातीन् समरे हत्वा ह्यनयद् यमसादनम् ॥ ३.२५.२४ ॥

罗摩的箭离开弓弦,切割、穿刺;在战斗中杀死步兵,将他们送往阎摩的居所。

3.25.25

ततो नालीकनाराचैस्तीक्ष्णाग्रैश्च विकर्णिभिः।
भीममार्तस्वरं चक्रुश्छिद्यमाना निशाचराः ॥ ३.२५.२५ ॥

此时,被那些利尖倒钩的那罗迦与那罗遮箭所射穿的夜行者,发出了可怖的哀号。

3.25.26

तत्सैन्यं विविधैर्बाणैरर्दितं मर्मभेदिभिः।
न रामेण सुखं लेभे शुष्कं वनमिवाग्निना ॥ ३.२५.२६ ॥

那支军队被罗摩穿透要害的种种箭矢所折磨,在罗摩面前得不到丝毫安宁,正如干枯的森林在烈火面前无法得到安宁。

3.25.27

केचिद् भीमबलाः शूराः प्रासान् शूलान् परश्वधान्।
चिक्षिपुः परमक्रुद्धा रामाय रजनीचराः ॥ ३.२५.२७ ॥

一些力量可怖的勇猛夜行者,极度愤怒,向罗摩投掷长矛、戟与战斧。

3.25.28

तेषां बाणैर्महाबाहुः शस्त्राण्यावार्य वीर्यवान्।
जहार समरे प्राणांश्चिच्छेद च शिरोधरान् ॥ ३.२५.२८ ॥

臂力强大、勇猛无双的罗摩,以箭挡开他们的兵器,在战场上夺走了他们的性命,并斩断了他们的脖颈。

3.25.29

ते छिन्नशिरसः पेतुश्छिन्नचर्मशरासनाः।
सुपर्णवातविक्षिप्ता जगत्यां पादपा यथा ॥ ३.२५.२९ ॥

他们头颅被斩断,盾牌与弓被折毁,如同被金翅鸟翅膀掀起的风吹倒的树木,纷纷倒在大地上。

3.25.30

अवशिष्टाश्च ये तत्र विषण्णास्ते निशाचराः।
खरमेवाभ्यधावन्त शरणार्थं शराहताः ॥ ३.२५.३० ॥

那些留在那里的夜行者,灰心丧气,身中箭矢,便径直奔向卡拉,寻求庇护。

3.25.31

तान् सर्वान् धनुरादाय समाश्वास्य च दूषणः।
अभ्यधावत् सुसंक्रुद्धः क्रुद्धं क्रुद्ध इवान्तकः ॥ ३.२५.३१ ॥

dūṣaṇa 取弓安慰众人,极度愤怒地冲上前去,如同愤怒的死神(阎摩)。

3.25.32

निवृत्तास्तु पुनः सर्वे दूषणाश्रयनिर्भयाः।
राममेवाभ्यधावन्त सालतालशिलायुधाः ॥ ३.२५.३२ ॥

然而他们全都折返,在dūṣaṇa的庇护下无所畏惧,手持娑罗树、棕榈树和石块,直扑罗摩而来。

3.25.33

शूलमुद्गरहस्ताश्च पाशहस्ता महाबलाः।
सृजन्तः शरवर्षाणि शस्त्रवर्षाणि संयुगे ॥ ३.२५.३३ ॥

手持戟、棍,持绳索的大力罗刹们在战斗中倾泻箭雨与兵器之雨。

3.25.34

द्रुमवर्षाणि मुञ्चन्तः शिलावर्षाणि राक्षसाः।
तद् बभूवाद्भुतं युद्धं तुमुलं रोमहर्षणम् ॥ ३.२५.३४ ॥

罗刹们倾泻树木与石块之雨,使这场战斗变得奇异、喧嚣、令人毛骨悚然。

3.25.35

रामस्यास्य महाघोरं पुनस्तेषां च रक्षसाम्।
ते समन्तादभिक्रुद्धा राघवं पुनरार्दयन् ॥ ३.२५.३५ ॥

