蚁垤《罗摩衍那》 · 篇 3.50
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.50.1
तं शब्दमवसुप्तस्तु जटायुरथ शुश्रुवे।
निरैक्षद् रावणं क्षिप्रं वैदेहीं च ददर्श सः ॥ ३.५०.१ ॥
半睡半醒中的迦塔由听到了那声音。他立刻望去,看见了罗波那,也看见了毗提诃。
3.50.2
ततः पर्वतशृङ्गाभस्तीक्ष्णतुण्डः खगोत्तमः।
वनस्पतिगतः श्रीमान् व्याजहार शुभां गिरम् ॥ ३.५०.२ ॥
于是,如山峰般、喙尖锐的鸟中之王迦塔由,栖息在树上,光辉的他说出了吉祥的话语。
3.50.3
दशग्रीव स्थितो धर्मे पुराणे सत्यसंश्रयः।
भ्रातस्त्वं निन्दितं कर्म कर्तुं नार्हसि साम्प्रतम् ॥ ३.५०.३ ॥
十首的罗波那啊!你坚守古老的法,依止于真实。兄弟,此刻你不应当做这桩可耻的行为。
3.50.4
जटायुर्नाम नाम्नाहं गृध्रराजो महाबलः।
राजा सर्वस्य लोकस्य महेन्द्रवरुणोपमः ॥ ३.५०.४ ॥
我名叫迦塔由,是秃鹫之王,大力无比,是一切世界的君王,与因陀罗和伐楼那相似。
3.50.5
लोकानां च हिते युक्तो रामो दशरथात्मजः।
तस्यैषा लोकनाथस्य धर्मपत्नी यशस्विनी ॥ ३.५०.५ ॥
十车王之子罗摩,致力于世界的福祉,是世界之主;这位名声显赫的女子,是他依法的妻子。
3.50.6
सीता नाम वरारोहा यां त्वं हर्तुमिहेच्छसि।
कथं राजा स्थितो धर्मे परदारान् परामृशेत् ॥ ३.५०.६ ॥
你在此想要夺走的,名叫悉多,有着美丽的腰身。站在法上的君王,怎能触碰他人的妻子呢?
3.50.7
रक्षणीया विशेषेण राजदारा महाबल।
निवर्तय गतिं नीचां परदाराभिमर्शनात् ॥ ३.५०.७ ॥
大力者啊,国王的妻子尤应守护。请收回这种触碰他人妻子的卑劣行径。
3.50.8
न तत् समाचरेद् धीरो यत् परोऽस्य विगर्हयेत्।
यथाऽऽत्मनस्तथान्येषां दारा रक्ष्या विमर्शनात् ॥ ३.५०.८ ॥
坚定之人不做他人所非议之事。如同守护自己的妻子,也应守护他人之妻,不使其被触碰。
3.50.9
अर्थं वा यदि वा कामं शिष्टाः शास्त्रेष्वनागतम्।
व्यवस्यन्त्यनुराजानं धर्मं पौलस्त्यनन्दन ॥ ३.५०.९ ॥
即便是经典未载的财富或欲望之事,贤人也依从君王而判定法义。啊,补罗斯底耶之子。
3.50.10
राजा धर्मश्च कामश्च द्रव्याणां चोत्तमो निधिः।
धर्मः शुभं वा पापं वा राजमूलं प्रवर्तते ॥ ३.५०.१० ॥
君王即是法与欲,也是诸财中最上的宝藏。法无论善恶,皆从君王之根而生。
3.50.11
पापस्वभावश्चपलः कथं त्वं रक्षसां वर।
ऐश्वर्यमभिसम्प्राप्तो विमानमिव दुष्कृती ॥ ३.५०.११ ॥
罗刹之中的最上者啊,你本性罪孽且反复无常,怎能得到这般权势?就像作恶之人得到飞车一般。
3.50.12
कामस्वभावो यःसोऽसौ न शक्यस्तं प्रमार्जितुम्।
नहि दुष्टात्मनामार्यमावसत्यालये चिरम् ॥ ३.५०.१२ ॥
以欲为本性之人,无法将其抹去。高尚之人不会久居恶念之人的住所。
3.50.13
विषये वा पुरे वा ते यदा रामो महाबलः।
नापराध्यति धर्मात्मा कथं तस्यापराध्यसि ॥ ३.५०.१३ ॥
在你的国土或城中,当大力的罗摩并无过失之时,你为何竟去冒犯正法之心的罗摩呢?
3.50.14
यदि शूर्पणखाहेतोर्जनस्थानगतः खरः।
अतिवृत्तो हतः पूर्वं रामेणाक्लिष्टकर्मणा ॥ ३.५०.१४ ॥
若住在人住处的哭羅因为首爾帕那卡而越界,那么他早先已被行事不费力的罗摩杀死了。
3.50.15
अत्र ब्रूहि यथातत्त्वं को रामस्य व्यतिक्रमः।
यस्य त्वं लोकनाथस्य हृत्वा भार्यां गमिष्यसि ॥ ३.५०.१५ ॥
请你在此如实说:世界之主罗摩有何过错,你竟要夺取他的妻子而去?
