蚁垤《罗摩衍那》 · 篇 3.45
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.45.1
आर्तस्वरं तु तं भर्तुर्विज्ञाय सदृशं वने।
उवाच लक्ष्मणं सीता गच्छ जानीहि राघवम् ॥ ३.४५.१ ॥
悉多在林中辨认出夫君那悲苦的呼声,便对罗什曼那说:“去,去探明罗ghava的情况。”
3.45.2
नहि मे जीवितं स्थाने हृदयं वावतिष्ठते।
क्रोशतः परमार्तस्य श्रुतः शब्दो मया भृशम् ॥ ३.४५.२ ॥
我的生命与心神已不能安定,因为我多次听到他在极度痛苦中呼喊的声音。
3.45.3
आक्रन्दमानं तु वने भ्रातरं त्रातुमर्हसि।
तं क्षिप्रमभिधाव त्वं भ्रातरं शरणैषिणम् ॥ ३.४५.३ ॥
你应当去救那在林中呼喊的兄长;快快奔向那寻求庇护的兄长。
3.45.4
रक्षसां वशमापन्नं सिंहानामिव गोवृषम्।
न जगाम तथोक्तस्तु भ्रातुराज्ञाय शासनम् ॥ ३.४५.४ ॥
如同公牛落入狮群、陷入罗刹之手,罗什曼那起初并未前往;但他明白了兄长的命令,便动身而去。
3.45.5
तमुवाच ततस्तत्र क्षुभिता जनकात्मजा।
सौमित्रे मित्ररूपेण भ्रातुस्त्वमसि शत्रुवत् ॥ ३.४५.५ ॥
于是,心神不安的遮那竭之女悉多对他说:“苏弥特拉之子啊,你披着朋友的外衣,对兄长却如同仇敌。”
3.45.6
यस्त्वमस्यामवस्थायां भ्रातरं नाभिपद्यसे।
इच्छसि त्वं विनश्यन्तं रामं लक्ष्मण मत्कृते ॥ ३.४५.६ ॥
如今你却不去救兄长。罗什曼那啊,因为我的缘故,你竟然希望正在毁灭的罗摩也毁灭。
3.45.7
लोभात्तु मत्कृते नूनं नानुगच्छसि राघवम्।
व्यसनं ते प्रियं मन्ये स्नेहो भ्रातरि नास्ति ते ॥ ३.४५.७ ॥
你因贪念,为了我的缘故,的确没有追随罗怙之子(Rāghava)。我认为灾难对你而言是可喜的;你对兄长并无情意。
3.45.8
तेन तिष्ठसि विस्रब्धं तमपश्यन् महाद्युतिम्।
किं हि संशयमापन्ने तस्मिन्निह मया भवेत् ॥ ३.४५.८ ॥
因此,你看不见那位大光辉者,便安然站在此处。若他陷入危难,那么我在此又将如何?
3.45.9
कर्तव्यमिह तिष्ठन्त्या यत्प्रधानस्त्वमागतः।
एवं ब्रुवाणां वैदेहीं बाष्पशोकसमन्विताम् ॥ ३.४५.९ ॥
对站在此处的她而言,应做之事便是:你作为主事者而来。对如此说话、充满泪水与忧伤的毗提诃(Vaidehī)——
3.45.10
अब्रवील्लक्ष्मणस्त्रस्तां सीतां मृगवधूमिव।
पन्नगासुरगन्धर्वदेवदानवराक्षसैः ॥ ३.४५.१० ॥
罗什曼那对受惊如母鹿的悉多说道:无论是蛇族、阿修罗、乾闼婆、天神、檀那婆还是罗刹——
3.45.11
अशक्यस्तव वैदेहि भर्ता जेतुं न संशयः।
देवि देवमनुष्येषु गन्धर्वेषु पतत्रिषु ॥ ३.४५.११ ॥
毗提诃啊,你的夫君不可战胜,此无疑问。女神啊,无论在天神与人类之中,在乾闼婆与飞鸟之中——
3.45.12
राक्षसेषु पिशाचेषु किन्नरेषु मृगेषु च।
दानवेषु च घोरेषु न स विद्येत शोभने ॥ ३.४५.१२ ॥
