蚁垤《罗摩衍那》 · 篇 3.29
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.29.1
खरं तु विरथं रामो गदापाणिमवस्थितम्।
मृदुपूर्वं महातेजाः परुषं वाक्यमब्रवीत् ॥ ३.२९.१ ॥
然而,大光明的罗摩先以温和、后以严厉的言辞对手持铁杵、无车站立的罗刹呼罗说话。
3.29.2
गजाश्वरथसम्बाधे बले महति तिष्ठता।
कृतं ते दारुणं कर्म सर्वलोकजुगुप्सितम् ॥ ३.२९.२ ॥
你身处象、马、车充塞的庞大军队之中,所做的这残暴之事为一切世界所厌恶。
3.29.3
उद्वेजनीयो भूतानां नृशंसः पापकर्मकृत् ।
त्रयाणामपि लोकानामीश्वरोऽपि न तिष्ठति ॥ ३.२९.३ ॥
使众生恐惧、残忍且作恶之人,即使是三界之主,也不能长久存立。
3.29.4
कर्म लोकविरुद्धं तु कुर्वाणं क्षणदाचर।
तीक्ष्णं सर्वजनो हन्ति सर्पं दुष्टमिवागतम् ॥ ३.२९.४ ॥
夜行者啊!凡做违背世间秩序之事的人,众人皆会杀之,如同杀死闯入家中的毒蛇一般。
3.29.5
लोभात् पापानि कुर्वाणः कामाद् वा यो न बुध्यते।
हृष्टः पश्यति तस्यान्तं ब्राह्मणी करकादिव ॥ ३.२९.५ ॥
因贪欲或爱欲而作恶、却不自觉之人,欢喜地看着自己的末日,如同婆罗门妇人看着卡拉卡果一般。
3.29.6
वसतो दण्डकारण्ये तापसान् धर्मचारिणः।
किं नु हत्वा महाभागान् फलं प्राप्स्यसि राक्षस ॥ ३.२९.६ ॥
罗刹啊,你杀害了居于檀陀迦林、奉行法度的大福德苦行者,将得到什么果报呢?
3.29.7
न चिरं पापकर्माणः क्रूरा लोकजुगुप्सिताः।
ऐश्वर्यं प्राप्य तिष्ठन्ति शीर्णमूला इव द्रुमाः ॥ ३.२९.७ ॥
作恶、残暴且为世人所鄙弃的人,即使得到权势也不能长久;如同根部腐烂的树木,终将倒下。
3.29.8
अवश्यं लभते कर्ता फलं पापस्य कर्मणः।
घोरं पर्यागते काले द्रुमः पुष्पमिवार्तवम् ॥ ३.२९.८ ॥
作恶之人必定承受其恶行的可怕果报,如同树木在时节到来时开花。
3.29.9
नचिरात् प्राप्यते लोके पापानां कर्मणां फलम्।
सविषाणामिवान्नानां भुक्तानां क्षणदाचर ॥ ३.२९.९ ॥
夜行者啊,在世间,恶业的果报很快就会到来,如同吃下掺毒的食物,立刻发作。
3.29.10
पापमाचरतां घोरं लोकस्याप्रियमिच्छताम्।
अहमासादितो राज्ञा प्राणान् हन्तुं निशाचर ॥ ३.२९.१० ॥
为了夺取那些犯下可怕罪行、又想加害世界之人的性命,夜行者啊,国王派我前来。
3.29.11
अद्य भित्त्वा मया मुक्ताः शराः काञ्चनभूषणाः।
विदार्यातिपतिष्यन्ति वल्मीकमिव पन्नगाः ॥ ३.२९.११ ॥
今天我射出的金饰之箭将穿透你而过,如同蛇破开蚁垤而出。
3.29.12
ये त्वया दण्डकारण्ये भक्षिता धर्मचारिणः।
तानद्य निहतः संख्ये ससैन्योऽनुगमिष्यसि ॥ ३.२९.१२ ॥
你在檀那迦林中吞食的那些修行正法之人,今日你将在战场上被杀,与你的全军一同去追随他们。
3.29.13
अद्य त्वां निहतं बाणैः पश्यन्तु परमर्षयः।
निरयस्थं विमानस्था ये त्वया निहताः पुरा ॥ ३.२९.१३ ॥
愿伟大的仙人今日看见你被箭射死;愿那些住在天车中的、以及在地狱中的、先前被你杀害的人也都看见。
3.29.14
प्रहरस्व यथाकामं कुरु यत्नं कुलाधम।
अद्य ते पातयिष्यामि शिरस्तालफलं यथा ॥ ३.२९.१४ ॥
随你的意愿攻击吧,竭尽你的力量,你这家族中最卑劣的人!今日我要让你的头颅像棕榈果一样落下。
3.29.15
एवमुक्तस्तु रामेण क्रुद्धः संरक्तलोचनः।
प्रत्युवाच ततो रामं प्रहसन् क्रोधमूर्च्छितः ॥ ३.२९.१५ ॥
罗摩如此说后,他愤怒、双目通红,被怒火所迷,便大笑着回答罗摩。
3.29.16
प्राकृतान् राक्षसान् हत्वा युद्धे दशरथात्मज।
आत्मना कथमात्मानमप्रशस्यं प्रशंससि ॥ ३.२९.१६ ॥
十车王之子啊!你在战斗中杀死普通罗刹,为何自己夸赞自己,这种夸赞并不值得?