3.50.16
क्षिप्रं विसृज वैदेहीं मा त्वा घोरेण चक्षुषा।
दहेद् दहनभूतेन वृत्रमिन्द्राशनिर्यथा ॥ ३.५०.१६ ॥
速将毗提诃公主放回,免得她那可怖的目光如火焚烧你,正如因陀罗的金刚杵焚烧弗栗多。
3.50.17
सर्पमाशीविषं बद्ध्वा वस्त्रान्ते नावबुध्यसे।
ग्रीवायां प्रतिमुक्तं च कालपाशं न पश्यसि ॥ ३.५०.१७ ॥
你把有毒的蛇系在衣角,竟不察觉;颈上套着死神的绳索,你也看不见。
3.50.18
स भारः सौम्य भर्तव्यो यो नरं नावसादयेत्।
तदन्नमपि भोक्तव्यं जीर्यते यदनामयम् ॥ ३.५०.१८ ॥
善良的人啊,应当承担的重担,是不会压垮人的;应当吃的食物,是消化后无病有益的。
3.50.19
यत् कृत्वा न भवेद् धर्मो न कीर्तिर्न यशो ध्रुवम्।
शरीरस्य भवेत् खेदः कस्तत् कर्म समाचरेत् ॥ ३.५०.१९ ॥
什么行为既不能成就法(dharma),也不能带来名声与确定的荣誉,只让身体受苦?谁会去做这样的事呢?
3.50.20
षष्टिवर्षसहस्राणि जातस्य मम रावण।
पितृपैतामहं राज्यं यथावदनुतिष्ठतः ॥ ३.५०.२० ॥
罗波那啊,自我出生以来已经六万年了,我一直如法地治理着父亲和祖父传下的王国。
3.50.21
वृद्धोऽहं त्वं युवा धन्वी सरथः कवची शरी।
न चाप्यादाय कुशली वैदेहीं मे गमिष्यसि ॥ ३.५०.२१ ॥
我虽年老,你却年轻,有弓、有战车、有铠甲、有箭;但在我面前,你不能带着维德赫希安然离去。
3.50.22
न शक्तस्त्वं बलाद्धर्तुं वैदेहीं मम पश्यतः।
हेतुभिर्न्यायसंयुक्तैर्ध्रुवां वेदश्रुतीमिव ॥ ३.५०.२२ ॥
在我眼前,你不能强行夺走维德赫希,正如没有正当的道理能动摇吠陀的恒定圣训。
3.50.23
युध्यस्व यदि शूरोऽसि मुहूर्तं तिष्ठ रावण।
शयिष्यसे हतो भूमौ यथा पूर्वं खरस्तथा ॥ ३.५०.२३ ॥
罗波那啊,如果你勇敢,就来战斗吧,且站片刻。正如从前卡罗被杀倒在地上,你也将被杀,倒卧于地。
3.50.24
असकृत्संयुगे येन निहता दैत्यदानवाः।
न चिराच्चीरवासास्त्वां रामो युधि वधिष्यति ॥ ३.५०.२४ ॥
曾在战场上多次杀死魔类与达那婆的那位身着树皮衣的罗摩,不久便会在战斗中杀死你。
3.50.25
किं नु शक्यं मया कर्तुं गतौ दूरं नृपात्मजौ।
क्षिप्रं त्वं नश्यसे नीच तयोर्भीतो न संशयः ॥ ३.५०.२५ ॥
两位王子已经远去,我还能做什么?卑劣之徒,你必因畏惧他们而很快毁灭,毫无疑问。
3.50.26
नहि मे जीवमानस्य नयिष्यसि शुभामिमाम्।
सीतां कमलपत्राक्षीं रामस्य महिषीं प्रियाम् ॥ ३.५०.२६ ॥
只要我还活着,你就休想带走这位吉祥的莲花瓣眼睛的悉多,罗摩心爱的正妃。
3.50.27
अवश्यं तु मया कार्यं प्रियं तस्य महात्मनः।
जीवितेनापि रामस्य तथा दशरथस्य च ॥ ३.५०.२७ ॥
我必须为那位大德之人做他所喜爱之事:为罗摩,也为十车王,即使付出生命。
3.50.28
तिष्ठ तिष्ठ दशग्रीव मुहूर्तं पश्य रावण।
वृन्तादिव फलं त्वां तु पातयेयं रथोत्तमात्।
युद्धातिथ्यं प्रदास्यामि यथाप्राणं निशाचर ॥ ३.५०.२८ ॥
站住,站住,十首的罗刹!暂且停下看看,罗波那!如同从果柄上摘下果实,我要把你从这辆上好的战车上打落。夜行者啊,只要我还有一口气,就要以战斗为你设宴款待。