Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 3.35

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.35.1

ततः शूर्पणखावाक्यं तच्छ्रुत्वा रोमहर्षणम्।
सचिवानभ्यनुज्ञाय कार्यं बुद्ध्वा जगाम ह ॥ ३.३५.१ ॥

于是,他听了舍尔帕纳卡的令人毛骨悚然的话语,向大臣们告别,明白了事情的缘由,便离去了。

3.35.2

तत् कार्यमनुगम्यान्तर्यथावदुपलभ्य च।
दोषाणां च गुणानां च सम्प्रधार्य बलाबलम् ॥ ३.३५.२ ॥

他在心中仔细考察了那件事,如实地认识了它,并权衡了过失与功德、强与弱。

3.35.3

स्थिरबुद्धिस्ततो रम्यां यानशालां जगाम ह ॥ ३.३५.३ ॥

于是意志坚定的他前往那华美的车库。

3.35.4

यानशालां ततो गत्वा प्रच्छन्नं राक्षसाधिपः।
सूतं संचोदयामास रथः संयुज्यतामिति ॥ ३.३५.४ ॥

随后他来到车库,罗刹之主暗中催促御者:“让车套上吧。”

3.35.5

एवमुक्तः क्षणेनैव सारथिर्लघुविक्रमः।
रथं संयोजयामास तस्याभिमतमुत्तमम् ॥ ३.३५.५ ॥

他一经吩咐,身手敏捷的御者立刻套好了他中意的上等战车。

3.35.6

कामगं रथमास्थाय काञ्चनं रत्नभूषितम्।
पिशाचवदनैर्युक्तं खरैः कनकभूषणैः ॥ ३.३५.६ ॥

他登上了那辆金色的、镶满宝石的战车,此车随意而行,拉车的是长着夜叉面孔、饰有金饰的驴。

3.35.7

मेघप्रतिमनादेन स तेन धनदानुजः।
राक्षसाधिपतिः श्रीमान् ययौ नदनदीपतिम् ॥ ३.३५.७ ॥

他以如雷鸣般的声响,乘着那辆车,作为财神俱毗罗的弟弟、罗刹的威严之主,前往江河之主——大海。

3.35.8

स श्वेतवालव्यजनः श्वेतच्छत्रो दशाननः।
स्निग्धवैदूर्यसंकाशस्तप्तकाञ्चनभूषणः ॥ ३.३५.८ ॥

十首罗波那手持白色牦牛尾拂,头顶白伞,闪耀如光滑的青金石,身饰锻炼过的黄金饰物。

3.35.9

दशग्रीवो विंशतिभुजो दर्शनीयपरिच्छदः।
त्रिदशारिर्मुनीन्द्रघ्नो दशशीर्ष इवाद्रिराट् ॥ ३.३५.९ ॥

十颈二十臂,装束引人注目,是诸天的敌人,杀害大仙的人,他仿佛拥有十头的山王一般。

3.35.10

कामगं रथमास्थाय शुशुभे राक्षसाधिपः।
विद्युन्मण्डलवान् मेघः सबलाक इवाम्बरे ॥ ३.३५.१० ॥

他登上随意而行的战车,闪耀如围绕闪电的云,天空中还有白鹤相伴。

3.35.11

सशैलसागरानूपं वीर्यवानवलोकयन्।
नानापुष्पफलैर्वृक्षैरनुकीर्णं सहस्रशः ॥ ३.३५.११ ॥

这位威猛者一路观看那片土地,山岳、大海与海岸相连,成千上万的树木遍布,开满各色花朵、结满各样果实。

3.35.12

शीतमङ्गलतोयाभिः पद्मिनीभिः समन्ततः।
विशालैराश्रमपदैर्वेदिमद्भिरलंकृतम् ॥ ३.३५.१२ ॥

四周装点着莲花池,池水清凉吉祥,又有宽阔的仙人住处,设有祭坛。

3.35.13

कदल्यटविसंशोभं नारिकेलोपशोभितम्।
सालैस्तालैस्तमालैश्च तरुभिश्च सुपुष्पितैः ॥ ३.३५.१३ ॥

这里被芭蕉林装点,又以椰子树为饰,并有娑罗树、棕榈、多摩罗及其他盛开的树木点缀。

3.35.14

अत्यन्तनियताहारैः शोभितं परमर्षिभिः।
नागैः सुपर्णैर्गन्धर्वैः किंनरैश्च सहस्रशः ॥ ३.३५.१४ ॥

这里有成千上万严守饮食节制的大仙人,以及那伽、金翅鸟(迦卢荼)、乾闼婆和紧那罗,使其增添光彩。

3.35.15

जितकामैश्च सिद्धैश्च चारणैश्चोपशोभितम्।
आजैर्वैखानसैर्माषैर्वालखिल्यैर्मरीचिपैः ॥ ३.३५.१५ ॥