在罗刹、毕舍遮、紧那罗、禽兽之中,乃至凶恶的檀那婆之中,哦,光彩的女子,也找不到能战胜他的人。
3.45.13
यो रामं प्रतियुध्येत समरे वासवोपमम्।
अवध्यः समरे रामो नैवं त्वं वक्तुमर्हसि ॥ ३.४५.१३ ॥
谁敢在战场上与如因陀罗般的罗摩交战?战场上罗摩不可被杀;你不应如此说。
3.45.14
न त्वामस्मिन् वने हातुमुत्सहे राघवं विना।
अनिवार्यं बलं तस्य बलैर्बलवतामपि ॥ ३.४५.१४ ॥
在这片森林里,没有罗卫(罗怙后裔)我不愿舍弃你;他的力量连强者的力量也无法抵挡。
3.45.15
त्रिभिर्लोकैः समुदितैः सेश्वरैः सामरैरपि।
हृदयं निर्वृतं तेऽस्तु संतापस्त्यज्यतां तव ॥ ३.४५.१५ ॥
即便三界连同其主宰与天神齐聚,愿你的心安宁,愿你放下忧愁。
3.45.16
आगमिष्यति ते भर्ता शीघ्रं हत्वा मृगोत्तमम्।
न स तस्य स्वरो व्यक्तं न कश्चिदपि दैवतः ॥ ३.४५.१६ ॥
你的丈夫杀死那只上好的鹿后,很快就会回来;那不是他的声音,也不是任何天神的声音。
3.45.17
गन्धर्वनगरप्रख्या माया तस्य च रक्षसः।
न्यासभूतासि वैदेहि न्यस्ता मयि महात्मना ॥ ३.४५.१७ ॥
那是那罗刹的幻术,如乾闼婆城一般;哦,毗提诃之女,你是被那位大德托付给我保管的。
3.45.18
रामेण त्वं वरारोहे न त्वां त्यक्तुमिहोत्सहे।
कृतवैराश्च कल्याणि वयमेतैर्निशाचरैः ॥ ३.४५.१८ ॥
哦,腰身美丽的人,与罗摩同在的你,我不愿在此舍弃你;哦,吉祥的人,我们与这些夜行者结下了仇怨。
3.45.19
खरस्य निधने देवि जनस्थानवधं प्रति।
राक्षसा विविधा वाचो व्याहरन्ति महावने ॥ ३.४५.१९ ॥
女神啊,在这大林中,罗刹们议论纷纷,谈论着卡罗的死亡和Janasthāna的屠杀。
3.45.20
हिंसाविहारा वैदेहि न चिन्तयितुमर्हसि।
लक्ष्मणेनैवमुक्ता तु क्रुद्धा संरक्तलोचना ॥ ३.४५.२० ॥
"维德黑,你不应为那些以暴力为乐的人忧虑。"罗什曼那如此说后,她愤怒起来,双眼通红,
3.45.21
अब्रवीत् परुषं वाक्यं लक्ष्मणं सत्यवादिनम्।
अनार्याकरुणारम्भ नृशंस कुलपांसन ॥ ३.४५.२१ ॥
她对诚实的罗什曼那说出严厉的话:"你这不贤之人,行事无情,残忍的家族败类!
3.45.22
अहं तव प्रियं मन्ये रामस्य व्यसनं महत्।
रामस्य व्यसनं दृष्ट्वा तेनैतानि प्रभाषसे ॥ ३.४५.२२ ॥
"我想,罗摩所遭遇的这场大难对你来说是称心的,所以你才说出这些话,
3.45.23
नैव चित्रं सपत्नेषु पापं लक्ष्मण यद् भवेत्।
त्वद्विधेषु नृशंसेषु नित्यं प्रच्छन्नचारिषु ॥ ३.४५.२३ ॥
"罗什曼那啊,敌人之中有恶行并不奇怪;而像你这样、总是暗中行事的残忍之人身上有恶行,也不足为奇。
3.45.24
सुदुष्टस्त्वं वने राममेकमेकोऽनुगच्छसि।
मम हेतोः प्रतिच्छन्नः प्रयुक्तो भरतेन वा ॥ ३.४५.२४ ॥
"你极其邪恶,独自在林中跟随罗摩,为了我而隐藏,或是受婆罗多所派遣!
