Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 3.47

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.47.1

रावणेन तु वैदेही तदा पृष्टा जिहीर्षुणा।
परिव्राजकरूपेण शशंसात्मानमात्मना ॥ ३.४७.१ ॥

那时想要劫走她的罗波那向毗提诃公主发问,并以游方苦行者的模样自我介绍。

3.47.3

ब्राह्मणश्चातिथिश्चैष अनुक्तो हि शपेत माम्।
दुहिता जनकस्याहं मैथिलस्य महात्मनः।
सीता नाम्नास्मि भद्रं ते रामस्य महिषी प्रिया ॥ ३.४७.३ ॥

此人是婆罗门与客人;若不接待,他可能会诅咒我。我是伟大的弥提罗国王遮那迦之女,名叫悉多。愿你安好;我是罗摩心爱的正妃。

3.47.4

उषित्वा द्वादश समा इक्ष्वाकूणां निवेशने।
भुञ्जाना मानुषान् भोगान् सर्वकामसमृद्धिनी ॥ ३.४७.४ ॥

我在甘蔗王族的宫室中住了十二年,享受人间的乐趣,一切所愿皆得圆满。

3.47.5

तत्र त्रयोदशे वर्षे राजाऽमन्त्रयत प्रभुः।
अभिषेचयितुं रामं समेतो राजमन्त्रिभिः ॥ ३.४७.५ ॥

在第十三年,君王与大臣们聚会,决定为罗摩举行灌顶。

3.47.6

तस्मिन् सम्भ्रियमाणे तु राघवस्याभिषेचने।
कैकेयी नाम भर्तारं ममार्या याचते वरम् ॥ ३.४७.६ ॥

当罗摩的灌顶正在筹备时,我的尊贵的婆婆吉凯伊向丈夫请求了一个恩典。

3.47.7

परिगृह्य तु कैकेयी श्वशुरं सुकृतेन मे।
मम प्रव्राजनं भर्तुर्भरतस्याभिषेचनम् ॥ ३.४७.७ ॥

凭借我的福德,吉凯伊说服了公公;她请求让我的丈夫流放,并让婆罗多举行灌顶。

3.47.8

द्वावयाचत भर्तारं सत्यसंधं नृपोत्तमम्।
नाद्य भोक्ष्ये न च स्वप्स्ये न पास्ये न कदाचन ॥ ३.४७.८ ॥

她向那位信守诺言的最好的国王——她的丈夫——请求两项恩典:“今天我不吃,不睡,也永远不喝水。”

3.47.10

एष मे जीवितस्यान्तो रामो यदभिषिच्यते।
अयाचतार्थैरन्वर्थैर्न च याच्ञां चकार सा।
मम भर्ता महातेजा वयसा पञ्चविंशकः ॥ ३.४७.१० ॥

“罗摩将受灌顶,便是我生命的终结。”她以有分量的言辞请求,毫不犹豫。我的丈夫大放光明,年方二十五岁。

3.47.11

अष्टादश हि वर्षाणि मम जन्मनि गण्यते।
रामेति प्रथितो लोके सत्यवान् शीलवान् शुचिः ॥ ३.४७.११ ॥

自我出生以来已数十八年。他以罗摩之名闻名于世,诚实、有德、清净。

3.47.12

विशालाक्षो महाबाहुः सर्वभूतहिते रतः।
कामार्तश्च महाराजः पिता दशरथः स्वयम् ॥ ३.४७.१२ ॥

眼睛宽大,臂膀有力,乐于众生之利。而大王、我的父亲十车王本人,却被欲望所折磨。

3.47.13

कैकेय्याः प्रियकामार्थं तं रामं नाभ्यषेचयत्।
अभिषेकाय तु पितुः समीपं राममागतम् ॥ ३.४७.१३ ॥

出于讨好吉凯依的心愿,父王并未为罗摩行灌顶;然而罗摩已来到父王面前,准备受灌顶。

3.47.14

कैकेयी मम भर्तारमित्युवाच द्रुतं वचः।
तव पित्रा समाज्ञप्तं ममेदं शृणु राघव ॥ ३.४७.१४ ॥

吉凯依立即对我的丈夫说道:“罗怙之后,请听我说你父亲所吩咐的事。”

