蚁垤《罗摩衍那》 · 篇 3.44
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.44.1
तथा तु तं समादिश्य भ्रातरं रघुनन्दनः।
बबन्धासिं महातेजा जाम्बूनदमयत्सरुम् ॥ ३.४४.१ ॥
罗怙之喜、大光明的罗摩如此吩咐了弟弟后,佩上了一把金鞘之剑。
3.44.2
ततस्त्रिविनतं चापमादायात्मविभूषणम्।
आबध्य च कपालौ द्वौ जगामोदग्रविक्रमः ॥ ३.४४.२ ॥
随后,罗摩取起他那三处弯曲的弓——他自身的饰物,系好两只护臂,以高昂的勇武出发了。
3.44.3
तं वन्यराजो राजेन्द्रमापतन्तं निरीक्ष्य वै।
बभूवान्तर्हितस्त्रासात् पुनः संदर्शनेऽभवत् ॥ ३.४४.३ ॥
那林中之王见罗摩——诸王之主——疾驰而来,因惧怕而隐没,随后又再次现身。
3.44.4
बद्धासिर्धनुरादाय प्रदुद्राव यतो मृगः।
तं स्म पश्यति रूपेण द्योतयन्तमिवाग्रतः ॥ ३.४४.४ ॥
罗摩佩上剑、持弓,朝鹿所去的方向奔去;他看见那鹿在前面,以其形相闪耀着光芒。
3.44.5
अवेक्ष्यावेक्ष्य धावन्तं धनुष्पाणिर्महावने।
अतिवृत्तमिवोत्पाताल्लोभयानं कदाचन ॥ ३.४४.५ ॥
罗摩手持弓箭,在大森林中一再回望地奔跑;那鹿有时纵身跃到远处,引诱着他。
3.44.6
शङ्कितं तु समुद्भ्रान्तमुत्पतन्तमिवाम्बरम्।
दृश्यमानमदृश्यं च वनोद्देशेषु केषुचित् ॥ ३.४४.६ ॥
那鹿惊疑不定、极度慌乱,仿佛要飞腾到天空中;在森林的某些地方它可见,在另一些地方却不见。
3.44.7
छिन्नाभ्रैरिव संवीतं शारदं चन्द्रमण्डलम्।
मुहूर्तादेव ददृशे मुहुर्दूरात् प्रकाशते ॥ ३.४४.७ ॥
如同被破碎云layer笼罩的秋月,瞬间显现,又从远处一次次闪耀。
3.44.8
दर्शनादर्शनेनैव सोऽपाकर्षत राघवम्।
स दूरमाश्रमस्यास्य मारीचो मृगतां गतः ॥ ३.४४.८ ॥
他时隐时现,便将罗怙后裔引向远方;那位摩哩质化作鹿形,远离了这座修道院。
3.44.9
आसीत् क्रुद्धस्तु काकुत्स्थो विवशस्तेन मोहितः।
अथावतस्थे सुश्रान्तश्छायामाश्रित्य शाद्वले ॥ ३.४४.९ ॥
迦古特斯特(罗摩)震怒;被他所惑而无能为力,他极为疲惫,便在草地上的树荫下停下脚步。
3.44.10
स तमुन्मादयामास मृगरूपो निशाचरः।
मृगैः परिवृतोऽथान्यैरदूरात् प्रत्यदृश्यत ॥ ३.४४.१० ॥
那化作鹿形的夜行者使他迷乱;随后,他被其他鹿群环绕,出现在不远处。
3.44.11
ग्रहीतुकामं दृष्ट्वा तं पुनरेवाभ्यधावत।
तत्क्षणादेव संत्रासात् पुनरन्तर्हितोऽभवत् ॥ ३.४४.११ ॥
见其想要捉住他,便又向他奔去;就在那一刻,因惊惧,那怪物再次消失了。
3.44.12
पुनरेव ततो दूराद् वृक्षखण्डाद् विनिःसृतः।
दृष्ट्वा रामो महातेजास्तं हन्तुं कृतनिश्चयः ॥ ३.४४.१२ ॥
随后,他又从远处一丛树林中走出;大光辉的罗摩见到他,便决意将其杀死。
3.44.13
भूयस्तु शरमुद्धृत्य कुपितस्तत्र राघवः।
सूर्यरश्मिप्रतीकाशं ज्वलन्तमरिमर्दनम् ॥ ३.४४.१३ ॥
于是怒火中烧的罗ghava在那里抽出一支箭,如阳光般闪耀,能摧毁敌人。
3.44.14
