ヴァールミーキのラーマーヤナ · サルガ 3.54
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.54.1
ह्रियमाणा तु वैदेही कंचिन्नाथमपश्यती।
ददर्श गिरिशृङ्गस्थान् पञ्च वानरपुङ्गवान् ॥ ३.५४.१ ॥
連れ去られながら、守ってくれる者を見いだせなかったヴァイデーヒーは、山頂に立つ五匹の優れた猿を見た。
3.54.2
तेषां मध्ये विशालाक्षी कौशेयं कनकप्रभम्।
उत्तरीयं वरारोहा शुभान्याभरणानि च ॥ ३.५४.२ ॥
彼らの中で、大きな目と美しい腰を持つ彼女は、金色に輝く絹の上衣と吉祥の装身具を落とした。
3.54.3
मुमोच यदि रामाय शंसेयुरिति भामिनी।
वस्त्रमुत्सृज्य तन्मध्ये निक्षिप्तं सहभूषणम् ॥ ३.५४.३ ॥
「もし彼らがラーマに伝えてくれたら」と思い、その情熱的な女性は衣を放し、装身具と共に彼らの真ん中へ投げ落とした。
3.54.4
सम्भ्रमात् तु दशग्रीवस्तत्कर्म च न बुद्धवान्।
पिङ्गाक्षास्तां विशालाक्षीं नेत्रैरनिमिषैरिव ॥ ३.५४.४ ॥
しかし慌てていたため、十首の王はその行為に気づかなかった。黄色い目の猿たちは、まばたきもせず大きな目の女性を見つめていた。
3.54.5
विक्रोशन्तीं तदा सीतां ददृशुर्वानरोत्तमाः।
स च पम्पामतिक्रम्य लङ्कामभिमुखः पुरीम् ॥ ३.५४.५ ॥
そのとき、優れた猿たちは叫び声をあげるシーターを見た。そして彼はパンパー湖を渡り、ランカーの都の方へ向かって進んだ。
3.54.6
जगाम मैथिलीं गृह्य रुदतीं राक्षसेश्वरः।
तां जहार सुसंहृष्टो रावणो मृत्युमात्मनः ॥ ३.५४.६ ॥
羅刹の王は泣くマイティリーを捕らえて去った。大いに喜んだラーヴァナは彼女をさらった。まるで自らの死をさらうかのように。
3.54.7
उत्सङ्गेनैव भुजगीं तीक्ष्णदंष्ट्रां महाविषाम्।
वनानि सरितः शैलान् सरांसि च विहायसा ॥ ३.५४.७ ॥
羅刹王は泣くマithilīを膝に抱き、鋭い牙と猛毒をもつ蛇を抱えるように、空路を森や川、山や湖の上を越えて運び去った。
3.54.8
स क्षिप्रं समतीयाय शरश्चापादिव च्युतः।
तिमिनक्रनिकेतं तु वरुणालयमक्षयम् ॥ ३.५४.८ ॥
弓から放たれた矢のように速く、彼は海を越えた。そこは大魚と鰐の棲む所、ヴァルナの尽きることなき館である。
3.54.9
सरितां शरणं गत्वा समतीयाय सागरम्।
सम्भ्रमात् परिवृत्तोर्मी रुद्धमीनमहोरगः ॥ ३.५४.९ ॥
川々の庇護を得て彼は海を渡った。動揺した波は引き返し、魚と大蛇はその場に止められた。
3.54.10
वैदेह्यां ह्रियमाणायां बभूव वरुणालयः।
अन्तरिक्षगता वाचः ससृजुश्चारणास्तदा ॥ ३.५४.१० ॥
ヴァイデーヒーが運び去られたとき、ヴァルナの館である海は揺れ動いた。そのとき空を行く天の歌人たちが声を上げた。
3.54.11
एतदन्तो दशग्रीव इति सिद्धास्तथाब्रुवन्।
स तु सीतां विचेष्टन्तीमङ्केनादाय रावणः ॥ ३.५४.११ ॥
「これが十頭の者の最期だ」と聖者たちは言った。ラーヴァナは身をよじる悉多を膝に抱いて連れ去った。
3.54.12
प्रविवेश पुरीं लङ्कां रूपिणीं मृत्युमात्मनः।
सोऽभिगम्य पुरीं लङ्कां सुविभक्तमहापथाम् ॥ ३.५४.१२ ॥
彼は自らの死の姿そのものである都ランカーに入った。整然と区画された大通りをもつランカー市に近づいたのである。
3.54.13
संरूढकक्ष्यां बहुलां स्वमन्तःपुरमाविशत्।
तत्र तामसितापाङ्गीं शोकमोहसमन्विताम् ॥ ३.५४.१३ ॥
彼は警護の厳重な広い自らの後宮に入り、そこに黒い目尻の、悲しみと混乱に満ちたシータを置いた。
3.54.14
निदधे रावणः सीतां मयो मायामिवासुरीम्।
अब्रवीच्च दशग्रीवः पिशाचीर्घोरदर्शनाः ॥ ३.५४.१४ ॥
マヤが阿修羅の幻術を置いたように、ラーヴァナはシータをそこに置いた。十頭の王は恐ろしい姿のピシャーチーたちに言った。
3.54.15
यथा नैनां पुमान् स्त्री वा सीतां पश्यत्यसम्मतः।
मुक्तामणिसुवर्णानि वस्त्राण्याभरणानि च ॥ ३.५४.१५ ॥
私の許しなく男も女も彼女を見ないように。そして真珠、宝石、金、衣服、装飾品を彼女に与えること。
3.54.16