3.29.17
विक्रान्ता बलवन्तो वा ये भवन्ति नरर्षभाः।
कथयन्ति न ते किंचित् तेजसा चातिगर्विताः ॥ ३.२९.१७ ॥
那些勇猛有力的人中雄牛,即使因其威力而极为自负,也不会自夸什么。
3.29.18
प्राकृतास्त्वकृतात्मानो लोके क्षत्रियपांसनाः।
निरर्थकं विकत्थन्ते यथा राम विकत्थसे ॥ ३.२९.१८ ॥
那些凡庸、心性未经修养、在世上是刹帝利之耻辱的人,徒然自夸,正如你在夸口,罗摩啊。
3.29.19
कुलं व्यपदिशन् वीरः समरे कोऽभिधास्यति।
मृत्युकाले तु सम्प्राप्ते स्वयमप्रस्तवे स्तवम् ॥ ३.२९.१९ ॥
在战场上,哪位英雄会宣扬自己的家世?死期已至,在不需要赞美的地方自我夸耀,是徒劳的。
3.29.20
सर्वथा तु लघुत्वं ते कत्थनेन विदर्शितम्।
सुवर्णप्रतिरूपेण तप्तेनेव कुशाग्निना ॥ ३.२९.२० ॥
你的卑劣因你的自夸而完全显露,犹如金色之物在吉祥草的火中烧炼后显出本相。
3.29.21
न तु मामिह तिष्ठन्तं पश्यसि त्वं गदाधरम्।
धराधरमिवाकम्प्यं पर्वतं धातुभिश्चितम् ॥ ३.२९.२१ ॥
你难道没看见我站在这里,手持铁棍,如覆盖着矿石的山岳般不可撼动吗?
3.29.22
पर्याप्तोऽहं गदापाणिर्हन्तुं प्राणान् रणे तव।
त्रयाणामपि लोकानां पाशहस्त इवान्तकः ॥ ३.२९.२२ ॥
我手持铁棍,在战场上完全有能力夺走你的性命,犹如手持绳索的阎摩统御三界。
3.29.23
कामं बह्वपि वक्तव्यं त्वयि वक्ष्यामि न त्वहम्।
अस्तं प्राप्नोति सविता युद्धविघ्नस्ततो भवेत् ॥ ३.२९.२३ ॥
关于你,我还有很多话可说,但我不会说了。太阳即将落山,因此战斗可能会受到阻碍。
3.29.24
चतुर्दश सहस्राणि राक्षसानां हतानि ते।
त्वद्विनाशात् करोम्यद्य तेषामश्रुप्रमार्जनम् ॥ ३.२९.२४ ॥
一万四千名罗刹被你杀害了;今天,借你的毁灭,我要为他们拭去眼泪。
3.29.25
इत्युक्त्वा परमक्रुद्धः स गदां परमाङ्गदाम्।
खरश्चिक्षेप रामाय प्रदीप्तामशनिं यथा ॥ ३.२९.२५ ॥
说完这话,极为愤怒的恳罗向罗摩掷出那柄华美的棍棒,如雷霆般炽烈。
3.29.26
खरबाहुप्रमुक्ता सा प्रदीप्ता महती गदा।
भस्म वृक्षांश्च गुल्मांश्च कृत्वागात् तत्समीपतः ॥ ३.२९.२६ ॥
那柄从伽罗臂中飞出的巨大燃烧之棍,将树木与灌丛化为灰烬,从他身边掠过。
3.29.27
तामापतन्तीं महतीं मृत्युपाशोपमां गदाम्।
अन्तरिक्षगतां रामश्चिच्छेद बहुधा शरैः ॥ ३.२९.२७ ॥
那柄飞越天空、如同死神绳索的巨大棍棒,被罗摩以箭斩成了许多碎片。
3.29.28
सा विशीर्णा शरैर्भिन्ना पपात धरणीतले।
गदा मन्त्रौषधिबलैर्व्यालीव विनिपातिता ॥ ३.२९.२८ ॥
那柄被箭矢击碎、穿透的棍棒,如同被咒语与草药之力击落的毒蛇,坠落于地面。