Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 3.37

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.37.1

तच्छ्रुत्वा राक्षसेन्द्रस्य वाक्यं वाक्यविशारदः।
प्रत्युवाच महातेजा मारीचो राक्षसेश्वरम् ॥ ३.३७.१ ॥

罗刹之主的这番话听罢,言辞娴熟、光辉赫赫的摩利支回答了罗刹之王。

3.37.2

सुलभाः पुरुषा राजन् सततं प्रियवादिनः।
अप्रियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभः ॥ ३.३७.२ ॥

大王啊,常说悦耳之言的人容易找到;但说出逆耳却有益之言的人,以及肯听的人,却很稀少。

3.37.3

न नूनं बुध्यसे रामं महावीर्यगुणोन्नतम्।
अयुक्तचारश्चपलो महेन्द्रवरुणोपमम् ॥ ३.३७.३ ॥

你当然不了解罗摩——他因伟大的勇武之德而崇高;你行事不当、轻率浮躁,不了解这位与因陀罗、伐楼那相似的人。

3.37.4

अपि स्वस्ति भवेत् तात सर्वेषामपि रक्षसाम्।
अपि रामो न संक्रुद्धः कुर्याल्लोकानराक्षसान् ॥ ३.३७.४ ॥

孩子啊,所有罗刹还会有平安吗?罗摩若是震怒,岂不会让诸界再无罗刹?

3.37.5

अपि ते जीवितान्ताय नोत्पन्ना जनकात्मजा।
अपि सीतानिमित्तं च न भवेद् व्यसनं महत् ॥ ३.३७.५ ॥

难道遮那伽之女不是为你的生命终结而生的吗?因悉多之故,岂不会降下大难?

3.37.6

अपि त्वामीश्वरं प्राप्य कामवृत्तं निरङ्कुशम्।
न विनश्येत् पुरी लङ्का त्वया सह सराक्षसा ॥ ३.३७.६ ॥

你这随欲而行、毫无节制的人做了君主,罗刹城楞伽岂不会与你和众罗刹一同毁灭吗?

3.37.7

त्वद्विधः कामवृत्तो हि दुःशीलः पापमन्त्रितः।
आत्मानं स्वजनं राष्ट्रं स राजा हन्ति दुर्मतिः ॥ ३.३७.७ ॥

像你这样受欲望驱使、品行不端、听信恶计的昏庸君王,会毁灭自己、他的子民和他的国家。

3.37.8

न च पित्रा परित्यक्तो नामर्यादः कथंचन।
न लुब्धो न च दुःशीलो न च क्षत्रियपांसनः ॥ ३.३७.८ ॥

他绝不曾被父亲抛弃;他没有失去礼法,不贪婪,品行不端,也不是刹帝利种姓的污点。

3.37.9

न च धर्मगुणैर्हीनः कौसल्यानन्दवर्धनः।
न च तीक्ष्णो हि भूतानां सर्वभूतहिते रतः ॥ ३.३७.९ ॥

他并非缺乏法德;他是增添憍萨罗雅喜悦的人;他对众生并不严厉,而是喜爱众生的福祉。

3.37.10

वञ्चितं पितरं दृष्ट्वा कैकेय्या सत्यवादिनम्।
करिष्यामीति धर्मात्मा ततः प्रव्रजितो वनम् ॥ ३.३७.१० ॥

看到说真话的父亲被凯刻yī欺骗,这位德行高尚的人心想:“我会去做。”于是他便前往森林。

3.37.11

कैकेय्याः प्रियकामार्थं पितुर्दशरथस्य च।
हित्वा राज्यं च भोगांश्च प्रविष्टो दण्डकावनम् ॥ ३.३७.११ ॥

为了满足凯刻yī心爱的愿望,并为了父亲十车王,他舍弃王位和享乐,进入了檀陀迦森林。

3.37.12

न रामः कर्कशस्तात नाविद्वान् नाजितेन्द्रियः।
अनृतं न श्रुतं चैव नैव त्वं वक्तुमर्हसि ॥ ३.३७.१२ ॥

罗摩并不严厉,尊者;他不无知,也不是不能克制感官的人。关于他从未听闻有谎言,你也不应当说出这样的话。

3.37.13

रामो विग्रहवान् धर्मः साधुः सत्यपराक्रमः।
राजा सर्वस्य लोकस्य देवानामिव वासवः ॥ ३.३७.१३ ॥

罗摩是化身的法,善良,以真实为其勇力;他是整个世界的君王,如同因陀罗是诸神之王。

3.37.14

कथं नु तस्य वैदेहीं रक्षितां स्वेन तेजसा।
इच्छसे प्रसभं हर्तुं प्रभामिव विवस्वतः ॥ ३.३७.१४ ॥

那么,你怎能想要强行夺取被他自己光辉所守护的毗提诃公主,如同有人想夺取太阳的光芒?