यद् यदिच्छेत् तदैवास्या देयं मच्छन्दतो यथा।
या च वक्ष्यति वैदेहीं वचनं किंचिदप्रियम् ॥ ३.५४.१६ ॥
彼女が望むものは何でも、私の意思どおりすぐに与えること。そしてヴァイデーヒーに不快な言葉を一言でも告げる者は——
3.54.17
अज्ञानाद् यदि वा ज्ञानान्न तस्या जीवितं प्रियम्।
तथोक्त्वा राक्षसीस्तास्तु राक्षसेन्द्रः प्रतापवान् ॥ ३.५४.१७ ॥
無知からであれ故意であれ、彼女の命は大切なものとはならない。こうして羅刹女たちにそう告げると、威力ある羅刹王は——
3.54.18
निष्क्रम्यान्तःपुरात् तस्मात् किं कृत्यमिति चिन्तयन्।
ददर्शाष्टौ महावीर्यान् राक्षसान् पिशिताशनान् ॥ ३.५४.१८ ॥
その後宮を出て、何をなすべきかと思案しながら、彼は強大な肉食の羅刹八人を見た。
3.54.19
स तान् दृष्ट्वा महावीर्यो वरदानेन मोहितः।
उवाच तानिदं वाक्यं प्रशस्य बलवीर्यतः ॥ ३.५४.१९ ॥
大いなる力を持つ彼は、彼らを見て、授かった恩恵に惑わされ、その力と勇気を称えながら、このように言った。
3.54.20
नानाप्रहरणाः क्षिप्रमितो गच्छत सत्वराः।
जनस्थानं हतस्थानं भूतपूर्वं खरालयम् ॥ ३.५४.२० ॥
様々な武器を携え、ここから速やかにジャナスターナへ行け。そこは以前カラの住まいであったが、今は殺戮の地となっている。
3.54.21
तत्रास्यतां जनस्थाने शून्ये निहतराक्षसे।
पौरुषं बलमाश्रित्य त्रासमुत्सृज्य दूरतः ॥ ३.५४.२१ ॥
羅刹が殺されて空になったジャナスターナに陣を構えよ。勇気と力を頼みとし、恐れを遠くへ捨て去れ。
3.54.22
बहुसैन्यं महावीर्यं जनस्थाने निवेशितम्।
सदूषणखरं युद्धे निहतं रामसायकैः ॥ ३.५४.२२ ॥
ジャナスターナには大いなる勇猛な大軍が配置されていた。ドゥーシャナとカラを含め、彼らは皆、戦いでラーマの矢に倒れた。
3.54.23
ततः क्रोधो ममापूर्वो धैर्यस्योपरि वर्धते।
वैरं च सुमहज्जातं रामं प्रति सुदारुणम् ॥ ३.५४.२३ ॥
そのとき、これまで一度もなかった怒りが、私の堅忍を超えて募っている。そして、ラーマに対する大きく極めて激しい敵意が生まれた。
3.54.24
निर्यातयितुमिच्छामि तच्च वैरं महारिपोः।
नहि लप्स्याम्यहं निद्रामहत्वा संयुगे रिपुम् ॥ ३.५४.२४ ॥
その大敵へ、あの敵意の報いを果たしたい。戦いで敵を討たぬ限り、私は眠ることなどできないだろう。
3.54.25
तं त्विदानीमहं हत्वा खरदूषणघातिनम्।
रामं शर्मोपलप्स्यामि धनं लब्ध्वेव निर्धनः ॥ ३.५४.२५ ॥
カラとドゥーシャナを殺したあのラーマを今殺して、貧者が富を得るように、私は安らぎを得るであろう。
3.54.26
जनस्थाने वसद्भिस्तु भवद्भी राममाश्रिता।
प्रवृत्तिरुपनेतव्या किं करोतीति तत्त्वतः ॥ ३.५४.२६ ॥
ジャナスターナに住むあなたたちは、ラーマに近づき、彼が何をしているかを真実に伝えよ。
3.54.27
अप्रमादाच्च गन्तव्यं सर्वैरेव निशाचरैः।
कर्तव्यश्च सदा यत्नो राघवस्य वधं प्रति ॥ ३.५४.२७ ॥
すべての夜行者は怠りなく行くべきであり、ラーガヴァを殺すために常に努力すべきである。
3.54.28
युष्माकं तु बलं ज्ञातं बहुशो रणमूर्धनि।
अतश्चास्मिञ्जनस्थाने मया यूयं निवेशिताः ॥ ३.५४.२८ ॥
戦いの最前線であなたたちの力を幾度も知ってきた。だからこそ私はあなたたちをこのジャナスターナに配置したのだ。
3.54.29
ततः प्रियं वाक्यमुपेत्य राक्षसा
महार्थमष्टावभिवाद्य रावणम्।
विहाय लङ्कां सहिताः प्रतस्थिरे
यतो जनस्थानमलक्ष्यदर्शनाः ॥ ३.५४.२९ ॥
そこで羅刹たちは、喜ばしく大いなる目的を持つその言葉を聞き、ラーヴァナに礼をして、ともにランカを去り、ジャナスターナへ向かった。その姿は見えにくかった。
3.54.30
ततस्तु सीतामुपलभ्य रावणः
सुसम्प्रहृष्टः परिगृह्य मैथिलीम्।
प्रसज्य रामेण च वैरमुत्तमं
बभूव मोहान्मुदितः स रावणः ॥ ३.५४.३० ॥
そこでラーヴァナはシーターを見つけて大いに喜んだ。マイティリーを捕らえ、ラーマと最大の敵意を結んで、迷いのゆえに喜んだのである。