Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 3.39

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.39.1

एवमस्मि तदा मुक्तः कथंचित् तेन संयुगे।
इदानीमपि यद् वृत्तं तच्छृणुष्व यदुत्तरम् ॥ ३.३९.१ ॥

就这样,在那场战斗中,我不知怎样被他放了。现在请听我接下来所经历的事。

3.39.2

राक्षसाभ्यामहं द्वाभ्यामनिर्विण्णस्तथाकृतः।
सहितो मृगरूपाभ्यां प्रविष्टो दण्डकावने ॥ ३.३९.२ ॥

我与两个罗刹同行,被如此变形,却未曾灰心,以鹿的形象进入了檀陀迦森林。

3.39.3

दीप्तजिह्वो महादंष्ट्रस्तीक्ष्णशृङ्गो महाबलः।
व्यचरन् दण्डकारण्यं मांसभक्षो महामृगः ॥ ३.३९.३ ॥

这头大鹿舌头燃烧,獠牙巨大,角尖锐,力量强大,食肉,在檀陀迦森林中游荡。

3.39.4

अग्निहोत्रेषु तीर्थेषु चैत्यवृक्षेषु रावण।
अत्यन्तघोरो व्यचरंस्तापसांस्तान् प्रधर्षयन् ॥ ३.३९.४ ॥

罗波那啊,我极其凶猛地在火祭坛、圣浴处和神圣的树旁游荡,袭击那些苦行者。

3.39.5

निहत्य दण्डकारण्ये तापसान् धर्मचारिणः।
रुधिराणि पिबंस्तेषां तन्मांसानि च भक्षयन् ॥ ३.३९.५ ॥

在檀陀迦森林中杀害那些奉行法义的苦行者,饮其血,食其肉。

3.39.6

ऋषिमांसाशनः क्रूरस्त्रासयन् वनगोचरान्।
तदा रुधिरमत्तोऽहं व्यचरं दण्डकावनम् ॥ ३.३९.६ ॥

我以圣者之肉为食,残暴,惊吓林中居民,那时我因血而狂醉,在檀陀迦森林中游荡。

3.39.7

तदाहं दण्डकारण्ये विचरन् धर्मदूषकः।
आसादयं तदा रामं तापसं धर्ममाश्रितम् ॥ ३.३९.७ ॥

那时,我在檀陀迦森林中游荡,是破坏正法之人,遇见了依止正法的苦行者罗摩。

3.39.8

वैदेहीं च महाभागां लक्ष्मणं च महारथम्।
तापसं नियताहारं सर्वभूतहिते रतम् ॥ ३.३९.८ ॥

我还见到了大福的毗提诃(悉多)和大车战士罗什曼那。他们是饮食节制的苦行者,喜欢利益一切众生。

3.39.9

सोऽहं वनगतं रामं परिभूय महाबलम्।
तापसोऽयमिति ज्ञात्वा पूर्ववैरमनुस्मरन् ॥ ३.३९.९ ॥

我轻视那位前往森林的大力罗摩,心想“他只是个苦行者”,并回想起旧日的仇怨,便向他扑去。

3.39.10

अभ्यधावं सुसंक्रुद्धस्तीक्ष्णशृङ्गो मृगाकृतिः।
जिघांसुरकृतप्रज्ञस्तं प्रहारमनुस्मरन् ॥ ३.३९.१० ॥

我极度愤怒,化作一只长着尖角的鹿,向他扑去,想要杀他,失去了理智,并想起了那一击。

3.39.11

तेन त्यक्तास्त्रयो बाणाः शिताः शत्रुनिबर्हणाः।
विकृष्य सुमहच्चापं सुपर्णानिलतुल्यगाः ॥ ३.३९.११ ॥

他拉开大弓,射出三支锐利的箭,能摧毁敌人,速度如金翅鸟或风。

3.39.12

ते बाणा वज्रसंकाशाः सुघोरा रक्तभोजनाः।
आजग्मुः सहिताः सर्वे त्रयः संनतपर्वणः ॥ ३.३९.१२ ॥

那三支箭如雷霆一般,极为可怕,以血为食,一齐飞来,箭杆的节处都弯曲着。

3.39.13

पराक्रमज्ञो रामस्य शठो दृष्टभयः पुरा।
समुत्क्रान्तस्ततो मुक्तस्तावुभौ राक्षसौ हतौ ॥ ३.३९.१३ ॥

