Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 3.40

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.40.1

मारीचस्य तु तद् वाक्यं क्षमं युक्तं च रावणः।
उक्तो न प्रतिजग्राह मर्तुकाम इवौषधम् ॥ ३.४०.१ ॥

摩利遮的话合理恰当,但罗波那不予接受,正如求死之人不肯服药。

3.40.2

तं पथ्यहितवक्तारं मारीचं राक्षसाधिपः।
अब्रवीत् परुषं वाक्यमयुक्तं कालचोदितः ॥ ३.४०.२ ॥

对说出有益良言的摩利遮,罗刹之王受时运驱使,说出了严厉而不当的话。

3.40.3

दुष्कुलैतदयुक्तार्थं मारीच मयि कथ्यते।
वाक्यं निष्फलमत्यर्थं बीजमुप्तमिवोषरे ॥ ३.४०.३ ॥

摩利遮啊,你这卑贱之族!你对我说的这番话,其意图不合理。此言极其无用,犹如播种于贫瘠之地的种子。

3.40.4

त्वद्वाक्यैर्न तु मां शक्यं भेत्तुं रामस्य संयुगे।
मूर्खस्य पापशीलस्य मानुषस्य विशेषतः ॥ ३.४०.४ ॥

凭你的话,我在与罗摩的战斗中不会动摇,何况对方是愚蠢而有罪的凡人。

3.40.5

यस्त्यक्त्वा सुहृदो राज्यं मातरं पितरं तथा।
स्त्रीवाक्यं प्राकृतं श्रुत्वा वनमेकपदे गतः ॥ ३.४०.५ ॥

他抛弃了朋友、王国、父母,听了一个女人的寻常之言,便立即前往森林。

3.40.6

अवश्यं तु मया तस्य संयुगे खरघातिनः।
प्राणैः प्रियतरा सीता हर्तव्या तव संनिधौ ॥ ३.४०.६ ॥

我必定在战斗中,当着你的面,从杀死羯罗的那人手中夺走比生命还珍爱的悉多。

3.40.7

एवं मे निश्चिता बुद्धिर्हृदि मारीच विद्यते।
न व्यावर्तयितुं शक्या सेन्द्रैरपि सुरासुरैः ॥ ३.४०.७ ॥

摩利遮啊,我心中的决意已经如此坚定,即便是因陀罗率领的诸天神与阿修罗也无法使其回转。

3.40.8

दोषं गुणं वा सम्पृष्टस्त्वमेवं वक्तुमर्हसि।
अपायं वा उपायं वा कार्यस्यास्य विनिश्चये ॥ ३.४०.८ ॥

被询问时,在决定此事之际,你应当这样陈述:它的过失或益处,它的败亡或办法。

3.40.9

सम्पृष्टेन तु वक्तव्यं सचिवेन विपश्चिता।
उद्यताञ्जलिना राज्ञो य इच्छेद् भूतिमात्मनः ॥ ३.४०.९ ॥

凡欲求自身福祉的智慧大臣,被询问时应当合掌向国王陈述。

3.40.10

वाक्यमप्रतिकूलं तु मृदुपूर्वं शुभं हितम्।
उपचारेण वक्तव्यो युक्तं च वसुधाधिपः ॥ ३.४०.१० ॥

对大地之主,应当以不逆耳、先柔和、吉祥而有益、合宜的言辞,依礼貌而陈述。

3.40.11

सावमर्दं तु यद्वाक्यमथवा हितमुच्यते।
नाभिनन्देत तद् राजा मानार्थी मानवर्जितम् ॥ ३.४०.११ ॥

若言辞带有轻慢,或虽有益却缺乏尊敬,追求荣誉的君王不应欣然接受。

3.40.12

पञ्च रूपाणि राजानो धारयन्त्यमितौजसः।
अग्नेरिन्द्रस्य सोमस्य यमस्य वरुणस्य च ॥ ३.४०.१२ ॥

具有无量威力的国王持有五种形象:火神阿耆尼、因陀罗、月神苏摩、阎摩与伐楼那之形。

3.40.13

औष्ण्यं तथा विक्रमं च सौम्यं दण्डं प्रसन्नताम्।
धारयन्ति महात्मानो राजानः क्षणदाचर ॥ ३.४०.१३ ॥

夜行者啊,大德之王持有威烈与勇武、柔和、刑杖与和悦。

3.40.14

तस्मात् सर्वास्ववस्थासु मान्याः पूज्याश्च नित्यदा।
त्वं तु धर्ममविज्ञाय केवलं मोहमाश्रितः ॥ ३.४०.१४ ॥

