蚁垤《罗摩衍那》 · 篇 3.30
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.30.1
भित्त्वा तु तां गदां बाणै राघवो धर्मवत्सलः।
स्मयमान इदं वाक्यं संरब्धमिदमब्रवीत् ॥ ३.३०.१ ॥
罗怙之后、爱护法道的罗摩以箭射穿那根棍棒,含笑而又愤怒地说了这些话。
3.30.2
एतत् ते बलसर्वस्वं दर्शितं राक्षसाधम।
शक्तिहीनतरो मत्तो वृथा त्वमुपगर्जसि ॥ ३.३०.२ ॥
卑劣的罗刹啊,你已展示了你全部的力量;你远比我弱小,却徒然吼叫。
3.30.3
एषा बाणविनिर्भिन्ना गदा भूमितलं गता।
अभिधानप्रगल्भस्य तव प्रत्ययघातिनी ॥ ३.३०.३ ॥
这根被箭射穿的棍棒已落在地上;它摧毁了你那夸口者的自信。
3.30.4
यत् त्वयोक्तं विनष्टानामिदमश्रुप्रमार्जनम्।
राक्षसानां करोमीति मिथ्या तदपि ते वचः ॥ ३.३०.४ ॥
你所说要为被毁灭的罗刹拭去眼泪,你的这句话也是虚假的。
3.30.5
नीचस्य क्षुद्रशीलस्य मिथ्यावृत्तस्य रक्षसः।
प्राणानपहरिष्यामि गरुत्मानमृतं यथा ॥ ३.३०.५ ॥
卑贱、心性狭小、行为虚假的罗刹啊,我将夺去你的性命,如同迦卢荼夺取甘露一般。
3.30.6
अद्य ते भिन्नकण्ठस्य फेनबुद्बुदभूषितम्।
विदारितस्य मद्बाणैर्मही पास्यति शोणितम् ॥ ३.३०.६ ॥
今天,你的咽喉被我的箭射穿,你被撕裂,大地将饮下你那缀满泡沫与气泡的鲜血。
3.30.7
पांसुरूषितसर्वाङ्गः स्रस्तन्यस्तभुजद्वयः।
स्वप्स्यसे गां समाश्लिष्य दुर्लभां प्रमदामिव ॥ ३.३०.७ ॥
全身沾满尘土,双臂松松垂落,你将拥抱大地而眠,如同拥抱一位难得的爱人。
3.30.8
प्रवृद्धनिद्रे शयिते त्वयि राक्षसपांसने।
भविष्यन्ति शरण्यानां शरण्या दण्डका इमे ॥ ३.३०.८ ॥
啰刹啊,当你躺在尘土中沉入长久的深眠时,这些檀特迦森林将成为求庇护者的庇护所。
3.30.9
जनस्थाने हतस्थाने तव राक्षस मच्छरैः।
निर्भया विचरिष्यन्ति सर्वतो मुनयो वने ॥ ३.३०.९ ॥
啰刹啊,在檀那斯坦,你将被我的箭射杀之地,诸仙人将在林中四处无畏地行走。
3.30.10
अद्य विप्रसरिष्यन्ति राक्षस्यो हतबान्धवाः।
बाष्पार्द्रवदना दीना भयादन्यभयावहाः ॥ ३.३०.१० ॥
今日,亲族被杀的罗刹女们,泪湿面颊,悲苦无依,将因恐惧而四散奔逃;那些曾使他人恐惧的人,自己也将感到恐惧。
3.30.11
अद्य शोकरसज्ञास्ता भविष्यन्ति निरर्थिकाः।
अनुरूपकुलाः पत्न्यो यासां त्वं पतिरीदृशः ॥ ३.३०.११ ॥
今日,那些懂得悲痛滋味的女子,将变得徒劳无益——她们是门第相配的妻子,而她们的丈夫正是你这样的人。
3.30.12
नृशंसशील क्षुद्रात्मन् नित्यं ब्राह्मणकण्टक।
त्वत्कृते शङ्कितैरग्नौ मुनिभिः पात्यते हविः ॥ ३.३०.१२ ॥
残忍之性、卑劣之心者啊,永远是婆罗门的荆棘!因你之故,恐惧的仙人们将祭品投入火中。
3.30.13
तमेवमभिसंरब्धं ब्रुवाणं राघवं वने।
खरो निर्भर्त्सयामास रोषात् खरतरस्वरः ॥ ३.३०.१३ ॥
罗伽婆(罗摩)在林中愤怒地如此说话时,哈罗以愤怒,用极其严厉的声音斥责了他。
3.30.14
दृढं खल्ववलिप्तोऽसि भयेष्वपि च निर्भयः।
वाच्यावाच्यं ततो हि त्वं मृत्योर्वश्यो न बुध्यसे ॥ ३.३०.१४ ॥
你的确非常傲慢,即使在可怕的时刻也毫无畏惧。因此,你受死亡支配,不明白什么话该说、什么话不该说。
3.30.15
कालपाशपरिक्षिप्ता भवन्ति पुरुषा हि ये।
कार्याकार्यं न जानन्ति ते निरस्तषडिन्द्रियाः ॥ ३.३०.१५ ॥
被时间之索缠住的人,不知道该做什么、不该做什么;他们的六根都被抛弃了。
3.30.16
एवमुक्त्वा ततो रामं संरुध्य भृकुटिं ततः।
