Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 3.55

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.55.1

संदिश्य राक्षसान् घोरान् रावणोऽष्टौ महाबलान्।
आत्मानं बुद्धिवैक्लव्यात् कृत्कृत्यममन्यत ॥ ३.५५.१ ॥

罗波那向八名凶猛强大的罗刹发出命令后,因心神迷乱,以为自己的事已经办成。

3.55.2

स चिन्तयानो वैदेहीं कामबाणैः प्रपीडितः।
प्रविवेश गृहं रम्यं सीतां द्रष्टुमभित्वरन् ॥ ३.५५.२ ॥

他思念着毗提诃公主,被欲望之箭所折磨,急切地走进华美的宫室,想要见到悉多。

3.55.3

स प्रविश्य तु तद्वेश्म रावणो राक्षसाधिपः।
अपश्यद् राक्षसीमध्ये सीतां दुःखपरायणाम् ॥ ३.५५.३ ॥

罗波那进入那座宫室,在罗刹女中间看见完全沉浸在悲痛中的悉多。

3.55.4

अश्रुपूर्णमुखीं दीनां शोकभारावपीडिताम्।
वायुवेगैरिवाक्रान्तां मज्जन्तीं नावमर्णवे ॥ ३.५५.४ ॥

她满脸泪水,哀戚凄苦,被悲痛的重负压垮,好似被狂风猛击、正沉没于大海中的小船。

3.55.5

मृगयूथपरिभ्रष्टां मृगीं श्वभिरिवावृताम्।
अधोगतमुखीं सीतां तामभ्येत्य निशाचरः ॥ ३.५५.५ ॥

像一只离群的母鹿被群犬围住,悉多低垂着面孔;那夜行者走近她。

3.55.6

तां तु शोकवशाद् दीनामवशां राक्षसाधिपः।
सबलाद् दर्शयामास गृहं देवगृहोपमम् ॥ ३.५५.६ ॥

悉多为悲痛所控,凄苦无助;罗刹之主便强迫她看那座如同天神庙宇的宫室。

3.55.7

हर्म्यप्रासादसम्बाधं स्त्रीसहस्रनिषेवितम्।
नानापक्षिगणैर्जुष्टं नानारत्नसमन्वितम् ॥ ३.५५.७ ॥

那座宫殿殿堂楼阁林立,有千名女子侍奉,各种鸟群栖居其中,并以种种珍宝装饰。

3.55.8

दान्तकैस्तापनीयैश्च स्फाटिकै राजतैस्तथा।
वज्रवैदूर्यचित्रैश्च स्तम्भैर्दृष्टिमनोरमैः ॥ ३.५५.८ ॥

其柱以象牙、精金、水晶和白银制成,镶嵌着钻石与琉璃,色彩斑斓,悦目赏心。

3.55.9

दिव्यदुन्दुभिनिर्घोषं तप्तकाञ्चनभूषणम्।
सोपानं काञ्चनं चित्रमारुरोह तया सह ॥ ३.५५.९ ॥

他与她一同登上那座金光闪闪的奇妙阶梯,阶梯回响如天鼓,饰以精金。

3.55.10

दान्तका राजताश्चैव गवाक्षाः प्रियदर्शनाः।
हेमजालावृताश्चासंस्तत्र प्रासादपङ्क्तयः ॥ ३.५५.१० ॥

那里排列着一座座宫殿,象牙与白银的窗棂悦目动人,覆以金制的格栅。

3.55.11

सुधामणिविचित्राणि भूमिभागानि सर्वशः।
दशग्रीवः स्वभवने प्रादर्शयत मैथिलीम् ॥ ३.५५.११ ॥

十首罗波那在自己的居所中,四处向弥提利展示以光滑灰泥和宝石装饰的地面。

3.55.12

दीर्घिकाः पुष्करिण्यश्च नानापुष्पसमावृताः।
रावणो दर्शयामास सीतां शोकपरायणाम् ॥ ३.५५.१२ ॥

罗波那向沉浸于悲伤中的悉多展示那些长池与莲池,池上覆满各色花朵。

3.55.13

दर्शयित्वा तु वैदेहीं कृत्स्नं तद्भवनोत्तमम्।
उवाच वाक्यं पापात्मा सीतां लोभितुमिच्छया ॥ ३.५५.१३ ॥

罗波那向毗提诃公主展示了整座华美宫殿后,这个心怀邪念的人出于诱惑悉多的意图,说出了这些话。

3.55.14

दश राक्षसकोट्यश्च द्वाविंशतिरथापराः।
वर्जयित्वा जरावृद्धान् बालांश्च रजनीचरान् ॥ ३.५५.१४ ॥

有一千万罗刹,另有二十二名战车武士,不计年老体衰者、孩童和夜行者。

3.55.15

तेषां प्रभुरहं सीते सर्वेषां भीमकर्मणाम्।
सहस्रमेकमेकस्य मम कार्यपुरःसरम् ॥ ३.५५.१५ ॥

悉多啊,我是那些行事残暴者的主宰;他们每一个之下都有一千人,走在前面替我执行任务。

3.55.16

यदिदं राज्यतन्त्रं मे त्वयि सर्वं प्रतिष्ठितम्।
जीवितं च विशालाक्षि त्वं मे प्राणैर्गरीयसी ॥ ३.५५.१६ ॥

我这整个王国的治理都系于你身;广目的女子啊,你比我的生命之气还要珍贵。

3.55.17

बह्वीनामुत्तमस्त्रीणां मम योऽसौ परिग्रहः।
तासां त्वमीश्वरी सीते मम भार्या भव प्रिये ॥ ३.५५.१७ ॥

