蚁垤《罗摩衍那》 · 篇 3.28
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.28.1
निहतं दूषणं दृष्ट्वा रणे त्रिशिरसा सह।
खरस्याप्यभवत् त्रासो दृष्ट्वा रामस्य विक्रमम् ॥ ३.२८.१ ॥
见到都舍那与三头在战场上一同被杀,又见罗摩的威勇,卡罗也生出了恐惧。
3.28.2
स दृष्ट्वा राक्षसं सैन्यमविषह्यं महाबलम्।
हतमेकेन रामेण दूषणस्त्रिशिरा अपि ॥ ३.२८.२ ॥
他看见那支不可抵挡、大力的罗刹军队被罗摩一人所杀,都舍那与三头也都被杀。
3.28.3
तद्बलं हतभूयिष्ठं विमनाः प्रेक्ष्य राक्षसः।
आससाद खरो रामं नमुचिर्वासवं यथा ॥ ३.२८.३ ॥
看见自己的大部分军队被杀,心情沮丧的罗刹卡罗便走近罗摩,正如那摩其走近因陀罗一般。
3.28.4
विकृष्य बलवच्चापं नाराचान् रक्तभोजनान्।
खरश्चिक्षेप रामाय क्रुद्धानाशीविषानिव ॥ ३.२८.४ ॥
卡罗拉开强劲的弓,向罗摩射出饮血的铁箭,像愤怒的毒蛇一般。
3.28.5
ज्यां विधुन्वन् सुबहुशः शिक्षयास्त्राणि दर्शयन्।
चचार समरे मार्गान् शरै रथगतः खरः ॥ ३.२८.५ ॥
他屡次抖动弓弦,熟练地展示武器,乘坐战车在战场上来回驰骋,以箭矢开辟道路。
3.28.6
स सर्वाश्च दिशो बाणैः प्रदिशश्च महारथः।
पूरयामास तं दृष्ट्वा रामोऽपि सुमहद् धनुः ॥ ३.२८.६ ॥
这位大战车武士用箭矢充满了所有方向与隅角;罗摩见此,也拿起了他的大弓。
3.28.7
स सायकैर्दुर्विषहैर्विस्फुलिङ्गैरिवाग्निभिः।
नभश्चकाराविवरं पर्जन्य इव वृष्टिभिः ॥ ३.२८.७ ॥
他以难以承受的箭矢,如火星一般,将天空填满而无一空隙,犹如乌云以暴雨充满天空。
3.28.8
तद् बभूव शितैर्बाणैः खररामविसर्जितैः।
पर्याकाशमनाकाशं सर्वतः शरसंकुलम् ॥ ३.२८.८ ॥
由克拉和罗摩射出的锐利箭矢,使天空处处充满箭矢,再无一丝空隙。
3.28.9
शरजालावृतः सूर्यो न तदा स्म प्रकाशते।
अन्योन्यवधसंरम्भादुभयोः सम्प्रयुध्यतोः ॥ ३.२८.९ ॥
太阳被箭网所遮,那时不再放光,因为二者都怀着互相杀戮的激情而激战。
3.28.10
ततो नालीकनाराचैस्तीक्ष्णाग्रैश्च विकर्णिभिः।
आजघान रणे रामं तोत्रैरिव महाद्विपम् ॥ ३.२८.१० ॥
然后他在战场上以那利迦、那罗遮和带倒刺的锐尖箭射击罗摩,犹如用刺棒驱打巨象。
3.28.11
तं रथस्थं धनुष्पाणिं राक्षसं पर्यवस्थितम्।
ददृशुः सर्वभूतानि पाशहस्तमिवान्तकम् ॥ ३.२८.११ ॥
站在战车上、手持弓箭、稳固屹立的罗刹,一切众生都看见他,如同手执绳索的死神。
3.28.12
हन्तारं सर्वसैन्यस्य पौरुषे पर्यवस्थितम्।
परिश्रान्तं महासत्त्वं मेने रामं खरस्तदा ॥ ३.२८.१२ ॥
那时克拉认为罗摩是摧毁全军的人,在勇力上坚定屹立,虽已疲惫,却有大勇。
3.28.13
तं सिंहमिव विक्रान्तं सिंहविक्रान्तगामिनम्।
दृष्ट्वा नोद्विजते रामः सिंहः क्षुद्रमृगं यथा ॥ ३.२८.१३ ॥
罗摩见那勇猛如狮、步伐如狮的罗刹,并不慌乱,正如狮子见到小鹿并不惊惧。
3.28.14
ततः सूर्यनिकाशेन रथेन महता खरः।
आससादाथ तं रामं पतङ्ग इव पावकम् ॥ ३.२८.१४ ॥
于是卡拉乘着如太阳般耀眼的大战车,来到罗摩面前,如飞蛾扑向火焰。
3.28.15
ततोऽस्य सशरं चापं मुष्टिदेशे महात्मनः।
खरश्चिच्छेद रामस्य दर्शयन् हस्तलाघवम् ॥ ३.२८.१५ ॥
于是卡拉在握柄处斩断了大德罗摩的弓与箭,展示他手上的敏捷。
3.28.16
स पुनस्त्वपरान् सप्त शरानादाय मर्मणि।
निजघान रणे क्रुद्धः शक्राशनिसमप्रभान् ॥ ३.२८.१६ ॥
于是他愤怒地又取七支箭,在战斗中射中罗摩的要害;箭光如因陀罗的金刚杵般耀眼。
3.28.17
ततः शरसहस्रेण राममप्रतिमौजसम्।
अर्दयित्वा महानादं ननाद समरे खरः ॥ ३.२८.१७ ॥