这里有战胜欲望的悉陀、遮罗那,以及阿阇、韦卡纳萨、摩沙、伐罗基利亚和摩里伽比等仙人,使其增添光彩。

3.35.16

दिव्याभरणमाल्याभिर्दिव्यरूपाभिरावृतम्।
क्रीडारतविधिज्ञाभिरप्सरोभिः सहस्रशः ॥ ३.३५.१६ ॥

这里被成千上万的天女环绕,她们佩戴天界的饰物与花环,容貌非凡,精通嬉戏与爱欲之道。

3.35.17

सेवितं देवपत्नीभिः श्रीमतीभिरुपासितम्।
देवदानवसङ्घैश्च चरितं त्वमृताशिभिः ॥ ३.३५.१७ ॥

这里有诸神的妻子侍奉,那些光彩照人的女子崇敬它,又有以甘露为食的天神与阿修罗群聚往来。

3.35.18

हंसक्रौञ्चप्लवाकीर्णं सारसैः सम्प्रसादितम्।
वैदूर्यप्रस्तरं स्निग्धं सान्द्रं सागरतेजसा ॥ ३.३५.१८ ॥

这里水鸟、天鹅与白鹤密集,又有沙罗鹤使其欢喜,地面光滑而致密如吠琉璃宝石,并具有大海般的光辉。

3.35.19

पाण्डुराणि विशालानि दिव्यमाल्ययुतानि च।
तूर्यगीताभिजुष्टानि विमानानि समन्ततः ॥ ३.३५.१९ ॥

四周有宽大洁白的天车,装饰着神圣的花环,充满了乐器与歌声。

3.35.20

तपसा जितलोकानां कामगान्यभिसम्पतन्।
गन्धर्वाप्सरसश्चैव ददर्श धनदानुजः ॥ ३.३५.२० ॥

那些以苦行征服诸界、可随意飞行的仙众飞近而来;财神之弟看见了乾闼婆与阿普萨拉斯。

3.35.21

निर्यासरसमूलानां चन्दनानां सहस्रशः।
वनानि पश्यन् सौम्यानि घ्राणतृप्तिकराणि च ॥ ३.३५.२१ ॥

他观看着成千上万片宜人的檀香林,其根与汁液富含树脂,令人嗅觉满足。

3.35.22

अगुरूणां च मुख्यानां वनान्युपवनानि च।
तक्कोलानां च जात्यानां फलिनां च सुगन्धिनाम् ॥ ३.३५.२२ ॥

沉香树的主要森林与园林,多伽罗树和茉莉树的林地,以及芬芳的果树园。

3.35.23

पुष्पाणि च तमालस्य गुल्मानि मरिचस्य च।
मुक्तानां च समूहानि शुष्यमाणानि तीरतः ॥ ३.३५.२३ ॥

多摩罗树的花朵,胡椒的灌丛,以及在岸边晾干的珍珠堆。

3.35.24

शैलानि प्रवरांश्चैव प्रवालनिचयांस्तथा।
काञ्चनानि च शृङ्गाणि राजतानि तथैव च ॥ ३.३५.२४ ॥

壮丽的山峦、珊瑚堆、金色的山峰,以及银色的山峰。

3.35.25

प्रस्रवाणि मनोज्ञानि प्रसन्नान्यद्भुतानि च।
धनधान्योपपन्नानि स्त्रीरत्नैरावृतानि च ॥ ३.३५.२५ ॥

清澈奇妙、令人喜爱的泉流;富有财富与谷物,也环绕着如珠宝般的女子。

3.35.26

हस्त्यश्वरथगाढानि नगराणि विलोकयन्।
तं समं सर्वतः स्निग्धं मृदुसंस्पर्शमारुतम् ॥ ३.३५.२६ ॥

他一路观看那些车马象群充斥的城市;四面吹拂着平和、柔软、触感温柔的微风。

3.35.27

अनूपे सिन्धुराजस्य ददर्श त्रिदिवोपमम्।
तत्रापश्यत् स मेघाभं न्यग्रोधं मुनिभिर्वृतम् ॥ ३.३५.२७ ॥

在信度王的沼泽之地,他看到一处如同天界的所在;那里有一棵如云般颜色的榕树,被众多仙人环绕。

3.35.28

समन्ताद् यस्य ताः शाखाः शतयोजनमायताः।
यस्य हस्तिनमादाय महाकायं च कच्छपम् ॥ ३.३५.२८ ॥