स ददर्श महासालमविदूरे निशाचरः ॥ ३.३०.१६ ॥
说完这些,那夜行者皱起眉头看着罗摩,随后看见不远处有一棵大娑罗树。
3.30.17
रणे प्रहरणस्यार्थे सर्वतो ह्यवलोकयन्।
स तमुत्पाटयामास संदष्टदशनच्छदम् ॥ ३.३०.१७ ॥
为了在战斗中找一件武器,他四下张望,用牙齿紧咬嘴唇,将其连根拔起。
3.30.18
तं समुत्क्षिप्य बाहुभ्यां विनर्दित्वा महाबलः।
राममुद्दिश्य चिक्षेप हतस्त्वमिति चाब्रवीत् ॥ ३.३०.१८ ॥
他双臂举起它,咆哮一声,那位大力者瞄准罗摩掷去,并说道:"你死定了!"
3.30.19
तमापतन्तं बाणौघैश्छित्त्वा रामः प्रतापवान्।
रोषमाहारयत् तीव्रं निहन्तुं समरे खरम् ॥ ३.३०.१९ ॥
罗摩见他冲杀而来,便以箭雨将其斩断,并在战场上燃起猛烈的怒火,要诛杀羯罗。
3.30.20
जातस्वेदस्ततो रामो रोषरक्तान्तलोचनः।
निर्बिभेद सहस्रेण बाणानां समरे खरम् ॥ ३.३०.२० ॥
此时罗摩汗流浃背,眼角因愤怒而发红,在战斗中以千支箭射穿了羯罗。
3.30.21
तस्य बाणान्तराद् रक्तं बहु सुस्राव फेनिलम्।
गिरेः प्रस्रवणस्येव धाराणां च परिस्रवः ॥ ३.३०.२१ ॥
从他身上的箭孔之间涌出大量泡沫般的血,如同山间泉水的溪流倾泻而下。
3.30.22
विकलः स कृतो बाणैः खरो रामेण संयुगे।
मत्तो रुधिरगन्धेन तमेवाभ्यद्रवद् द्रुतम् ॥ ३.३०.२२ ॥
羯罗在战斗中被罗摩的箭所重创,又被血腥气冲昏了头脑,迅速径直朝他冲去。
3.30.23
तमापतन्तं संक्रुद्धं कृतास्त्रो रुधिराप्लुतम्।
अपासर्पद् द्वित्रिपदं किंचित्त्वरितविक्रमः ॥ ३.३०.२३ ॥
罗摩见他怒气冲冲地扑来,浑身沾满鲜血,便精于武艺地迅速后退了两三步。
3.30.24
ततः पावकसंकाशं वधाय समरे शरम्।
खरस्य रामो जग्राह ब्रह्मदण्डमिवापरम् ॥ ३.३०.२४ ॥
于是罗摩在战斗中取出一支如火焰般炽烈的箭,要杀死羯罗,那箭仿佛另一根梵杖。
3.30.25
स तद् दत्तं मघवता सुरराजेन धीमता।
संदधे च स धर्मात्मा मुमोच च खरं प्रति ॥ ३.३०.२५ ॥
这位心怀正法者将智慧之王、诸天之主因陀罗所赠的箭搭上弓弦,射向羯罗。
3.30.26
स विमुक्तो महाबाणो निर्घातसमनिःस्वनः।
रामेण धनुरायम्य खरस्योरसि चापतत् ॥ ३.३०.२६ ॥
罗摩拉满弓弦射出的那支大箭,发出如霹雳般的轰响,落在羯罗的胸膛上。
3.30.27
स पपात खरो भूमौ दह्यमानः शराग्निना।
रुद्रेणेव विनिर्दग्धः श्वेतारण्ये यथान्धकः ॥ ३.३०.२७ ॥
羯罗在箭火中燃烧,倒在地上,正如安陀迦在白林中被楼陀罗焚毁而倒下。
3.30.28
स वृत्र इव वज्रेण फेनेन नमुचिर्यथा।
बलो वेन्द्राशनिहतो निपपात हतः खरः ॥ ३.३०.२८ ॥
正如伐栗多被金刚杵所杀,那牟质被泡沫所杀,钵罗被因陀罗的霹雳所杀,羯罗被击杀倒下。
3.30.29
एतस्मिन्नन्तरे देवाश्चारणैः सह संगताः।
दुन्दुभींश्चाभिनिघ्नन्तः पुष्पवर्षं समन्ततः ॥ ३.३०.२९ ॥
就在此时,诸神与乾闼婆众一同聚集,击打鼓乐,从四面八方降下花雨。
3.30.30
रामस्योपरि संहृष्टा ववर्षुर्विस्मितास्तदा।
अर्धाधिकमुहूर्तेन रामेण निशितैः शरैः ॥ ३.३०.३० ॥
他们欢喜而惊叹,向罗摩降下花雨;罗摩以锐利的箭,在不足半个牟呼栗多多一点的时间内完成了此事。
3.30.31
चतुर्दश सहस्राणि रक्षसां कामरूपिणाम्।
खरदूषणमुख्यानां निहतानि महामृधे ॥ ३.३०.३१ ॥
以哈罗与杜沙为首、能随意变化形貌的一万四千罗刹,在那场大战中被杀。
3.30.32
अहो बत महत्कर्म रामस्य विदितात्मनः।
अहो वीर्यमहो दार्ढ्यं विष्णोरिव हि दृश्यते ॥ ३.३०.३२ ॥
啊,自知其身的罗摩之功何其伟大!啊,他的勇力与坚毅,仿佛见到了毗湿奴一般!