3.47.15

भरताय प्रदातव्यमिदं राज्यमकण्टकम्।
त्वया तु खलु वस्तव्यं नव वर्षाणि पञ्च च ॥ ३.४७.१५ ॥

这片无棘之国应当交给婆罗多,而你则须在林中居住十四年。

3.47.16

वने प्रव्रज काकुत्स्थ पितरं मोचयानृतात् ।
तथेत्युवाच तां रामः कैकेयीमकुतोभयः ॥ ३.४७.१६ ॥

迦古特斯特啊,去往森林,使你的父亲脱离谎言。无畏的罗摩对吉凯伊说:「就这样吧。」

3.47.17

चकार तद्वचः श्रुत्वा भर्ता मम दृढव्रतः।
दद्यान्न प्रतिगृह्णीयात् सत्यं ब्रूयान्न चानृतम् ॥ ३.४७.१७ ॥

我的丈夫坚守誓愿,听闻此言便照办了。应当施予而不接受;应当说真话而不说谎。

3.47.18

एतद् ब्राह्मण रामस्य व्रतं धृतमनुत्तमम्।
तस्य भ्राता तु वैमात्रो लक्ष्मणो नाम वीर्यवान् ॥ ३.४७.१८ ॥

婆罗门啊,这是罗摩所持守的至上誓愿。他的异母兄弟,名为罗什曼那的勇士,

3.47.19

रामस्य पुरुषव्याघ्रः सहायः समरेऽरिहा।
स भ्राता लक्ष्मणो नाम ब्रह्मचारी दृढव्रतः ॥ ३.४७.१९ ॥

罗什曼那是罗摩的伴侣,战场上的敌人杀手,人中之杰,那位兄弟是守贞持戒、誓愿坚定的人。

3.47.20

अन्वगच्छद् धनुष्पाणिः प्रव्रजन्तं मया सह।
जटी तापसरूपेण मया सह सहानुजः ॥ ३.४७.२० ॥

他手持弓箭,跟随与我同行的人;以结发苦行者的模样,与我及其幼弟同行。

3.47.21

प्रविष्टो दण्डकारण्यं धर्मनित्यो दृढव्रतः।
ते वयं प्रच्युता राज्यात् कैकेय्यास्तु कृते त्रयः ॥ ३.४७.२१ ॥

我持守法度、坚定誓愿,进入了檀陀迦森林。因为吉迦伊,我们三人被逐出了王国。

3.47.22

विचराम द्विजश्रेष्ठ वनं गम्भीरमोजसा।
समाश्वस मुहूर्तं तु शक्यं वस्तुमिह त्वया ॥ ३.४७.२२ ॥

噢,二生者中最尊贵者!我们凭自身之力徘徊于这片幽深的森林。请稍作歇息;你在此处留居是可以的。

3.47.23

आगमिष्यति मे भर्ता वन्यमादाय पुष्कलम्।
रुरून् गोधान् वराहांश्च हत्वाऽऽदायामिषं बहु ॥ ३.४७.२३ ॥

我的丈夫将带着大量林中猎物归来。他会猎杀羚鹿、巨蜥和野猪,带回许多肉。

3.47.24

स त्वं नाम च गोत्रं च कुलमाचक्ष्व तत्त्वतः।
एकश्च दण्डकारण्ये किमर्थं चरसि द्विज ॥ ३.४७.२४ ॥

那么请如实告诉我你的名字、氏族与家世。二生者啊,你为何独自徘徊于檀陀迦森林之中?

3.47.25

एवं ब्रुवत्यां सीतायां रामपत्न्यां महाबलः।
प्रत्युवाचोत्तरं तीव्रं रावणो राक्षसाधिपः ॥ ३.४७.२५ ॥

罗摩之妻悉多如此说话时,大力的罗刹之主罗波那厉声作答。

3.47.26

येन वित्रासिता लोकाः सदेवासुरमानुषाः।
अहं स रावणो नाम सीते रक्षोगणेश्वरः ॥ ३.४७.२६ ॥

令天神、阿修罗与人类所有世界都为之战栗的,正是我——名叫罗波那的悉多啊,我乃罗刹大众之主。

3.47.27

त्वां तु काञ्चनवर्णाभां दृष्ट्वा कौशेयवासिनीम्।
रतिं स्वकेषु दारेषु नाधिगच्छाम्यनिन्दिते ॥ ३.४७.२७ ॥

