蚁垤《罗摩衍那》 · 篇 3.38
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.38.1
कदाचिदप्यहं वीर्यात् पर्यटन् पृथिवीमिमाम्।
बलं नागसहस्रस्य धारयन् पर्वतोपमः ॥ ३.३८.१ ॥
我凭借勇力漫游此地,承载千头象的力量,如同山岳一般。
3.38.2
नीलजीमूतसंकाशस्तप्तकाञ्चनकुण्डलः।
भयं लोकस्य जनयन् किरीटी परिघायुधः ॥ ३.३८.२ ॥
如同蓝色雷云,戴着熔金耳环,头戴宝冠,手持铁棍,给世间带来恐惧。
3.38.3
व्यचरन् दण्डकारण्यमृषिमांसानि भक्षयन्।
विश्वामित्रोऽथ धर्मात्मा मद्वित्रस्तो महामुनिः ॥ ३.३८.३ ॥
我在檀陀迦森林中游荡,吞食仙人的血肉,正直的大仙毗首密多罗因我而惊恐。
3.38.4
स्वयं गत्वा दशरथं नरेन्द्रमिदमब्रवीत्।
अयं रक्षतु मां रामः पर्वकाले समाहितः ॥ ३.३८.४ ॥
他亲自前往国王十车王处,说道:"愿这位罗摩在祭祀之时专心守护我。"
3.38.5
मारीचान्मे भयं घोरं समुत्पन्नं नरेश्वर।
इत्येवमुक्तो धर्मात्मा राजा दशरथस्तदा ॥ ३.३८.५ ॥
"人主啊!我因摩利制(Mārīca)而生起了可怕的恐惧。"如此说后,正直的国王十车王便——
3.38.6
प्रत्युवाच महाभागं विश्वामित्रं महामुनिम्।
ऊनद्वादशवर्षोऽयमकृतास्त्रश्च राघवः ॥ ३.३८.६ ॥
他回答大福的大仙毗首密多罗说:"这位罗怙之裔尚未满十二岁,还未学习武艺。"
3.38.7
कामं तु मम तत् सैन्यं मया सह गमिष्यति।
बलेन चतुरङ्गेण स्वयमेत्य निशाचरम् ॥ ३.३८.७ ॥
我的大军以四军之力将与我同行;我将亲自前往,迎战那夜行的罗刹。
3.38.8
वधिष्यामि मुनिश्रेष्ठ शत्रुं तव यथेप्सितम्।
एवमुक्तः स तु मुनी राजानमिदमब्रवीत् ॥ ३.३८.८ ॥
众仙之中最上者啊,我将依你所愿,诛杀你的敌人。那位仙人听后,对国王说了这番话。
3.38.9
रामान्नान्यद् बलं लोके पर्याप्तं तस्य रक्षसः।
देवतानामपि भवान् समरेष्वभिपालकः ॥ ३.३८.९ ॥
在这世上,除了罗摩之力,再无别的力量足以对付那罗刹;而你在战场上,甚至是诸神的守护者。
3.38.10
आसीत् तव कृतं कर्म त्रिलोकविदितं नृप।
काममस्ति महत् सैन्यं तिष्ठत्विह परंतप ॥ ३.३८.१० ॥
国王啊,你的功业闻名三界。你确有庞大的军队;愿它留在此处,焚敌者啊。
3.38.11
बालोऽप्येष महातेजाः समर्थस्तस्य निग्रहे।
गमिष्ये राममादाय स्वस्ति तेऽस्तु परंतप ॥ ३.३८.११ ॥
即便这位光辉赫赫的少年,也足以制服他。焚敌者啊,我将带罗摩前往;愿你平安吉祥。
3.38.12
इत्येवमुक्त्वा स मुनिस्तमादाय नृपात्मजम्।
जगाम परमप्रीतो विश्वामित्रः स्वमाश्रमम् ॥ ३.३८.१२ ॥
那位仙人如此说罢,带着王子,心中十分欢喜,毗首密多罗便回到自己的仙舍去了。
3.38.13
तं तथा दण्डकारण्ये यज्ञमुद्दिश्य दीक्षितम्।
बभूवोपस्थितो रामश्चित्रं विस्फारयन् धनुः ॥ ३.३८.१३ ॥
在檀陀迦森林中,罗摩来到正为祭祀受戒的他面前,拉响那张奇妙的弓。
3.38.14
अजातव्यञ्जनः श्रीमान् बालः श्यामः शुभेक्षणः।
एकवस्त्रधरो धन्वी शिखी कनकमालया ॥ ३.३८.१४ ॥
尚未长出胡须的少年,光彩熠熠,肤色黝黑,目光祥和;身着一件衣服,持弓,头顶发髻,佩戴金色花环。
3.38.15
शोभयन् दण्डकारण्यं दीप्तेन स्वेन तेजसा।
अदृश्यत तदा रामो बालचन्द्र इवोदितः ॥ ३.३८.१५ ॥
以自身炽盛的光辉照耀檀陀迦森林,罗摩此时显现,宛如升起的新月。
3.38.16
ततोऽहं मेघसंकाशस्तप्तकाञ्चनकुण्डलः।
बली दत्तवरो दर्पादाजगामाश्रमान्तरम् ॥ ३.३८.१६ ॥
于是我如云般庞大,佩戴烧红的金耳环,力大无穷,又蒙受恩赐,因骄狂而进入了苦行林的内部。
3.38.17
तेन दृष्टः प्रविष्टोऽहं सहसैवोद्यतायुधः।
मां तु दृष्ट्वा धनुः सज्यमसम्भ्रान्तश्चकार ह ॥ ३.३८.१७ ॥