3.30.33
इत्येवमुक्त्वा ते सर्वे ययुर्देवा यथागतम्।
ततो राजर्षयः सर्वे संगताः परमर्षयः ॥ ३.३०.३३ ॥
说完这番话,诸神便原路返回。随后,聚集在此的所有王仙与大仙……
3.30.34
सभाज्य मुदिता रामं सागस्त्या इदमब्रुवन्।
एतदर्थं महातेजा महेन्द्रः पाकशासनः ॥ ३.३०.३४ ॥
众仙以阿伽斯蒂耶为首,敬礼罗摩,心中欢喜,说道:正为此事,大光明的摩亨陀罗,帕迦之惩罚者因陀罗……
3.30.35
शरभङ्गाश्रमं पुण्यमाजगाम पुरंदरः।
आनीतस्त्वमिमं देशमुपायेन महर्षिभिः ॥ ३.३०.३५ ॥
补兰陀罗(因陀罗)来到圣洁的舍罗婆伽仙人净修林。你是借助大仙们的计策被带到此地的。
3.30.36
एषां वधार्थं शत्रूणां रक्षसां पापकर्मणाम्।
तदिदं नः कृतं कार्यं त्वया दशरथात्मज ॥ ३.३०.३६ ॥
为了诛灭这些作恶的罗刹敌人,你,十车王之子,为我们完成了此事。
3.30.37
स्वधर्मं प्रचरिष्यन्ति दण्डकेषु महर्षयः।
एतस्मिन्नन्तरे वीरो लक्ष्मणः सह सीतया ॥ ३.३०.३७ ॥
在檀陀迦森林中,大仙人们将奉行各自的本分。此时,英雄罗什曼那与悉多一同
3.30.38
गिरिदुर्गाद् विनिष्क्रम्य संविवेशाश्रमे सुखी
ततो रामस्तु विजयी पूज्यमानो महर्षिभिः ॥ ३.३०.३८ ॥
他们走出山中堡垒,欣喜地进入了净修林。此时胜利的罗摩受到大仙人们的敬重,
3.30.39
प्रविवेशाश्रमं वीरो लक्ष्मणेनाभिपूजितः।
तं दृष्ट्वा शत्रुहन्तारं महर्षीणां सुखावहम् ॥ ३.३०.३९ ॥
英雄罗什曼那向他致敬之后,罗摩走进了净修林。见到这位诛灭敌人、为大仙人带来喜乐的人,
3.30.40
बभूव हृष्टा वैदेही भर्तारं परिषस्वजे।
मुदा परमया युक्ता दृष्ट्वा रक्षोगणान् हतान्।
रामं चैवाव्ययं दृष्ट्वा तुतोष जनकात्मजा ॥ ३.३०.४० ॥
毗提诃公主心中欢喜,拥抱了她的夫君。见到罗刹大军已被诛灭,又见到不朽的罗摩,充满无上喜悦的遮那竭之女心中欢欣。
3.30.41
ततस्तु तं राक्षससङ्घमर्दनं
सम्पूज्यमानं मुदितैर्महात्मभिः।
पुनः परिष्वज्य मुदान्वितानना
बभूव हृष्टा जनकात्मजा तदा ॥ ३.३०.४१ ॥
此时,她再次拥抱了这位摧毁罗刹大军、受到喜悦的大德们敬重的夫君,遮那竭之女面带喜色,欢欣不已。