Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 3.41

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.41.1

आज्ञप्तो रावणेनेत्थं प्रतिकूलं च राजवत्।
अब्रवीत् परुषं वाक्यं निःशङ्को राक्षसाधिपम् ॥ ३.४१.१ ॥

罗波那如此下令,他便像国王一样毫无惧色,对罗刹之主说出了严厉而不悦耳的话。

3.41.2

केनायमुपदिष्टस्ते विनाशः पापकर्मणा।
सपुत्रस्य सराज्यस्य सामात्यस्य निशाचर ॥ ३.४१.२ ॥

夜行者啊,是哪个作恶之人向你进言这场毁灭——连同你的儿子、国家和大臣一起毁灭?

3.41.3

कस्त्वया सुखिना राजन् नाभिनन्दति पापकृत्।
केनेदमुपदिष्टं ते मृत्युद्वारमुपायतः ॥ ३.४१.३ ॥

国王啊,哪个作恶之人不赞许你的幸福?是谁把你引向死亡之门?

3.41.4

शत्रवस्तव सुव्यक्तं हीनवीर्या निशाचर।
इच्छन्ति त्वां विनश्यन्तमुपरुद्धं बलीयसा ॥ ३.४१.४ ॥

夜行者啊,显然你的敌人缺乏勇力,希望你在更强者的围困中灭亡。

3.41.5

केनेदमुपदिष्टं ते क्षुद्रेणाहितबुद्धिना।
यस्त्वामिच्छति नश्यन्तं स्वकृतेन निशाचर ॥ ३.४१.५ ॥

夜行者啊,是哪个卑鄙而心怀恶意之人,希望你因自己的所作所为而灭亡,向你进言了这些?

3.41.6

वध्याः खलु न वध्यन्ते सचिवास्तव रावण।
ये त्वामुत्पथमारूढं न निगृह्णन्ति सर्वशः ॥ ३.४१.६ ॥

罗波那啊,你的大臣们见你走上邪路,却丝毫不加劝阻,他们本应受死,却并未被杀。

3.41.7

अमात्यैः कामवृत्तो हि राजा कापथमाश्रितः।
निग्राह्यः सर्वथा सद्भिः स निग्राह्यो न गृह्यसे ॥ ३.४१.७ ॥

国王若受欲望驱使走上歧途,大臣们应当以各种方式加以制止,善良之人也应制止他;然而你却没有被制止。

3.41.8

धर्ममर्थं च कामं च यशश्च जयतां वर।
स्वामिप्रसादात् सचिवाः प्राप्नुवन्ति निशाचर ॥ ३.४१.८ ॥

胜利者中最优秀的人啊!夜行者啊!советники凭主君的恩惠获得法、利、欲与名声。

3.41.9

विपर्यये तु तत्सर्वं व्यर्थं भवति रावण।
व्यसनं स्वामिवैगुण्यात् प्राप्नुवन्तीतरे जनाः ॥ ३.४१.९ ॥

然而若反其道而行,罗波那啊,这一切便都徒然无用;因主君的过失,他人便遭受灾祸。

3.41.10

राजमूलो हि धर्मश्च यशश्च जयतां वर।
तस्मात् सर्वास्ववस्थासु रक्षितव्या नराधिपाः ॥ ३.४१.१० ॥

胜利者中最优秀的人啊!法与名声确实以国王为根基;因此,国王在任何境况下都应当受到守护。

3.41.11

राज्यं पालयितुं शक्यं न तीक्ष्णेन निशाचर।
न चातिप्रतिकूलेन नाविनीतेन राक्षस ॥ ३.४१.११ ॥

夜行者啊,严酷之人不能治理国家;极其悖逆、不懂谦抑之人也不能,罗刹啊。

3.41.12

ये तीक्ष्णमन्त्राः सचिवा भुज्यन्ते सह तेन वै।
विषमेषु रथाः शीघ्रं मन्दसारथयो यथा ॥ ३.४१.१२ ॥

那些进献严酷谋略的大臣,与他一同覆灭,正如驾车者迟缓的战车在崎岖之地很快便被毁坏。

3.41.13

बहवः साधवो लोके युक्तधर्ममनुष्ठिताः।
परेषामपराधेन विनष्टाः सपरिच्छदाः ॥ ३.४१.१३ ॥

世间许多遵行法度的善人,因他人的过错而与家人一同覆灭。

3.41.14

स्वामिना प्रतिकूलेन प्रजास्तीक्ष्णेन रावण।
रक्ष्यमाणा न वर्धन्ते मेषा गोमायुना यथा ॥ ३.४१.१४ ॥

罗波那啊,正如被豺狼看守的羊不会繁衍,被残暴而敌意的君主庇护的臣民也不会兴盛。

3.41.15

अवश्यं विनशिष्यन्ति सर्वे रावण राक्षसाः।
येषां त्वं कर्कशो राजा दुर्बुद्धिरजितेन्द्रियः ॥ ३.४१.१५ ॥

罗波那啊,凡有你这般残酷、恶念、不能克制感官之王的罗刹,必定全都灭亡。

3.41.16

तदिदं काकतालीयं घोरमासादितं मया।
अत्र त्वं शोचनीयोऽसि ससैन्यो विनशिष्यसि ॥ ३.४१.१६ ॥

我所遭遇的这场可怕的偶然事件中,你实在可怜;你将与军队一同覆灭。

3.41.17

मां निहत्य तु रामोऽसावचिरात् त्वां वधिष्यति।
अनेन कृतकृत्योऽस्मि म्रिये चाप्यरिणा हतः ॥ ३.४१.१७ ॥

即使你杀了我,那罗摩也会很快杀死你。因此我已完成使命;被敌人所杀,我死去。

3.41.18

दर्शनादेव रामस्य हतं मामवधारय।
आत्मानं च हतं विद्धि हृत्वा सीतां सबान्धवम् ॥ ३.४१.१८ ॥

你要知道,我已因见到罗摩而被杀;也要知道,你因为劫走了悉多及其亲属,也已经死了。

3.41.19

आनयिष्यसि चेत् सीतामाश्रमात् सहितो मया।
नैव त्वमपि नाहं वै नैव लङ्का न राक्षसाः ॥ ३.४१.१९ ॥

若你与我一同将悉多从苦行林中带走,那么你、我、楞伽和罗刹都将不复存在。

3.41.20

निवार्यमाणस्तु मया हितैषिणा
न मृष्यसे वाक्यमिदं निशाचर।
परेतकल्पा हि गतायुषो नरा
हितं न गृह्णन्ति सुहृद्भिरीरितम् ॥ ३.४१.२० ॥

我出于好意阻止你,夜行者啊,你却不能忍受这番话。寿命已尽的人如同死人,他们不接受朋友所说的善言。