ヴァールミーキのラーマーヤナ · サルガ 3.53
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.53.1
खमुत्पतन्तं तं दृष्ट्वा मैथिली जनकात्मजा।
दुःखिता परमोद्विग्ना भये महति वर्तिनी ॥ ३.५३.१ ॥
空へ舞い上がっていく彼を見て、ジャナカの娘マイティリーは深く悲しみ、ひどく動揺して、大きな恐怖に陥った。
3.53.2
रोषरोदनताम्राक्षी भीमाक्षं राक्षसाधिपम्।
रुदती करुणं सीता ह्रियमाणा तमब्रवीत् ॥ ३.५३.२ ॥
怒りと涙で目を赤くしたシーターは、連れ去られながら哀れに泣き、恐ろしい目をした羅刹王に語りかけた。
3.53.3
न व्यपत्रपसे नीच कर्मणानेन रावण।
ज्ञात्वा विरहितां यो मां चोरयित्वा पलायसे ॥ ३.५३.३ ॥
卑しいラーヴァナよ、この行いを恥じないのか。夫から離れていると知って、私を盗んで逃げるのか!
3.53.4
त्वयैव नूनं दुष्टात्मन् भीरुणा हर्तुमिच्छता।
ममापवाहितो भर्ता मृगरूपेण मायया ॥ ३.५३.४ ॥
邪悪な心の者よ!私を奪おうと望んだ臆病者のお前が、鹿の姿の幻術で私の夫を遠ざけたに違いない。
3.53.5
यो हि मामुद्यतस्त्रातुं सोऽप्ययं विनिपातितः।
गृध्रराजः पुराणोऽसौ श्वशुरस्य सखा मम ॥ ३.५३.५ ॥
私を守ろうと立ち上がった、古き禿鷹の王、義父の友も、お前に打ち倒されてしまった。
3.53.6
परमं खलु ते वीर्यं दृश्यते राक्षसाधम।
विश्राव्य नामधेयं हि युद्धे नास्मि जिता त्वया ॥ ३.५३.६ ॥
卑しき羅刹よ、お前の武勇は確かに大きく見える。しかし、名を名乗って正々堂々と戦い、私を打ち負かしたわけではない。
3.53.7
ईदृशं गर्हितं कर्म कथं कृत्वा न लज्जसे।
स्त्रियाश्चाहरणं नीच रहिते च परस्य च ॥ ३.५३.७ ॥
これほど非難されるべき行いをしておきながら、恥ずかしくないのか、卑劣な者よ。人目のないところで他人の妻を奪うとは。
3.53.8
कथयिष्यन्ति लोकेषु पुरुषाः कर्म कुत्सितम्।
सुनृशंसमधर्मिष्ठं तव शौटीर्यमानिनः ॥ ३.५३.८ ॥
人々は世の中で、お前のこの卑しく、極めて残忍で、不正な行いを語るだろう。自らの武勇を誇る者よ!
3.53.9
धिक् ते शौर्यं च सत्त्वं च यत्त्वया कथितं तदा।
कुलाक्रोशकरं लोके धिक् ते चारित्रमीदृशम् ॥ ३.५३.९ ॥
あの時お前が誇った武勇と勇気は恥ずべきものだ。世に家名を辱めるお前のこの振る舞いもまた恥ずべきだ。
3.53.10
किं शक्यं कर्तुमेवं हि यज्जवेनैव धावसि।
मुहूर्तमपि तिष्ठ त्वं न जीवन् प्रतियास्यसि ॥ ३.५३.१० ॥
そんなに速く逃げて何になる?せめて一瞬でも止まれ。生きて帰ることはできないのだ。
3.53.11
नहि चक्षुःपथं प्राप्य तयोः पार्थिवपुत्रयोः।
ससैन्योऽपि समर्थस्त्वं मुहूर्तमपि जीवितुम् ॥ ३.५३.११ ॥
あの二人の王子の目に触れれば、軍勢を率いていても、お前は一瞬たりとも生きてはいられまい。
3.53.12
न त्वं तयोः शरस्पर्शं सोढुं शक्तः कथंचन।
वने प्रज्वलितस्येव स्पर्शमग्नेर्विहंगमः ॥ ३.५३.१२ ॥
お前は彼らの矢の触れ合いをどうしても耐えることはできない。森で燃え盛る火に鳥が触れて耐えられないように。
3.53.13
साधु कृत्वाऽऽत्मनः पथ्यं साधु मां मुञ्च रावण।
मत्प्रधर्षणसंक्रुद्धो भ्रात्रा सह पतिर्मम ॥ ३.५३.१३ ॥
ラーヴァナよ、自分にとって益となることを善く行い、私を善く解き放て。私が辱められたことに怒った夫が、弟と共に来るだろう。
3.53.14
विधास्यति विनाशाय त्वं मां यदि न मुञ्चसि।