3.45.25
तन्न सिध्यति सौमित्रे तवापि भरतस्य वा।
कथमिन्दीवरश्यामं रामं पद्मनिभेक्षणम् ॥ ३.४५.२५ ॥
啊,苏弥德罗,此事无论对你还是对婆罗多都不会成功。我怎能[爱]那如青莲般黝黑、莲花眼的罗摩……
3.45.26
उपसंश्रित्य भर्तारं कामयेयं पृथग्जनम्।
समक्षं तव सौमित्रे प्राणांस्त्यक्ष्याम्यसंशयम् ॥ ३.४५.२६ ॥
啊,苏弥德罗,若我依靠夫君,却去爱慕另一个凡夫,我必定会在你面前舍弃性命。
3.45.27
रामं विना क्षणमपि नैव जीवामि भूतले।
इत्युक्तः परुषं वाक्यं सीतया रोमहर्षणम् ॥ ३.४५.२७ ॥
“没有罗摩,我连片刻也不能活在世上。”悉多说出这些令人毛骨悚然的严厉话语后……
3.45.28
अब्रवील्लक्ष्मणः सीतां प्राञ्जलिः स जितेन्द्रियः।
उत्तरं नोत्सहे वक्तुं दैवतं भवती मम ॥ ३.४५.२८ ॥
自制的罗什曼那合掌对悉多说:“我不敢回答;您对我而言如同神明。”
3.45.29
वाक्यमप्रतिरूपं तु न चित्रं स्त्रीषु मैथिलि।
स्वभावस्त्वेष नारीणामेषु लोकेषु दृश्यते ॥ ३.४५.२९ ॥
啊,弥提罗之女,妇人口出如此不当之言并不奇怪;这是女子的天性,在这些世界中随处可见。
3.45.30
विमुक्तधर्माश्चपलास्तीक्ष्णा भेदकराः स्त्रियः।
न सहे हीदृशं वाक्यं वैदेहि जनकात्मजे ॥ ३.४५.३० ॥
妇人舍弃法度,心性浮动,言辞尖锐,善于挑起离间。啊,毗提诃之女,遵从生父之女,我无法忍受这样的话语。
3.45.31
श्रोत्रयोरुभयोर्मध्ये तप्तनाराचसंनिभम्।
उपशृण्वन्तु मे सर्वे साक्षिणो हि वनेचराः ॥ ३.४५.३१ ॥
愿所有在林中游荡的见证者都听见这些话,它们像烧红的箭穿透我的双耳。
3.45.32
न्यायवादी यथा वाक्यमुक्तोऽहं परुषं त्वया।
धिक् त्वामद्य विनश्यन्तीं यन्मामेवं विशङ्कसे ॥ ३.४५.३२ ॥
你像在讲公道一样对我说了严厉的话。今天我正走向毁灭,你还如此猜疑我,真可耻!
3.45.33
स्त्रीत्वाद् दुष्टस्वभावेन गुरुवाक्ये व्यवस्थितम्।
गच्छामि यत्र काकुत्स्थः स्वस्ति तेऽस्तु वरानने ॥ ३.४५.३३ ॥
我身为女子,性情不善,但我要去到恪守尊长之言的迦句私陀罗(罗摩)那里。愿你平安,美面的人。
3.45.34
रक्षन्तु त्वां विशालाक्षि समग्रा वनदेवताः।
निमित्तानि हि घोराणि यानि प्रादुर्भवन्ति मे।
अपि त्वां सह रामेण पश्येयं पुनरागतः ॥ ३.४५.३४ ॥
愿所有林中的神灵保护你,大眼睛的人。我面前出现了可怕的凶兆。愿我回来后能与罗摩一同再见到你。
3.45.35
लक्ष्मणेनैवमुक्ता तु रुदती जनकात्मजा।
प्रत्युवाच ततो वाक्यं तीव्रबाष्पपरिप्लुता ॥ ३.४५.३५ ॥
罗什曼那如此说后,哭泣的遮那竭之女悉多,泪如雨下,于是说出了这些话。
3.45.36
गोदावरीं प्रवेक्ष्यामि हीना रामेण लक्ष्मण।
आबन्धिष्येऽथवा त्यक्ष्ये विषमे देहमात्मनः ॥ ३.४५.३६ ॥
没有罗摩,啊罗什曼那,我将投入戈达瓦里河,或者自缢,或者在危难中舍弃我的身体。
3.45.37
पिबामि वा विषं तीक्ष्णं प्रवेक्ष्यामि हुताशनम्।
न त्वहं राघवादन्यं कदापि पुरुषं स्पृशे ॥ ३.४५.३७ ॥
我宁愿饮下烈性毒药或投入火中,也绝不会触碰罗摩(罗怙之裔)以外的任何男子。
3.45.38
पाणिभ्यां रुदती दुःखादुदरं प्रजघान ह ॥ ३.४५.३८ ॥
她因悲痛而哭泣,用双手捶打自己的腹部。
3.45.39
तामार्तरूपां विमना रुदन्तीं
सौमित्रिरालोक्य विशालनेत्राम्।
आश्वासयामास न चैव भर्तु-
स्तं भ्रातरं किंचिदुवाच सीता ॥ ३.४५.३९ ॥
看到这位双眼明亮、满面悲戚、心神沮丧而哭泣的女子,苏弥德罗(罗什曼那)安慰她;然而悉多对丈夫的这位兄弟什么也没有说。
3.45.40
ततस्तु सीतामभिवाद्य लक्ष्मणः
कृताञ्जलिः किंचिदभिप्रणम्य।
अवेक्षमाणो बहुशः स मैथिलीं
जगाम रामस्य समीपमात्मवान् ॥ ३.४५.४० ॥
随后,罗什曼那向悉多行礼,合掌微微躬身;他一再回头望着弥提罗公主,这位自制的罗什曼那便走到了罗摩身边。