见你肤色如金,身着丝衣,无可指摘的女子啊,我在自己的妻子中已找不到欢愉。

3.47.28

बह्वीनामुत्तमस्त्रीणामाहृतानामितस्ततः।
सर्वासामेव भद्रं ते ममाग्रमहिषी भव ॥ ३.४७.२८ ॥

在被从各处掷来的众多优秀女子中,愿你吉祥:你做我的正妃吧。

3.47.29

लङ्का नाम समुद्रस्य मध्ये मम महापुरी।
सागरेण परिक्षिप्ता निविष्टा गिरिमूर्धनि ॥ ३.४७.२९ ॥

海洋中央有我的大城,名叫楞伽,被大海环绕,坐落在山巅之上。

3.47.30

तत्र सीते मया सार्धं वनेषु विचरिष्यसि।
न चास्य वनवासस्य स्पृहयिष्यसि भामिनि ॥ ३.४७.३० ॥

在那里,悉多啊,你将与我一同在林中游荡;女子啊,你甚至不会再怀念这森林的流放。

3.47.31

पञ्च दास्यः सहस्राणि सर्वाभरणभूषिताः।
सीते परिचरिष्यन्ति भार्या भवसि मे यदि ॥ ३.४७.३१ ॥

五千名侍女,身饰各种珠宝,悉多啊,若你成为我的妻子,她们将侍奉你。

3.47.32

रावणेनैवमुक्ता तु कुपिता जनकात्मजा।
प्रत्युवाचानवद्याङ्गी तमनादृत्य राक्षसम् ॥ ३.४७.३२ ॥

罗波那如此说道,生气的遮那伽之女、肢体无瑕的她,不理睬这个罗刹,回答了他。

3.47.33

महागिरिमिवाकम्प्यं महेन्द्रसदृशं पतिम्।
महोदधिमिवाक्षोभ्यमहं राममनुव्रता ॥ ३.४७.३३ ॥

我忠于我的丈夫罗摩,他如大山般不可撼动,与因陀罗相当,如大海般不可扰动。

3.47.34

सर्वलक्षणसम्पन्नं न्यग्रोधपरिमण्डलम्।
सत्यसंधं महाभागमहं राममनुव्रता ॥ ३.४७.३४ ॥

我忠于罗摩,他具备一切吉祥相,身形匀称如榕树,守信践诺,福德深厚。

3.47.35

महाबाहुं महोरस्कं सिंहविक्रान्तगामिनम्।
नृसिंहं सिंहसंकाशमहं राममनुव्रता ॥ ३.४७.३५ ॥

我忠于罗摩,他双臂有力,胸膛宽阔,行步如狮,人中之狮,状如雄狮。

3.47.36

पूर्णचन्द्राननं रामं राजवत्सं जितेन्द्रियम्।
पृथुकीर्तिं महाबाहुमहं राममनुव्रता ॥ ३.४७.३६ ॥

我忠于罗摩,他面如满月,是王子,自制其心,名声远扬,双臂有力。

3.47.37

त्वं पुनर्जम्बुकः सिंहीं मामिहेच्छसि दुर्लभाम्।
नाहं शक्या त्वया स्प्रष्टुमादित्यस्य प्रभा यथा ॥ ३.४७.३७ ॥

你不过是一只豺狼,却在此妄想我这难以得到的雌狮。正如不能触及太阳的光辉,你也不可能触碰我。

3.47.38

पादपान् काञ्चनान् नूनं बहून् पश्यसि मन्दभाक्।
राघवस्य प्रियां भार्यां यस्त्वमिच्छसि राक्षस ॥ ३.४७.३८ ॥

不幸的罗刹啊!你大概是看到了许多金色的树木,才会想要罗怙之子心爱的妻子。

3.47.39

क्षुधितस्य च सिंहस्य मृगशत्रोस्तरस्विनः।
आशीविषस्य वदनाद् दंष्ट्रामादातुमिच्छसि ॥ ३.४७.३९ ॥

你想从饥饿而迅猛的鹿之敌狮子口中,或从毒蛇口中拔取它的獠牙。

3.47.40

मन्दरं पर्वतश्रेष्ठं पाणिना हर्तुमिच्छसि।
कालकूटं विषं पीत्वा स्वस्तिमान् गन्तुमिच्छसि ॥ ३.४७.४० ॥

