Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 3.31

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.31.1

त्वरमाणस्ततो गत्वा जनस्थानादकम्पनः।
प्रविश्य लङ्कां वेगेन रावणं वाक्यमब्रवीत् ॥ ३.३१.१ ॥

于是,阿康帕那从Janasthāna急速赶来,迅速进入楞伽城,对罗波那说了这些话。

3.31.2

जनस्थानस्थिता राजन् राक्षसा बहवो हताः।
खरश्च निहतः संख्ये कथंचिदहमागतः ॥ ३.३१.२ ॥

大王啊,居住在Janasthāna的许多罗刹已被杀死,哈罗在战斗中也被杀;我勉强才得以回来。

3.31.3

एवमुक्तो दशग्रीवः क्रुद्धः संरक्तलोचनः।
अकम्पनमुवाचेदं निर्दहन्निव तेजसा ॥ ३.३१.३ ॥

罗波那(十首)听后大怒,双目通红,仿佛以光芒焚烧一切,对阿康帕那说了这些话。

3.31.4

केन भीमं जनस्थानं हतं मम परासुना।
को हि सर्वेषु लोकेषु गतिं नाधिगमिष्यति ॥ ३.३१.४ ॥

是谁毁灭了可怕的Janasthāna,夺走了我的性命?在所有世界中,谁会找不到逃离之路呢?

3.31.5

न हि मे विप्रियं कृत्वा शक्यं मघवता सुखम्।
प्राप्तुं वैश्रवणेनापि न यमेन च विष्णुना ॥ ३.३१.५ ॥

若对我做出冒犯之事,即便是因陀罗、俱毗罗、阎摩或毗湿奴也无法获得安乐。

3.31.6

कालस्य चाप्यहं कालो दहेयमपि पावकम्।
मृत्युं मरणधर्मेण संयोजयितुमुत्सहे ॥ ३.३१.६ ॥

我即是时间中的时间;我甚至能焚烧火焰;我有能力使死亡也归于必死之性。

3.31.7

वातस्य तरसा वेगं निहन्तुमपि चोत्सहे।
दहेयमपि संक्रुद्धस्तेजसाऽऽदित्यपावकौ ॥ ३.३१.७ ॥

我甚至能止住风的疾速;若怒而发威,我以光芒便能焚烧太阳与火。

3.31.8

तथा क्रुद्धं दशग्रीवं कृताञ्जलिरकम्पनः।
भयात् संदिग्धया वाचा रावणं याचतेऽभयम् ॥ ३.३१.८ ॥

十颈的罗波那正怒气冲冲,阿堪帕那合掌而立,以因恐惧而结巴的话语,向他请求免死。

3.31.9

दशग्रीवोऽभयं तस्मै प्रददौ रक्षसां वरः।
स विस्रब्धोऽब्रवीद् वाक्यमसंदिग्धमकम्पनः ॥ ३.३१.९ ॥

十颈的罗波那,罗刹中的翘楚,赐予他庇护;得以安心,阿堪帕那便清楚而坚定地说道。

3.31.10

पुत्रो दशरथस्यास्ते सिंहसंहननो युवा।
रामो नाम महास्कन्धो वृत्तायतमहाभुजः ॥ ३.३१.१० ॥

有一位名叫罗摩的年轻人,是十车王之子,身形如狮,肩膀宽阔,双臂圆润修长而强壮。

3.31.11

श्यामः पृथुयशाः श्रीमानतुल्यबलविक्रमः।
हतस्तेन जनस्थाने खरश्च सहदूषणः ॥ ३.३१.११ ॥

那位肤色黝黑、名声远扬、威仪煌煌、力量与勇武无与伦比的人,正是在民众之地杀死了哈罗与都沙那的人。

3.31.12

अकम्पनवचः श्रुत्वा रावणो राक्षसाधिपः।
नागेन्द्र इव निःश्वस्य इदं वचनमब्रवीत् ॥ ३.३१.१२ ॥

罗刹之主罗波那听了阿堪帕那的话,如象王般长叹一声,说出了这番话。

3.31.13

स सुरेन्द्रेण संयुक्तो रामः सर्वामरैः सह।
उपयातो जनस्थानं ब्रूहि कच्चिदकम्पन ॥ ३.३१.१३ ॥

阿堪波那,请告诉我,那与众天神之王及一切不死者同来的罗摩,是否已抵达人居林?