他看见了我;我举起武器突然闯入。可是看到我,他毫不慌张,把弓弦拉上了。
3.38.18
अवजानन्नहं मोहाद् बालोऽयमिति राघवम्।
विश्वामित्रस्य तां वेदिमभ्यधावं कृतत्वरः ॥ ३.३८.१८ ॥
我想:“这不过是个孩子。”因迷惑而轻视罗怙之子,我急忙冲向毗首密多罗的那座祭坛。
3.38.19
तेन मुक्तस्ततो बाणः शितः शत्रुनिबर्हणः।
तेनाहं ताडितः क्षिप्तः समुद्रे शतयोजने ॥ ३.३८.१९ ॥
他射出的锐利之箭,能摧毁敌人,射中了我;被它击中后,我被抛入一百由旬之外的大海中。
3.38.20
नेच्छता तात मां हन्तुं तदा वीरेण रक्षितः।
रामस्य शरवेगेन निरस्तो भ्रान्तचेतनः ॥ ३.३८.२० ॥
朋友,英雄不愿杀我,便在那时保护了我;被罗摩之箭的力量抛开,我的神智昏乱了。
3.38.21
पातितोऽहं तदा तेन गम्भीरे सागराम्भसि।
प्राप्य संज्ञां चिरात् तात लङ्कां प्रति गतः पुरीम् ॥ ३.३८.२१ ॥
那时,我被他抛入大海深处,过了很久才恢复神智,朋友,之后我向楞伽城返回。
3.38.22
एवमस्मि तदा मुक्तः सहायास्ते निपातिताः।
अकृतास्त्रेण रामेण बालेनाक्लिष्टकर्मणा ॥ ३.३८.२२ ॥
这样,我那时得以脱身,但你的同伴都被击倒了——被罗摩所击,他是个不谙武艺却举重若轻的少年。
3.38.23
तन्मया वार्यमाणस्तु यदि रामेण विग्रहम्।
करिष्यस्यापदां घोरां क्षिप्रं प्राप्य न शिष्यसि ॥ ३.३८.२३ ॥
因此,即使我劝阻,你若与罗摩为敌,很快就会遭遇可怕的灾祸,你将无法存活。
3.38.24
क्रीडारतिविधिज्ञानां समाजोत्सवदर्शिनाम्।
रक्षसां चैव संतापमनर्थं चाहरिष्यसि ॥ ३.३८.२४ ॥
即使是那些熟知游戏与欢乐之道、观看集会与节庆的罗刹,你也会给他们带来悲痛与灾难。
3.38.25
हर्म्यप्रासादसम्बाधां नानारत्नविभूषिताम्।
द्रक्ष्यसि त्वं पुरीं लङ्कां विनष्टां मैथिलीकृते ॥ ३.३८.२५ ॥
你将看到楞伽城,楼阁宫殿林立,装饰着种种宝石,因为迈提利而遭到毁灭。
3.38.26
अकुर्वन्तोऽपि पापानि शुचयः पापसंश्रयात्।
परपापैर्विनश्यन्ति मत्स्या नागह्रदे यथा ॥ ३.३८.२६ ॥
即使不作恶的清净之人,也因依附恶人、因他人之罪而毁灭,如同那龙池中的鱼。
3.38.27
दिव्यचन्दनदिग्धाङ्गान् दिव्याभरणभूषितान्।
द्रक्ष्यस्यभिहतान् भूमौ तव दोषात् तु राक्षसान् ॥ ३.३८.२७ ॥
你将看到罗刹们身涂天界檀香、饰以天界珍宝,因你的过失而倒毙于地。
3.38.28
हृतदारान् सदारांश्च दश विद्रवतो दिशः।
हतशेषानशरणान् द्रक्ष्यसि त्वं निशाचरान् ॥ ३.३८.२८ ॥
你将看到夜行者们:有的妻子被夺走,有的携妻子向十方奔逃,是被杀戮后的残存者,无所依靠。
3.38.29
शरजालपरिक्षिप्तामग्निज्वालासमावृताम्।
प्रदग्धभवनां लङ्कां द्रक्ष्यसि त्वमसंशयम् ॥ ३.३८.२९ ॥
你无疑将看到楞伽城被箭网所围、被火焰所笼罩、房屋尽被焚毁。
3.38.30
परदाराभिमर्शात् तु नान्यत् पापतरं महत्।
प्रमदानां सहस्राणि तव राजन् परिग्रहे ॥ ३.३८.३० ॥
没有比触碰他人之妻更大的罪过了。哦,国王,你的掌控之中有成千上万的女子。
3.38.31
भव स्वदारनिरतः स्वकुलं रक्ष राक्षसान्।
मानं वृद्धिं च राज्यं च जीवितं चेष्टमात्मनः ॥ ३.३८.३१ ॥
专心于自己的妻子,保护你的家族与罗刹。守护你的尊严、昌盛、王国和你所珍视的生命。
3.38.32
कलत्राणि च सौम्यानि मित्रवर्गं तथैव च।
यदीच्छसि चिरं भोक्तुं मा कृथा रामविप्रियम् ॥ ३.३८.३२ ॥
也同样守护你温顺的妻子们和你的朋友们。若你想长久享受这些,就不要做让罗摩不悦之事。
3.38.33
निवार्यमाणः सुहृदा मया भृशं
प्रसह्य सीतां यदि धर्षयिष्यसि।
गमिष्यसि क्षीणबलः सबान्धवो
यमक्षयं रामशरास्तजीवितः ॥ ३.३८.३३ ॥
纵使我这位好友极力劝阻你,你若仍强行侵犯悉多,便会力竭而衰,与亲族一同前往阎摩之处,性命被罗摩的箭矢夺去。