我深知罗摩的勇力,这个曾经见识过恐惧的骗子,逃脱并获得自由;那两个罗刹已被杀死。

3.39.14

शरेण मुक्तो रामस्य कथंचित् प्राप्य जीवितम्।
इह प्रव्राजितो युक्तस्तापसोऽहं समाहितः ॥ ३.३९.१४ ॥

我从罗摩的箭下脱身,勉强保住性命,如今在此出家为苦行者,克己而心志专一。

3.39.15

वृक्षे वृक्षे हि पश्यामि चीरकृष्णाजिनाम्बरम्।
गृहीतधनुषं रामं पाशहस्तमिवान्तकम् ॥ ३.३९.१५ ॥

我在每棵树上都看见罗摩,身穿树皮与黑鹿皮,手持弓箭,宛如手持绳索的死神。

3.39.16

अपि रामसहस्राणि भीतः पश्यामि रावण।
रामभूतमिदं सर्वमरण्यं प्रतिभाति मे ॥ ३.३९.१६ ॥

罗波那啊,我心惊胆战,看见成千上万个罗摩;整片森林在我眼中都充满了罗摩。

3.39.17

राममेव हि पश्यामि रहिते राक्षसेश्वर।
दृष्ट्वा स्वप्नगतं राममुद्भ्रमामि विचेतनः ॥ ३.३९.१७ ॥

罗刹之主啊,独处之时我只看见罗摩;如同梦中见到罗摩,我失去知觉地四处游荡。

3.39.18

रकारादीनि नामानि रामत्रस्तस्य रावण।
रत्नानि च रथाश्चैव वित्रासं जनयन्ति मे ॥ ३.३९.१८ ॥

罗波那啊,对于被罗摩吓坏的我,即使是以“ra”字母开头的名字、珠宝和战车,也会使我恐惧。

3.39.19

अहं तस्य प्रभावज्ञो न युद्धं तेन ते क्षमम्।
बलिं वा नमुचिं वापि हन्याद्धि रघुनन्दनः ॥ ३.३९.१९ ॥

我知道他的威力,因此与他交战对你并不合适。罗护南丹(罗摩)甚至能杀死婆利或那牟質。

3.39.20

रणे रामेण युद्धस्व क्षमां वा कुरु रावण।
न ते रामकथा कार्या यदि मां द्रष्टुमिच्छसि ॥ ३.३९.२० ॥

罗波那啊,在战场上与罗摩交战,或者请求饶恕。若你想见我,就不要谈论罗摩的事迹。

3.39.21

बहवः साधवो लोके युक्ता धर्ममनुष्ठिताः।
परेषामपराधेन विनष्टाः सपरिच्छदाः ॥ ३.३९.२१ ॥

世间许多修持法(达摩)的善士,因他人的过错连同随从一起毁灭了。

3.39.22

सोऽहं परापराधेन विनशेयं निशाचर।
कुरु यत् ते क्षमं तत्त्वमहं त्वां नानुयामि वै ॥ ३.३९.२२ ॥

因此我也可能因他人的过错而毁灭。夜行者啊,做你认为合适的事吧;我绝不会跟随你。

3.39.23

रामश्च हि महातेजा महासत्त्वो महाबलः।
अपि राक्षसलोकस्य भवेदन्तकरोऽपि हि ॥ ३.३९.२३ ॥

罗摩光辉伟大、勇力伟大、力量伟大,甚至可能成为罗刹世界的毁灭者。

3.39.24

यदि शूर्पणखाहेतोर्जनस्थानगतः खरः।
अतिवृत्तो हतः पूर्वं रामेणाक्लिष्टकर्मणा।
अत्र ब्रूहि यथातत्त्वं को रामस्य व्यतिक्रमः ॥ ३.३९.२४ ॥

若住在阁那斯坦的罗刹伽罗(Khara)因修帕那卡而逾越,先前已被行事毫不费力的罗摩所杀,那么请在此如实说明:罗摩有何过错?

3.39.25

इदं वचो बन्धुहितार्थिना मया
यथोच्यमानं यदि नाभिपत्स्यसे।
सबान्धवस्त्यक्ष्यसि जीवितं रणे
हतोऽद्य रामेण शरैरजिह्मगैः ॥ ३.३९.२५ ॥

若你不听从我出于关心亲族而说的这番话,你将与亲族一同在战场上丧命;今日你将被罗摩那笔直飞来的箭射杀。