3.31.14

रावणस्य पुनर्वाक्यं निशम्य तदकम्पनः।
आचचक्षे बलं तस्य विक्रमं च महात्मनः ॥ ३.३१.१४ ॥

阿堪波那再次听完罗波那的话,便讲述了那位大德者的力量与勇武。

3.31.15

रामो नाम महातेजाः श्रेष्ठः सर्वधनुष्मताम्।
दिव्यास्त्रगुणसम्पन्नः परं धर्मं गतो युधि ॥ ३.३१.१५ ॥

名为罗摩的大光辉者,是一切弓手中的第一人,具备神圣兵器的各种德性,在战场上已达到最高的职责。

3.31.16

तस्यानुरूपो बलवान् रक्ताक्षो दुन्दुभिस्वनः।
कनीयाँल्लक्ष्मणो भ्राता राकाशशिनिभाननः ॥ ३.३१.१६ ॥

与他力量相当、红眼、声如战鼓、面如满月的,是他的幼弟罗什曼那。

3.31.17

स तेन सह संयुक्तः पावकेनानिलो यथा।
श्रीमान् राजवरस्तेन जनस्थानं निपातितम् ॥ ३.३१.१७ ॥

他与之相连,如风与火;那位光荣的王者中的最优者,已将人居林摧毁。

3.31.18

नैव देवा महात्मानो नात्र कार्या विचारणा।
शरा रामेण तूत्सृष्टा रुक्मपुङ्खाः पतत्त्रिणः ॥ ३.३१.१८ ॥

此事不必怀疑:那些大德者并非天神。罗摩射出的金羽之箭,如同飞鸟一般飞来。

3.31.19

सर्पाः पञ्चानना भूत्वा भक्षयन्ति स्म राक्षसान्।
येन येन च गच्छन्ति राक्षसा भयकर्षिताः ॥ ३.३१.१९ ॥

它们化为五头之蛇,吞噬罗刹。罗刹因恐惧而惊慌,无论走向哪一条路,

3.31.20

तेन तेन स्म पश्यन्ति राममेवाग्रतः स्थितम्।
इत्थं विनाशितं तेन जनस्थानं तवानघ ॥ ३.३१.२० ॥

他们无论望向何方,都只见罗摩就站在面前。无瑕者啊,就这样,他摧毁了你的人众之地。

3.31.21

अकम्पनवचः श्रुत्वा रावणो वाक्यमब्रवीत्।
गमिष्यामि जनस्थानं रामं हन्तुं सलक्ष्मणम् ॥ ३.३१.२१ ॥

罗波那听了阿江般那的话,说道:

3.31.22

अथैवमुक्ते वचने प्रोवाचेदमकम्पनः।
शृणु राजन् यथावृत्तं रामस्य बलपौरुषम् ॥ ३.३१.२२ ॥

如此说完,阿江般那说道:“大王请听,罗摩的力量与勇武,一如所发生的。”

3.31.23

असाध्यः कुपितो रामो विक्रमेण महायशाः।
आपगायास्तु पूर्णाया वेगं परिहरेच्छरैः ॥ ३.३१.२३ ॥

罗摩,大名远扬,发怒时无人能敌;凭其勇武,他能以箭矢阻住满溢之河的急流。

3.31.24

सताराग्रहनक्षत्रं नभश्चाप्यवसादयेत्।
असौ रामस्तु सीदन्तीं श्रीमानभ्युद्धरेन्महीम् ॥ ३.३१.२४ ॥

他甚至能使天空连同星辰与星座坠落;而这位威光赫赫的罗摩,也能扶起正在沉没的大地。

3.31.25

भित्त्वा वेलां समुद्रस्य लोकानाप्लावयेद् विभुः।
वेगं वापि समुद्रस्य वायुं वा विधमेच्छरैः ॥ ३.३१.२५ ॥

此大能者可破海岸,淹没诸界;或以箭矢驱散海洋的怒涛,甚至吹散风势。

3.31.26

संहृत्य वा पुनर्लोकान् विक्रमेण महायशाः।
शक्तः श्रेष्ठः स पुरुषः स्रष्टुं पुनरपि प्रजाः ॥ ३.३१.२६ ॥