于是卡拉以千支箭射伤无与伦比的罗摩,在战场上发出巨大的吼声。
3.28.18
ततस्तत्प्रहतं बाणैः खरमुक्तैः सुपर्वभिः।
पपात कवचं भूमौ रामस्यादित्यवर्चसम् ॥ ३.२८.१८ ॥
罗摩如太阳般耀眼的铠甲,被卡拉射来的有节之箭击中,坠落于地。
3.28.19
स शरैरर्पितः क्रुद्धः सर्वगात्रेषु राघवः।
रराज समरे रामो विधूमोऽग्निरिव ज्वलन् ॥ ३.२८.१९ ॥
Rāghava 全身被箭射中,愤怒地在战斗中闪耀,如同无烟的烈火。
3.28.20
ततो गम्भीरनिर्ह्रादं रामः शत्रुनिबर्हणः।
चकारान्ताय स रिपोः सज्यमन्यन्महद्धनुः ॥ ३.२८.२० ॥
于是,灭敌者 Rāma 以低沉的弦声张起另一张大弓,要结束敌人的性命。
3.28.21
सुमहद् वैष्णवं यत् तदतिसृष्टं महर्षिणा।
वरं तद् धनुरुद्यम्य खरं समभिधावत ॥ ३.२८.२१ ॥
Rāma 举起那张大仙人所赠的极大的毗湿奴神弓,向 Khara 冲去。
3.28.22
ततः कनकपुङ्खैस्तु शरैः संनतपर्वभिः।
चिच्छेद रामः संक्रुद्धः खरस्य समरे ध्वजम् ॥ ३.२८.२२ ॥
于是极为愤怒的 Rāma 在战斗中以金羽、直节的箭射断了 Khara 的旗帜。
3.28.23
स दर्शनीयो बहुधा विच्छिन्नः काञ्चनो ध्वजः।
जगाम धरणीं सूर्यो देवतानामिवाज्ञया ॥ ३.२८.२३ ॥
那面美丽的金色旗帜被斩成数段,坠落于地,仿佛太阳奉诸神之命降临大地。
3.28.24
तं चतुर्भिः खरः क्रुद्धो रामं गात्रेषु मार्गणैः।
विव्याध हृदि मर्मज्ञो मातङ्गमिव तोमरैः ॥ ३.२८.२४ ॥
愤怒的 Khara 熟知要害,以四支箭射中 Rāma 的肢体,尤其是胸膛,如同象夫用矛刺象一般。
3.28.25
स रामो बहुभिर्बाणैः खरकार्मुकनिःसृतैः।
विद्धो रुधिरसिक्ताङ्गो बभूव रुषितो भृशम् ॥ ३.२८.२५ ॥
罗摩被哈罗弓射出的众多箭所刺伤,身体浸满鲜血,极为愤怒。
3.28.26
स धनुर्धन्विनां श्रेष्ठः संगृह्य परमाहवे।
मुमोच परमेष्वासः षट् शरानभिलक्षितान् ॥ ३.२८.२६ ॥
这位弓手中的最优者、至高的射手,在那场大战中拿起弓,射出了六支瞄准的箭。
3.28.27
शिरस्येकेन बाणेन द्वाभ्यां बाह्वोरथार्पयत् ।
त्रिभिश्चन्द्रार्धवक्त्रैश्च वक्षस्यभिजघान ह ॥ ३.२८.२७ ॥
他以一箭射中头部,以两箭射中双臂,然后以三支半月形箭头的箭射中胸膛。
3.28.28
ततः पश्चान्महातेजा नाराचान् भास्करोपमान्।
जघान राक्षसं क्रुद्धस्त्रयोदश शिलाशितान् ॥ ३.२८.२८ ॥
随后,光辉赫赫的罗摩怒而以十三支如太阳般闪耀、在石上磨利的铁杆箭射中了那罗刹。
3.28.29
रथस्य युगमेकेन चतुर्भिः शबलान् हयान्।
षष्ठेन च शिरः संख्ये चिच्छेद खरसारथेः ॥ ३.२८.२९ ॥
他以一箭射断战车的轭,以四箭射倒斑驳的马,又以第六箭在战斗中斩下了哈罗御者的头颅。
3.28.30
त्रिभिस्त्रिवेणून् बलवान् द्वाभ्यामक्षं महाबलः।
द्वादशेन तु बाणेन खरस्य सशरं धनुः ॥ ३.२८.३० ॥
力大的罗摩以三箭射断三根旗杆,以两箭射断车轴,又以第十二箭连同箭矢射断了哈罗的弓。
3.28.31
छित्त्वा वज्रनिकाशेन राघवः प्रहसन्निव।
त्रयोदशेनेन्द्रसमो बिभेद समरे खरम् ॥ ३.२८.३१ ॥
罗怙之后(罗摩)如因阁陀罗般,以如金刚的箭斩断之,仿佛含笑,在战场上以第十三支箭射穿了羯罗。
3.28.32
प्रभग्नधन्वा विरथो हताश्वो हतसारथिः।
गदापाणिरवप्लुत्य तस्थौ भूमौ खरस्तदा ॥ ३.२८.३२ ॥
弓已折断,无车,马已被杀,御者已亡,羯罗手持铁杵,纵身跃下,站在地上。
3.28.33
तत् कर्म रामस्य महारथस्य
समेत्य देवाश्च महर्षयश्च।
अपूजयन् प्राञ्जलयः प्रहृष्टा-
स्तदा विमानाग्रगताः समेताः ॥ ३.२८.३३ ॥
大车将罗摩的那一功绩,诸天神与大仙人聚集一处,欢喜合掌,站在最前的天车上,向其致敬。