संधाय सुदृढे चापे विकृष्य बलवद्बली।
तमेव मृगमुद्दिश्य श्वसन्तमिव पन्नगम् ॥ ३.४४.१४ ॥
他将箭搭在坚韧的弓上,用力拉满,瞄准那头鹿,如同嘶嘶作响的毒蛇。
3.44.15
मुमोच ज्वलितं दीप्तमस्त्रं ब्रह्मविनिर्मितम्।
शरीरं मृगरूपस्य विनिर्भिद्य शरोत्तमः ॥ ३.४४.१५ ॥
他射出一件由梵天所造、燃烧闪耀的神箭;那支最优的箭穿透了鹿形的身体。
3.44.16
मारीचस्यैव हृदयं बिभेदाशनिसंनिभः।
तालमात्रमथोत्प्लुत्य न्यपतत् स भृशातुरः ॥ ३.४४.१६ ॥
那支如雷电般的箭穿透了摩利者的心脏;他跃起一棵棕榈树的高度,重重倒下,痛苦万分。
3.44.17
व्यनदद् भैरवं नादं धरण्यामल्पजीवितः।
म्रियमाणस्तु मारीचो जहौ तां कृत्रिमां तनुम् ॥ ३.४४.१७ ॥
这个寿命短暂的家伙在地上发出可怕的吼叫;临死时,摩利者舍弃了那个虚假的形体。
3.44.18
स्मृत्वा तद्वचनं रक्षो दध्यौ केन तु लक्ष्मणम्।
इह प्रस्थापयेत् सीता तां शून्ये रावणो हरेत् ॥ ३.४४.१८ ॥
罗刹想起那些话,心中盘算:用什么办法才能把罗什曼那从这里调开,好让罗波那在空旷之处掳走悉多?
3.44.19
स प्राप्तकालमाज्ञाय चकार च ततः स्वनम्।
सदृशं राघवस्येव हा सीते लक्ष्मणेति च ॥ ३.४४.१९ ॥
他知道时机已到,便发出一声仿如罗睺婆(罗摩)的呼声:“哎呀,悉多!哎呀,罗什曼那!”
3.44.20
तेन मर्मणि निर्विद्धं शरेणानुपमेन हि।
मृगरूपं तु तत् त्यक्त्वा राक्षसं रूपमास्थितः ॥ ३.४४.२० ॥
他被那无与伦比的箭射中要害,便舍弃鹿形,现出罗刹的本相。
3.44.21
चक्रे स सुमहाकायं मारीचो जीवितं त्यजन्।
तं दृष्ट्वा पतितं भूमौ राक्षसं भीमदर्शनम् ॥ ३.४४.२१ ॥
摩利遮现出其巨大的身躯;他看见那可怖的罗刹在倒地、舍弃性命时——
3.44.22
रामो रुधिरसिक्ताङ्गं चेष्टमानं महीतले।
जगाम मनसा सीतां लक्ष्मणस्य वचः स्मरन् ॥ ३.४४.२२ ॥
罗摩看见他浑身浴血、在地上翻滚挣扎,想起了罗什曼那的话,心中便转向悉多。
3.44.23
मारीचस्य तु मायैषा पूर्वोक्तं लक्ष्मणेन तु।
तत् तथा ह्यभवच्चाद्य मारीचोऽयं मया हतः ॥ ३.४४.२३ ॥
这确实是摩利遮的幻术;正如罗什曼那先前所说,事情果然如此。而今天,这摩利遮已被我杀死。
3.44.24
हा सीते लक्ष्मणेत्येवमाक्रुश्य तु महास्वनम्।
ममार राक्षसः सोऽयं श्रुत्वा सीता कथं भवेत् ॥ ३.४४.२४ ॥
他大声喊出“哎呀,悉多!哎呀,罗什曼那!”便死去了。悉多听到这声音,不知会怎样呢!
3.44.26
लक्ष्मणश्च महाबाहुः कामवस्थां गमिष्यति।
तत्र रामं भयं तीव्रमाविवेश विषादजम्।
राक्षसं मृगरूपं तं हत्वा श्रुत्वा च तत्स्वनम् ॥ ३.४४.२६ ॥
臂力强大的罗什曼那将陷入那种境地。那时,罗摩心中涌起一股由忧伤而生的强烈恐惧——他杀死了那化作鹿形的罗刹,又听到了那声呼喊。
3.44.27
निहत्य पृषतं चान्यं मांसमादाय राघवः।
त्वरमाणो जनस्थानं ससाराभिमुखं तदा ॥ ३.४४.२७ ॥
罗怙婆又射杀了另一只斑点鹿,拿起鹿肉,随即急速朝着人居(Janasthāna)的方向,径直前行。