其枝条四面延伸达百由旬,它曾抓住一头庞大的象和一只龟。

3.35.29

भक्षार्थं गरुडः शाखामाजगाम महाबलः।
तस्य तां सहसा शाखां भारेण पतगोत्तमः ॥ ३.३५.२९ ॥

为了食物,大力的金翅鸟来到那根树枝上;众鸟之王以其重量,突然……

3.35.30

सुपर्णः पर्णबहुलां बभञ्जाथ महाबलः।
तत्र वैखानसा माषा वालखिल्या मरीचिपाः ॥ ३.३५.३० ॥

于是大力的苏波那(金翅鸟)折断了那满是树叶的枝条。那里住着伽那(Vaikhānasa)、摩沙(Māṣa)、婆罗希利耶(Vālakhilya)与摩利支饮者(Marīcipa)等仙人。

3.35.31

आजा बभूवुर्धूम्राश्च संगताः परमर्षयः।
तेषां दयार्थं गरुडस्तां शाखां शतयोजनाम् ॥ ३.३५.३१ ॥

那里聚集着山羊和灰烟色的大仙人。出于对他们的怜悯,迦鲁达举起了那根长达百由旬的树枝。

3.35.32

भग्नामादाय वेगेन तौ चोभौ गजकच्छपौ।
एकपादेन धर्मात्मा भक्षयित्वा तदामिषम् ॥ ३.३५.३२ ॥

迦鲁达迅速衔起折断的树枝,连同大象和乌龟两者,这位正直的鸟王单脚站立,然后吃掉了它们的肉。

3.35.33

निषादविषयं हत्वा शाखया पतगोत्तमः।
प्रहर्षमतुलं लेभे मोक्षयित्वा महामुनीन् ॥ ३.३५.३३ ॥

最优秀的鸟王迦鲁达用那树枝打击尼沙陀之地,解救了大仙人,获得了无比的喜悦。

3.35.34

स तु तेन प्रहर्षेण द्विगुणीकृतविक्रमः।
अमृतानयनार्थं वै चकार मतिमान् मतिम् ॥ ३.३५.३४ ॥

因那份喜悦,他的勇力加倍;智慧的迦鲁达决心取来不死的甘露。

3.35.35

अयोजालानि निर्मथ्य भित्त्वा रत्नगृहं वरम्।
महेन्द्रभवनाद् गुप्तमाजहारामृतं ततः ॥ ३.३५.३५ ॥

他冲破铁网,劈开上好的珍宝殿,随即取来了因陀罗宫中守护着的甘露。

3.35.36

तं महर्षिगणैर्जुष्टं सुपर्णकृतलक्षणम्।
नाम्ना सुभद्रं न्यग्रोधं ददर्श धनदानुजः ॥ ३.३५.३६ ॥

那棵名为苏跋陀罗的榕树,常有大仙人群聚,并带有迦鲁达的标记,被财神的幼弟看见了。

3.35.37

तं तु गत्वा परं पारं समुद्रस्य नदीपतेः।
ददर्शाश्रममेकान्ते पुण्ये रम्ये वनान्तरे ॥ ३.३५.३७ ॥

他抵达大海的彼岸,即河流之主的岸边,在一处幽静、神圣而秀丽的林中,看见一座修行者的静院。

3.35.38

तत्र कृष्णाजिनधरं जटामण्डलधारिणम्।
ददर्श नियताहारं मारीचं नाम राक्षसम् ॥ ३.३५.३८ ॥

他在那里看见一名名叫摩利遮的罗刹,身披黑羚羊皮,头结成束的发辫,饮食有所节制。

3.35.39

स रावणः समागम्य विधिवत् तेन रक्षसा।
मारीचेनार्चितो राजा सर्वकामैरमानुषैः ॥ ३.३५.३९ ॥

罗波那依礼来到他面前,那罗刹摩利遮以超凡的各种享受款待了他。

3.35.40

तं स्वयं पूजयित्वा च भोजनेनोदकेन च।
अर्थोपहितया वाचा मारीचो वाक्यमब्रवीत् ॥ ३.३५.४० ॥

他亲自以饮食和清水款待了罗波那,摩利遮便以有所图谋的言辞说出了这番话。

3.35.41

कच्चित्ते कुशलं राजन् लङ्कायां राक्षसेश्वर।
केनार्थेन पुनस्त्वं वै तूर्णमेव इहागतः ॥ ३.३५.४१ ॥

大王,罗刹之主,你在楞伽可安好?你为了何事又如此匆忙地来到这里?

3.35.42

एवमुक्तो महातेजा मारीचेन स रावणः।
ततः पश्चादिदं वाक्यमब्रवीद् वाक्यकोविदः ॥ ३.३५.४२ ॥

摩利遮如此发问之后,那位大光明、善于言辞的罗波那随后说出了这些话。