你想用手搬走山中最尊的曼陀罗山,或饮下迦罗俱吒毒后仍能平安离去。

3.47.41

अक्षि सूच्या प्रमृजसि जिह्वया लेढि च क्षुरम्।
राघवस्य प्रियां भार्यामधिगन्तुं त्वमिच्छसि ॥ ३.४७.४१ ॥

你想用针擦拭眼睛,用舌头舔剃刀;同样,你也想得到罗怙之后的爱妻。

3.47.42

अवसज्य शिलां कण्ठे समुद्रं तर्तुमिच्छसि।
सूर्याचन्द्रमसौ चोभौ पाणिभ्यां हर्तुमिच्छसि ॥ ३.४७.४२ ॥

你想颈上系着石头渡过大海,又想用双手抓住太阳和月亮。

3.47.43

यो रामस्य प्रियां भार्यां प्रधर्षयितुमिच्छसि।
अग्निं प्रज्वलितं दृष्ट्वा वस्त्रेणाहर्तुमिच्छसि ॥ ३.४७.४३ ॥

你想侵犯罗摩的爱妻,这就像看见熊熊烈火,想用布去抓住它一样。

3.47.44

कल्याणवृत्तां यो भार्यां रामस्याहर्तुमिच्छसि।
अयोमुखानां शूलानामग्रे चरितुमिच्छसि।
रामस्य सदृशीं भार्यां योऽधिगन्तुं त्वमिच्छसि ॥ ३.४७.४४ ॥

你想夺取德行美好的罗摩之妻,这就像想在铁尖长矛的尖端上行走。你想得到与罗摩相配的妻子,也是一样。

3.47.45

यदन्तरं सिंहसृगालयोर्वने
यदन्तरं स्यन्दनिकासमुद्रयोः।
सुराग्र्यसौवीरकयोर्यदन्तरं
तदन्तरं दाशरथेस्तवैव च ॥ ३.४७.४५ ॥

森林中狮子与豺狼之别,水洼与大海之别,美酒与酸粥之别,有多大,十车王之子罗摩与你之间的差别就有多大。

3.47.46

यदन्तरं काञ्चनसीसलोहयो-
र्यदन्तरं चन्दनवारिपङ्कयोः।
यदन्तरं हस्तिबिडालयोर्वने
तदन्तरं दाशरथेस्तवैव च ॥ ३.४७.४६ ॥

黄金与铅铁之别,檀香水与污泥之别,森林中大象与猫之别,有多大,十车王之子罗摩与你之间的差别就有多大。

3.47.47

यदन्तरं वायसवैनतेययो-
र्यदन्तरं मद्गुमयूरयोरपि।
यदन्तरं हंसकगृध्रयोर्वने
तदन्तरं दाशरथेस्तवैव च ॥ ३.४७.४७ ॥

乌鸦与金翅鸟之别,水鸟与孔雀之别,森林中天鹅与秃鹫之别,有多大,十车王之子罗摩与你之间的差别就有多大。

3.47.48

तस्मिन् सहस्राक्षसमप्रभावे
रामे स्थिते कार्मुकबाणपाणौ।
हृतापि तेऽहं न जरां गमिष्ये
आज्यं यथा मक्षिकयावगीर्णम् ॥ ३.४७.४८ ॥

只要罗摩——力量堪比千眼因陀罗——手持弓箭屹立,即使你把我掠走,我也不会衰老,正如被苍蝇吞下的酥油不会变质。

3.47.49

इतीव तद्वाक्यमदुष्टभावा
सुदुष्टमुक्त्वा रजनीचरं तम्।
गात्रप्रकम्पाद् व्यथिता बभूव
वातोद्धता सा कदलीव तन्वी ॥ ३.४७.४९ ॥

悉多心地纯洁,向那夜行者说了这般严厉的话,却因身体颤抖而痛苦不已,如同被风吹动的纤细芭蕉。

3.47.50

तां वेपमानामुपलक्ष्य सीतां
स रावणो मृत्युसमप्रभावः।
कुलं बलं नाम च कर्म चात्मनः
समाचचक्षे भयकारणार्थम् ॥ ३.४७.५० ॥

罗波那见悉多颤抖,其威力如同死神,便开始陈述自己的家族、力量、名号与事迹,以使她心生恐惧。