3.37.15

शरार्चिषमनाधृष्यं चापखड्गेन्धनं रणे।
रामाग्निं सहसा दीप्तं न प्रवेष्टुं त्वमर्हसि ॥ ३.३७.१५ ॥

你不应突然闯入罗摩之火:其焰为箭矢,不可侵犯,在战场上以弓剑为薪而熊熊燃烧。

3.37.16

धनुर्व्यादितदीप्तास्यं शरार्चिषममर्षणम्।
चापबाणधरं तीक्ष्णं शत्रुसेनापहारिणम् ॥ ३.३७.१६ ॥

罗摩:以弓张开燃烧的口,其焰为箭矢,不宽恕,手持弓箭,凌厉,夺取敌军。

3.37.17

राज्यं सुखं च संत्यज्य जीवितं चेष्टमात्मनः।
नात्यासादयितुं तात रामान्तकमिहार्हसि ॥ ३.३७.१७ ॥

亲爱的,你舍弃王国与快乐,以及你所珍爱的生命,不应在此靠近罗摩这位死神。

3.37.18

अप्रमेयं हि तत्तेजो यस्य सा जनकात्मजा।
न त्वं समर्थस्तां हर्तुं रामचापाश्रयां वने ॥ ३.३७.१८ ॥

他的光辉不可估量,而她是阁那迦之女。你无力夺取她——她在森林中受罗摩之弓的庇护。

3.37.19

तस्य वै नरसिंहस्य सिंहोरस्कस्य भामिनी।
प्राणेभ्योऽपि प्रियतरा भार्या नित्यमनुव्रता ॥ ३.३७.१९ ॥

她是那位人中狮子、狮子胸膛的英雄的光辉妻子,比生命更爱,始终忠贞相随。

3.37.20

न सा धर्षयितुं शक्या मैथिल्योजस्विनः प्रिया।
दीप्तस्येव हुताशस्य शिखा सीता सुमध्यमा ॥ ३.३७.२० ॥

她是弥提罗的公主,那位强大者所爱之人,不可被侵犯;纤腰的悉多如同熊熊烈火的火焰。

3.37.21

किमुद्यमं व्यर्थमिमं कृत्वा ते राक्षसाधिप।
दृष्टश्चेत् त्वं रणे तेन तदन्तमुपजीवितम् ॥ ३.३७.२१ ॥

罗刹之王啊,你何必做这徒劳之事?若在战场上他看见你,你赖以生存的根基便会在那里终结。

3.37.22

जीवितं च सुखं चैव राज्यं चैव सुदुर्लभम्।
यदीच्छसि चिरं भोक्तुं मा कृथा रामविप्रियम् ॥ ३.३७.२२ ॥

若你想长久享有生命、幸福与极难获得的王国,就不要做令罗摩不悦之事。

3.37.23

स सर्वैः सचिवैः सार्धं विभीषणपुरस्कृतैः।
मन्त्रयित्वा स धर्मिष्ठैः कृत्वा निश्चयमात्मनः।
दोषाणां च गुणानां च सम्प्रधार्य बलाबलम् ॥ ३.३७.२३ ॥

他与以维毗沙那为首的所有正直大臣商议,自己做出决断,并仔细权衡了过失与优点、强弱之势。

3.37.24

आत्मनश्च बलं ज्ञात्वा राघवस्य च तत्त्वतः।
हितं हि तव निश्चित्य क्षमं त्वं कर्तुमर्हसि ॥ ३.३७.२४ ॥

若你真正了解自己的力量与罗怙之子(罗摩)的力量,又确定什么对你有益,你就应当做适宜之事。

3.37.25

अहं तु मन्ये तव न क्षमं रणे
समागमं कोसलराजसूनुना।
इदं हि भूयः शृणु वाक्यमुत्तमं
क्षमं च युक्तं च निशाचराधिप ॥ ३.३७.२५ ॥

然而我认为,你与拘萨罗国王之子在战场上相遇是不合适的。夜行者之主啊,请再听这句至善之言;它恰当而合理。