蚁垤《罗摩衍那》 · 篇 3.32
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.32.1
ततः शूर्पणखा दृष्ट्वा सहस्राणि चतुर्दश।
हतान्येकेन रामेण रक्षसां भीमकर्मणाम् ॥ ३.३२.१ ॥
此时,首哩潘那卡看见十四千名行可怖之事的罗刹被罗摩一人杀死。
3.32.2
दूषणं च खरं चैव हतं त्रिशिरसं रणे।
दृष्ट्वा पुनर्महानादान् ननाद जलदोपमा ॥ ३.३२.२ ॥
她见杜沙那、哈罗和三首在战场上被杀,便如云雨般再次发出巨大的吼叫。
3.32.3
सा दृष्ट्वा कर्म रामस्य कृतमन्यैः सुदुष्करम्।
जगाम परमोद्विग्ना लङ्कां रावणपालिताम् ॥ ३.३२.३ ॥
她看见罗摩所作之事,对他人而言极为艰难,心中极度惶恐,便前往罗波那所守护的楞伽城。
3.32.4
सा ददर्श विमानाग्रे रावणं दीप्ततेजसम्।
उपोपविष्टं सचिवैर्मरुद्भिरिव वासवम् ॥ ३.३२.४ ॥
她在飞行宫殿的顶上看见了光辉灿烂的罗波那,他与众大臣同坐,如因陀罗在诸风神之中。
3.32.5
आसीनं सूर्यसंकाशे काञ्चने परमासने।
रुक्मवेदिगतं प्राज्यं ज्वलन्तमिव पावकम् ॥ ३.३२.५ ॥
他坐在如太阳般的金色至尊宝座上,置于金色祭坛之中,光辉如熊熊燃烧的大火。
3.32.6
देवगन्धर्वभूतानामृषीणां च महात्मनाम्।
अजेयं समरे घोरं व्यात्ताननमिवान्तकम् ॥ ३.३२.६ ॥
即使对天神、乾闼婆、诸灵与大德仙人而言,他在战场上也不可战胜,可怖如张口的死神。
3.32.7
देवासुरविमर्देषु वज्राशनिकृतव्रणम्।
ऐरावतविषाणाग्रैरुत्कृष्टकिणवक्षसम् ॥ ३.३२.७ ॥
在天神与阿修罗的战斗中被金刚杵与雷电所伤,胸前留有象王爱罗婆多獠牙尖端造成的隆起伤痕。
3.32.8
विंशद्भुजं दशग्रीवं दर्शनीयपरिच्छदम्।
विशालवक्षसं वीरं राजलक्षणलक्षितम् ॥ ३.३२.८ ॥
那位二十臂十颈的英雄,衣饰华美,胸膛宽阔,身具王者之相。
3.32.9
नद्धवैदूर्यसंकाशं तप्तकाञ्चनभूषणम्।
सुभुजं शुक्लदशनं महास्यं पर्वतोपमम् ॥ ३.३२.९ ॥
光彩如镶嵌的青金石,佩戴赤金饰物,双臂俊美,牙齿洁白,口大,如山一般。
3.32.10
विष्णुचक्रनिपातैश्च शतशो देवसंयुगे।
अन्यैः शस्त्रैः प्रहारैश्च महायुद्धेषु ताडितम् ॥ ३.३२.१० ॥
在与天神的战斗中,被毗湿奴之轮的落下打击了数百次,在大战中又被其他兵器与打击所伤。
3.32.11
अहताङ्गैः समस्तैस्तं देवप्रहरणैस्तदा।
अक्षोभ्याणां समुद्राणां क्षोभणं क्षिप्रकारिणम् ॥ ३.३२.११ ॥
那时,他的肢体并未全被天神的兵器所伤;他能搅动连不动的大海,行动迅捷。
3.32.12
क्षेप्तारं पर्वताग्राणां सुराणां च प्रमर्दनम्।
उच्छेत्तारं च धर्माणां परदाराभिमर्शनम् ॥ ३.३२.१२ ॥
投掷山峰者,摧毁天神者,毁坏法度者,染指他人之妻者。
3.32.13
सर्वदिव्यास्त्रयोक्तारं यज्ञविघ्नकरं सदा।