因此他们在任何境况下都应常受尊敬与礼拜;而你不知法(达摩),仅仅依托于迷惑。

3.40.15

अभ्यागतं तु दौरात्म्यात् परुषं वदसीदृशम्।
गुणदोषौ न पृच्छामि क्षेमं चात्मनि राक्षस ॥ ३.४०.१५ ॥

你却因恶意对来客说出如此粗暴的话。啊,罗刹!我并不问你的优劣,也不问你自身的安危。

3.40.16

मयोक्तमपि चैतावत् त्वां प्रत्यमितविक्रम।
अस्मिंस्तु स भवान् कृत्ये साहाय्यं कर्तुमर्हसि ॥ ३.४०.१६ ॥

我对你所说的,也不过如此。啊,威力无量者!在此事中,你应当助我一臂之力。

3.40.17

शृणु तत्कर्म साहाय्ये यत्कार्यं वचनान्मम।
सौवर्णस्त्वं मृगो भूत्वा चित्रो रजतबिन्दुभिः ॥ ३.४०.१७ ॥

请听我说,你在此助我之事应当这样做:化作金色的鹿,身上缀满银色的斑点。

3.40.18

आश्रमे तस्य रामस्य सीतायाः प्रमुखे चर।
प्रलोभयित्वा वैदेहीं यथेष्टं गन्तुमर्हसि ॥ ३.४०.१८ ॥

你要在那罗摩的林居中,在悉多面前游走。诱惑了毗提诃之后,你便可随意前往任何地方。

3.40.19

त्वां हि मायामयं दृष्ट्वा काञ्चनं जातविस्मया।
आनयैनमिति क्षिप्रं रामं वक्ष्यति मैथिली ॥ ३.४०.१९ ॥

看到你这由幻术所成的金鹿,充满惊奇的摩蒂利很快就会对罗摩说:“把它带来。”

3.40.20

अपक्रान्ते च काकुत्स्थे दूरं गत्वाप्युदाहर।
हा सीते लक्ष्मणेत्येवं रामवाक्यानुरूपकम् ॥ ३.४०.२० ॥

罗摩走远之后,你也要远远地呼喊,与罗摩的话相符:“哈,悉多!哈,罗什曼那!”

3.40.21

तच्छ्रुत्वा रामपदवीं सीतया च प्रचोदितः।
अनुगच्छति सम्भ्रान्तः सौमित्रिरपि सौहृदात् ॥ ३.४०.२१ ॥

听到那声音,在悉多的催促下,出于深情而心神不安的罗什曼那也追随罗摩的足迹而去。

3.40.22

अपक्रान्ते च काकुत्स्थे लक्ष्मणे च यथासुखम्।
आहरिष्यामि वैदेहीं सहस्राक्षः शचीमिव ॥ ३.४०.२२ ॥

等罗摩与罗什曼那离去之后,我将轻松地掳走毗提诃,正如千眼因陀罗掳走舍知。

3.40.23

एवं कृत्वा त्विदं कार्यं यथेष्टं गच्छ राक्षस।
राज्यस्यार्धं प्रदास्यामि मारीच तव सुव्रत ॥ ३.४०.२३ ॥

如此完成此事之后,罗刹啊,你可以随意离去。摩里遮啊,持善愿者,我将把王国的一半给你。

3.40.24

गच्छ सौम्य शिवं मार्गं कार्यस्यास्य विवृद्धये।
अहं त्वानुगमिष्यामि सरथो दण्डकावनम् ॥ ३.४०.२४ ॥

善良的人啊,为了此事的成功,你走吉祥的道路吧。我则将乘车跟随你,直到檀陀迦森林。

3.40.25

प्राप्य सीतामयुद्धेन वञ्चयित्वा तु राघवम्।
लङ्कां प्रति गमिष्यामि कृतकार्यः सह त्वया ॥ ३.४०.२५ ॥

不经战斗得到悉多,欺骗了罗摩,我与你一同完成任务后将前往楞伽。

3.40.26

नो चेत् करोषि मारीच हन्मि त्वामहमद्य वै।
एतत् कार्यमवश्यं मे बलादपि करिष्यसि।
राज्ञो विप्रतिकूलस्थो न जातु सुखमेधते ॥ ३.४०.२६ ॥

你若不这样做,啊,摩里左,我今日必杀你。这件事你必定要做,即使被迫也要做。与君王作对的人,永远不会得到幸福。

3.40.27

आसाद्य तं जीवितसंशयस्ते
मृत्युर्ध्रुवो ह्यद्य मया विरुध्यतः।
एतद् यथावत् परिगण्य बुद्ध्या
यदत्र पथ्यं कुरु तत्तथा त्वम् ॥ ३.४०.२७ ॥

若与他对抗,你的性命便岌岌可危;今日若与我为敌,你的死亡便已注定。以智慧仔细权衡此事,做在此处于你有益的事吧。