罗摩与那些罗刹之间再次爆发了那场可怕的大战。他们从四面八方怒不可遏,再次攻击罗怙后裔(罗摩)。

3.25.36

ततः सर्वा दिशो दृष्ट्वा प्रदिशश्च समावृताः।
राक्षसैः सर्वतः प्राप्तैः शरवर्षाभिरावृतः ॥ ३.२५.३६ ॥

于是,见四面八方及各方位都被从各处赶来的罗刹所充满,罗摩被箭雨所笼罩。

3.25.37

स कृत्वा भैरवं नादमस्त्रं परमभास्वरम्।
समयोजयद् गान्धर्वं राक्षसेषु महाबलः ॥ ३.२५.३७ ॥

这位大力者发出可怖的吼声,将极其光明的乾闼婆神箭对准了罗刹。

3.25.38

ततः शरसहस्राणि निर्ययुश्चापमण्डलात्।
सर्वा दश दिशो बाणैरापूर्यन्त समागतैः ॥ ३.२५.३८ ॥

于是成千上万的箭从弓圈中射出,聚集而来的箭矢充满了十方。

3.25.39

नाददानं शरान् घोरान् विमुञ्चन्तं शरोत्तमान्।
विकर्षमाणं पश्यन्ति राक्षसास्ते शरार्दिताः ॥ ३.२५.३९ ॥

被箭矢所伤的罗刹们看见,他并不取那些可怕的箭,却仍在放出上等的箭,并拉满弓弦。

3.25.40

शरान्धकारमाकाशमावृणोत् सदिवाकरम्।
बभूवावस्थितो रामः प्रक्षिपन्निव तान् शरान् ॥ ३.२५.४० ॥

箭矢织成的黑暗连同太阳遮蔽了天空,罗摩站在那里,仿佛正在射出那些箭。

3.25.41

युगपत्पतमानैश्च युगपच्च हतैर्भृशम्।
युगपत्पतितैश्चैव विकीर्णा वसुधाभवत् ॥ ३.२५.४१ ॥

同时倒下、同时被杀、同时跌落的(罗刹)散落满地,大地为之狼藉。

3.25.42

निहताः पतिताः क्षीणाश्छिन्ना भिन्ना विदारिताः।
तत्र तत्र स्म दृश्यन्ते राक्षसास्ते सहस्रशः ॥ ३.२५.४२ ॥

罗刹们或被杀、或倒地、或力竭、或被斩、或被破、或被撕裂,成千上万地散落各处。

3.25.43

सोष्णीषैरुत्तमाङ्गैश्च साङ्गदैर्बाहुभिस्तथा।
ऊरुभिर्बाहुभिश्छिन्नैर्नानारूपैर्विभूषणैः ॥ ३.२५.४३ ॥

带着头巾的头颅,戴着臂钏的手臂,以及被砍断的大腿和手臂,装饰着各式各样的饰物。

3.25.44

हयैश्च द्विपमुख्यैश्च रथैर्भिन्नैरनेकशः।
चामरव्यजनैश्छत्रैर्ध्वजैर्नानाविधैरपि ॥ ३.२५.४४ ॥

马匹和象王,以及各式破碎的战车,还有拂尘、扇子、伞盖和各种旗幡。

3.25.45

रामेण बाणाभिहतैर्विच्छिन्नैः शूलपट्टिशैः।
खड्गैः खण्डीकृतैः प्रासैर्विकीर्णैश्च परश्वधैः ॥ ३.२५.४५ ॥

被罗摩的箭射中,断裂的戟与钺,斩碎的剑,散落的长矛与斧。

3.25.46

चूर्णिताभिः शिलाभिश्च शरैश्चित्रैरनेकशः।
विच्छिन्नैः समरे भूमिर्विस्तीर्णाभूद् भयंकरा ॥ ३.२५.४६ ॥

碎裂的石块、各式奇异的箭矢,以及战场上被斩断的残骸,使大地铺展开来,变得可怖。

3.25.47

तान् दृष्ट्वा निहतान् सर्वे राक्षसाः परमातुराः।
न तत्र चलितुं शक्ता रामं परपुरंजयम् ॥ ३.२५.४७ ॥

看到他们全部被杀,所有罗刹都极度惶恐,在征服敌城的罗摩面前,竟无法在那里动弹。