येन त्वं व्यवसायेन बलान्मां हर्तुमिच्छसि ॥ ३.५३.१४ ॥
もしお前が私を解き放たなければ、力ずくで私を奪おうとするその企てが、お前の破滅をもたらすだろう。
3.53.15
व्यवसायस्तु ते नीच भविष्यति निरर्थकः।
नह्यहं तमपश्यन्ती भर्तारं विबुधोपमम् ॥ ३.५३.१५ ॥
卑しき者よ、お前の企ては無益に終わるだろう。神々に等しい私の夫を見ずして、私は(生きてはいられない)。
3.53.16
उत्सहे शत्रुवशगा प्राणान् धारयितुं चिरम्।
न नूनं चात्मनः श्रेयः पथ्यं वा समवेक्षसे ॥ ३.५३.१६ ॥
敵の手中にある私は、長く命を保つことはできない。きっとお前は自らの幸福や益を考えていないのだ。
3.53.17
मृत्युकाले यथा मर्त्यो विपरीतानि सेवते।
मुमूर्षूणां तु सर्वेषां यत् पथ्यं तन्न रोचते ॥ ३.५३.१७ ॥
死の時に人間が逆のものを求めるように、死にゆく者すべてにとって益となるものは気に入らないものだ。
3.53.18
पश्यामीह हि कण्ठे त्वां कालपाशावपाशितम्।
यथा चास्मिन् भयस्थाने न बिभेषि निशाचर ॥ ३.५३.१८ ॥
ここでお前の首に死の縄が掛けられているのが見える。夜を彷徨う者よ、この恐怖の地にあって、なぜお前は恐れないのか。
3.53.19
व्यक्तं हिरण्मयांस्त्वं हि सम्पश्यसि महीरुहान्।
नदीं वैतरणीं घोरां रुधिरौघविवाहिनीम् ॥ ३.५३.१९ ॥
あなたは確かに黄金の木々と、血の流れをたたえる恐ろしいヴァイタラニー川を見ているのだ。
3.53.20
खड्गपत्रवनं चैव भीमं पश्यसि रावण।
तप्तकाञ्चनपुष्पां च वैदूर्यप्रवरच्छदाम् ॥ ३.५३.२० ॥
ラーヴァナよ、あなたは剣の葉をつけた恐ろしい森も見ている。その花は熱せられた黄金、葉は極上の猫目石である。
3.53.21
द्रक्ष्यसे शाल्मलीं तीक्ष्णामायसैः कण्टकैश्चिताम्।
नहि त्वमीदृशं कृत्वा तस्यालीकं महात्मनः ॥ ३.५३.२१ ॥
鉄の鋭い棘に覆われた鋭いシャールマリ樹をあなたは見るだろう。あの大いなる魂の人に、このような不正を働いたのだから……
3.53.22
धारितुं शक्ष्यसि चिरं विषं पीत्वेव निर्घृण।
बद्धस्त्वं कालपाशेन दुर्निवारेण रावण ॥ ३.५३.२२ ॥
無慈悲な者よ、毒を飲んだ者が長くは耐えられないように、あなたも長くは耐えられまい。ラーヴァナよ、あなたは逃れられぬ死の縄に縛られている。
3.53.23
क्व गतो लप्स्यसे शर्म मम भर्तुर्महात्मनः।
निमेषान्तरमात्रेण विना भ्रातरमाहवे ॥ ३.५३.२३ ॥
戦場に弟を残し、我が偉大な夫から一瞬でも離れて、いったいどこへ行けば安らぎを得られるというのか。
3.53.24
राक्षसा निहता येन सहस्राणि चतुर्दश।
कथं स राघवो वीरः सर्वास्त्रकुशलो बली ॥ ३.५३.२४ ॥
一万四千の羅刹を討ち倒した英雄ラーガヴァは、あらゆる武器に通じた力強い方であるのに、どうして……
3.53.25
न त्वां हन्याच्छरैस्तीक्ष्णैरिष्टभार्यापहारिणम्।
एतच्चान्यच्च परुषं वैदेही रावणाङ्कगा।
भयशोकसमाविष्टा करुणं विललाप ह ॥ ३.५३.२५ ॥
愛する妻を奪ったお前を、彼は必ず鋭い矢で殺すだろう。——このように、またさらに厳しい言葉を述べながら、ラーヴァナの膝に座したヴァイデーヒーは、恐怖と悲しみに満たされ、哀れに嘆き悲しんだ。
3.53.26
तदा भृशार्तां बहु चैव भाषिणीं
विलापपूर्वं करुणं च भामिनीम्।
जहार पापस्तरुणीं विचेष्टतीं
नृपात्मजामागतगात्रवेपथुः ॥ ३.५३.२६ ॥
その時、非常に苦しみ、多くを語り、悲しみ深く嘆き悲しむ、その美しい女性を、もがき苦しむその若い王女を、悪人は身体を震わせながら奪い去った。