पुरीं भोगवतीं गत्वा पराजित्य च वासुकिम् ॥ ३.३२.१३ ॥
精通一切神圣兵器、总是阻挠祭祀的他,前往薄伽婆提城并击败了婆苏吉——
3.32.14
तक्षकस्य प्रियां भार्यां पराजित्य जहार यः।
कैलासं पर्वतं गत्वा विजित्य नरवाहनम् ॥ ३.३२.१४ ॥
击败并掳走了德叉迦所爱之妻的他,前往凯拉萨山并征服了那罗婆诃那——
3.32.15
विमानं पुष्पकं तस्य कामगं वै जहार यः।
वनं चैत्ररथं दिव्यं नलिनीं नन्दनं वनम् ॥ ३.३२.१५ ॥
夺取了随意而行的飞行车普什帕卡的他,还夺取了神圣的恒车林、那利尼和难陀园——
3.32.16
विनाशयति यः क्रोधाद् देवोद्यानानि वीर्यवान्।
चन्द्रसूर्यौ महाभागावुत्तिष्ठन्तौ परंतपौ ॥ ३.३२.१६ ॥
这位勇猛者因愤怒摧毁天神的园林;还阻拦升起的月亮与太阳,二者大福大德,能煎熬敌人——
3.32.17
निवारयति बाहुभ्यां यः शैलशिखरोपमः।
दशवर्षसहस्राणि तपस्तप्त्वा महावने ॥ ३.३२.१७ ॥
他如山峰一般,以双臂阻挡它们;他曾在大森林中修苦行一万年——
3.32.18
पुरा स्वयंभुवे धीरः शिरांस्युपजहार यः।
देवदानवगन्धर्वपिशाचपतगोरगैः ॥ ३.३२.१८ ॥
昔日曾向自生者(梵天)献上头颅的那位坚毅者——所取的头颅来自天神、檀那婆、乾闼婆、毗舍遮、飞鸟与蛇类。
3.32.19
अभयं यस्य संग्रामे मृत्युतो मानुषादृते।
मन्त्रैरभिष्टुतं पुण्यमध्वरेषु द्विजातिभिः ॥ ३.३२.१९ ॥
在战斗中,除人之外不惧死亡的他,在祭祀中被再生者以神圣的咒语所赞颂。
3.32.20
हविर्धानेषु यः सोममुपहन्ति महाबलः।
प्राप्तयज्ञहरं दुष्टं ब्रह्मघ्नं क्रूरकारिणम् ॥ ३.३२.२० ॥
在供物台上摧毁苏摩的大力者,夺取到来祭祀的恶人,杀害婆罗门者,行残酷之事者。
3.32.21
कर्कशं निरनुक्रोशं प्रजानामहिते रतम्।
रावणं सर्वभूतानां सर्वलोकभयावहम् ॥ ३.३२.२१ ॥
罗波那,冷酷无情,喜好伤害众生,给一切众生与一切世界带来恐惧。
3.32.22
राक्षसी भ्रातरं क्रूरं सा ददर्श महाबलम्।
तं दिव्यवस्त्राभरणं दिव्यमाल्योपशोभितम् ॥ ३.३२.२२ ॥
这位罗刹女看见她那残酷而强大的兄长,身披天界衣饰,佩戴天界花环,光彩照人。
3.32.23
आसने सूपविष्टं तं काले कालमिवोद्यतम्।
राक्षसेन्द्रं महाभागं पौलस्त्यकुलनन्दनम् ॥ ३.३२.२३ ॥
她看见他安坐于宝座之上,犹如时至而起的死神,罗刹之王,极其有福,乃补罗斯底耶族的欢喜。
3.32.24
उपगम्याब्रवीद् वाक्यं राक्षसी भयविह्वला।
रावणं शत्रुहन्तारं मन्त्रिभिः परिवारितम् ॥ ३.३२.२४ ॥
这位惊恐万分的罗刹女走近,对被大臣环绕的灭敌者罗波那说出了这些话。
3.32.25
तमब्रवीद् दीप्तविशाललोचनं
प्रदर्शयित्वा भयलोभमोहिता।
सुदारुणं वाक्यमभीतचारिणी
महात्मना शूर्पणखा विरूपिता ॥ ३.३२.२५ ॥
被恐惧与贪欲迷惑的首哩波那迦,展示着被毁坏的形体,无畏地走近,对那双目明亮宽阔者说了极为严厉的话。