此大名远扬的最尊之人,凭其勇力,可收摄诸世界,又能重新创造众生。

3.31.27

नहि रामो दशग्रीव शक्यो जेतुं रणे त्वया।
रक्षसां वापि लोकेन स्वर्गः पापजनैरिव ॥ ३.३१.२७ ॥

十首之王啊,罗摩在战场上你不能战胜,罗刹之众也不能,正如恶人不能得到天界。

3.31.28

न तं वध्यमहं मन्ये सर्वैर्देवासुरैरपि।
अयं तस्य वधोपायस्तन्ममैकमनाः शृणु ॥ ३.३१.२८ ॥

我想即使天神与阿修罗合力,也不能杀他。杀他之法如下,请专心听我说。

3.31.29

भार्या तस्योत्तमा लोके सीता नाम सुमध्यमा।
श्यामा समविभक्ताङ्गी स्त्रीरत्नं रत्नभूषिता ॥ ३.३१.२९ ॥

世间他的妙妻名为悉多,腰肢纤细,肤色微黑,肢体匀称,是女中珍宝,佩戴珠宝。

3.31.30

नैव देवी न गन्धर्वी नाप्सरा न च पन्नगी।
तुल्या सीमन्तिनी तस्या मानुषी तु कुतो भवेत् ॥ ३.३१.३० ॥

无论天女、乾闼婆女、阿普萨拉还是龙女,都不及她;那凡间女子又怎能与她相比?

3.31.31

तस्यापहर भार्यां त्वं तं प्रमथ्य महावने।
सीतया रहितो रामो न चैव हि भविष्यति ॥ ३.३१.३१ ॥

在大林中击败他,夺走他的妻子。与悉多分离的罗摩将无法存活。

3.31.32

अरोचयत तद्वाक्यं रावणो राक्षसाधिपः।
चिन्तयित्वा महाबाहुरकम्पनमुवाच ह ॥ ३.३१.३२ ॥

罗刹之主罗波那认可了这番话。沉思之后,那位大臂者对阿冈帕那说道。

3.31.33

बाढं कल्यं गमिष्यामि ह्येकः सारथिना सह।
आनेष्यामि च वैदेहीमिमां हृष्टो महापुरीम् ॥ ३.३१.३३ ॥

好吧。明天我将只带一位御者前往,欣然将这位毗提诃公主带到这座大城中来。

3.31.34

तदेवमुक्त्वा प्रययौ खरयुक्तेन रावणः।
रथेनादित्यवर्णेन दिशः सर्वाः प्रकाशयन् ॥ ३.३१.३४ ॥

罗波那如此说完,乘坐以驴拉动、色如太阳的战车出发,照亮了所有方向。

3.31.35

स रथो राक्षसेन्द्रस्य नक्षत्रपथगो महान्।
चञ्चूर्यमाणः शुशुभे जलदे चन्द्रमा इव ॥ ३.३१.३५ ॥

罗刹王那辆巨大的战车沿星辰之路行进,在雨云中闪耀,如同明月。

3.31.36

स दूरे चाश्रमं गत्वा ताटकेयमुपागमत्।
मारीचेनार्चितो राजा भक्ष्यभोज्यैरमानुषैः ॥ ३.३१.३६ ॥

他远行至苦行林,来到达塔卡之子摩利遮那里,受到摩利遮以超凡美食的款待。

3.31.37

तं स्वयं पूजयित्वा तु आसनेनोदकेन च।
अर्थोपहितया वाचा मारीचो वाक्यमब्रवीत् ॥ ३.३१.३७ ॥

摩利遮亲自以座席和清水款待他,然后用意味深长的话说道:

3.31.38

कच्चित् सकुशलं राजँल्लोकानां राक्षसाधिप।
आशङ्के नाधिजाने त्वं यतस्तूर्णमुपागतः ॥ ३.३१.३८ ॥

大王,罗刹之主,诸界可都安好?你来得如此匆忙,我心中忧虑,却不知缘由。

3.31.39

एवमुक्तो महातेजा मारीचेन स रावणः।
ततः पश्चादिदं वाक्यमब्रवीद् वाक्यकोविदः ॥ ३.३१.३९ ॥

摩利遮如此说后,大光明且善于言辞的罗波那随后说道:

3.31.40

आरक्षो मे हतस्तात रामेणाक्लिष्टकारिणा।
जनस्थानमवध्यं तत् सर्वं युधि निपातितम् ॥ ३.३१.४० ॥

亲爱的朋友,我的守卫被毫不费力行事的罗摩杀死了。本不可攻破的人住地,全部在战斗中被击倒。

3.31.41

तस्य मे कुरु साचिव्यं तस्य भार्यापहारणे।
राक्षसेन्द्रवचः श्रुत्वा मारीचो वाक्यमब्रवीत् ॥ ३.३१.४१ ॥

请助我劫走他的妻子。摩利遮听罢罗刹之主的这番话,便说道:

3.31.42

आख्याता केन वा सीता मित्ररूपेण शत्रुणा।
त्वया राक्षसशार्दूल को न नन्दति नन्दितः ॥ ३.३१.४२ ॥

罗刹中的猛虎啊,是哪个以朋友面目出现的敌人向你说起悉多的?你欢喜时,谁会不欢喜呢?

3.31.43

सीतामिहानयस्वेति को ब्रवीति ब्रवीहि मे।
रक्षोलोकस्य सर्वस्य कः शृङ्गं छेत्तुमिच्छति ॥ ३.३१.४३ ॥

谁说"把悉多带来这里"?告诉我。谁想斩断整个罗刹世界的顶峰?

3.31.44

प्रोत्साहयति यश्च त्वां स च शत्रुरसंशयम्।
आशीविषमुखाद् दंष्ट्रामुद्धर्तुं चेच्छति त्वया ॥ ३.३१.४४ ॥

激励你的人,无疑是敌人;想借你之手从毒蛇口中拔出毒牙的人,也是如此。

3.31.45

कर्मणानेन केनासि कापथं प्रतिपादितः।
सुखसुप्तस्य ते राजन् प्रहृतं केन मूर्धनि ॥ ३.३१.४५ ॥

大王啊!是谁让你因此行而走上邪路?是谁击中了安睡中的你的头颅?

3.31.46

विशुद्धवंशाभिजनाग्रहस्त-
तेजोमदः संस्थितदोर्विषाणः।
उदीक्षितुं रावण नेह युक्तः
स संयुगे राघवगन्धहस्ती ॥ ३.३१.४६ ॥

罗波那啊!那位罗怙王族的英雄,如同发情的象王,出身纯正高贵,以光辉自傲,双臂如象牙般坚实,只应在战场上去仰望,不应在此。

3.31.47

असौ रणान्तःस्थितिसंधिवालो
विदग्धरक्षोमृगहा नृसिंहः।
सुप्तस्त्वया बोधयितुं न शक्यः
शराङ्गपूर्णो निशितासिदंष्ट्रः ॥ ३.३१.४७ ॥

他屹立于战斗的尽头,尾如和约的关节;他是杀死罗刹那些狡猾猛兽的人狮。沉睡之时你无法唤醒他——身满箭矢,獠牙如利剑。

3.31.48

चापापहारे भुजवेगपङ्के
शरोर्मिमाले सुमहाहवौघे।
न रामपातालमुखेऽतिघोरे
प्रस्कन्दितुं राक्षसराज युक्तम् ॥ ३.३१.४८ ॥

罗刹之王啊!跃入罗摩那深渊之口——那最可怖之处,弓被夺去,陷于臂力的泥沼,缠绕着箭浪的花环,大战的洪流——对你并不相宜。

3.31.49

प्रसीद लङ्केश्वर राक्षसेन्द्र
लङ्कां प्रसन्नो भव साधु गच्छ।
त्वं स्वेषु दारेषु रमस्व नित्यं
रामः सभार्यो रमतां वनेषु ॥ ३.३१.४९ ॥

请息怒吧,楞伽之主,罗刹之王。请安心,妥善返回楞伽。愿你永远在自己的妻妾中寻欢;愿罗摩与他的妻子在森林中快乐。

3.31.50

एवमुक्तो दशग्रीवो मारीचेन स रावणः।
न्यवर्तत पुरीं लङ्कां विवेश च गृहोत्तमम् ॥ ३.३१.५० ॥

摩利架如此说罢,那十首罗波那便转身返回,进入楞伽城,走进了最好的宫室。