我拥有的众多优秀女子,你将成为她们所有人的主母;悉多啊,我的爱人,成为我的妻子吧。

3.55.18

साधु किं तेऽन्यथाबुद्ध्या रोचयस्व वचो मम।
भजस्व माभितप्तस्य प्रसादं कर्तुमर्हसि ॥ ३.५५.१८ ॥

好吧,你为何要以错误的心念拒绝?请接受我的话;投靠我这受煎熬的人吧,你应当施恩于我。

3.55.19

परिक्षिप्ता समुद्रेण लङ्केयं शतयोजना।
नेयं धर्षयितुं शक्या सेन्द्रैरपि सुरासुरैः ॥ ३.५५.१९ ॥

此楞伽城被大海环绕,方圆百由旬,即使因陀罗率领诸天与阿修罗,也无法攻破。

3.55.20

न देवेषु न यक्षेषु न गन्धर्वेषु नर्षिषु।
अहं पश्यामि लोकेषु यो मे वीर्यसमो भवेत् ॥ ३.५५.२० ॥

在诸天、夜叉、乾闼婆与仙人之中,乃至诸世界中,我看不到有谁能与我的威力相当。

3.55.21

राज्यभ्रष्टेन दीनेन तापसेन पदातिना।
किं करिष्यसि रामेण मानुषेणाल्पतेजसा ॥ ३.५५.२१ ॥

你与罗摩这个失去王国、困苦、为苦行者、徒步而行、光芒微弱的凡人,又能有什么作为呢?

3.55.22

भजस्व सीते मामेव भर्ताहं सदृशस्तव।
यौवनं त्वध्रुवं भीरु रमस्वेह मया सह ॥ ३.५५.२२ ॥

悉多啊,你就接受我吧,我是与你相配的丈夫。胆怯的人啊,青春是不长久的;就在这里与我同乐吧。

3.55.23

दर्शने मा कृथा बुद्धिं राघवस्य वरानने।
कास्य शक्तिरिहागन्तुमपि सीते मनोरथैः ॥ ३.५५.२३ ॥

美丽的女子啊,不要再想着见到罗怙之子了。悉多啊,即便只是心中的渴望,他又有什么能力来到这里呢?

3.55.24

न शक्यो वायुराकाशे पाशैर्बद्धुं महाजवः।
दीप्यमानस्य वाप्यग्नेर्ग्रहीतुं विमलाः शिखाः ॥ ३.५५.२४ ॥

正如天空中迅疾的风无法用绳索捆住,燃烧之火的纯净火焰也无法抓住。

3.55.25

त्रयाणामपि लोकानां न तं पश्यामि शोभने।
विक्रमेण नयेद् यस्त्वां मद्बाहुपरिपालिताम् ॥ ३.५५.२५ ॥

美丽的人啊,在三界之中,我看不到有谁能用武力带走受我双臂庇护的你。

3.55.26

लङ्कायाः सुमहद्राज्यमिदं त्वमनुपालय।
त्वत्प्रेष्या मद्विधाश्चैव देवाश्चापि चराचरम् ॥ ३.५५.२६ ॥

请你统治这楞伽的广大王国。像我这样的人、诸神以及一切动与不动之物,都将是你的仆从。

3.55.27

अभिषेकजलक्लिन्ना तुष्टा च रमयस्व च।
दुष्कृतं यत्पुरा कर्म वनवासेन तद्गतम् ॥ ३.५५.२७ ॥

被灌顶之水沾湿的人啊,请满足并欢喜吧。你从前所造的恶业,已因林中流放而消尽。

3.55.28

यच्च ते सुकृतं कर्म तस्येह फलमाप्नुहि।
इह सर्वाणि माल्यानि दिव्यगन्धानि मैथिलि ॥ ३.५५.२८ ॥

也请在这里享受你善行的果报。迈提利啊,这里有所有神圣香气的花环。

3.55.29

भूषणानि च मुख्यानि तानि सेव मया सह।
पुष्पकं नाम सुश्रोणि भ्रातुर्वैश्रवणस्य मे ॥ ३.५५.२९ ॥

也请与我一同收下那些上好的首饰。美腰的人啊,还有我兄长毗舍罗婆(俱毗罗)的飞车,名叫普希帕迦。

3.55.30

विमानं सूर्यसंकाशं तरसा निर्जितं रणे।
विशालं रमणीयं च तद्विमानं मनोजवम् ॥ ३.५५.३० ॥

那辆如太阳般光辉的飞车,是我在战场上以武力征服的。它宽阔、华美,快如心念。

3.55.31

तत्र सीते मया सार्धं विहरस्व यथासुखम्।
वदनं पद्मसंकाशं विमलं चारुदर्शनम् ॥ ३.५५.३१ ॥

悉多啊,在那里与我一同,任你欢愉。你的面容如莲花,明净而美丽动人。

3.55.32

शोकार्तं तु वरारोहे न भ्राजति वरानने।
एवं वदति तस्मिन् सा वस्त्रान्तेन वराङ्गना ॥ ३.५५.३२ ॥

美腰的女子啊,美面的女子啊!你因悲伤而痛苦,面容不再光彩。他这样说话时,那位贤淑的女子用衣角遮住了自己的脸。

3.55.33

पिधायेन्दुनिभं सीता मन्दमश्रूण्यवर्तयत्।
ध्यायन्तीं तामिवास्वस्थां सीतां चिन्ताहतप्रभाम् ॥ ३.५५.३३ ॥

悉多以覆着的面容,如月亮般,轻轻地落下泪来。她的光彩因忧虑而受损,她沉思着,心神不宁。

3.55.34

उवाच वचनं वीरो रावणो रजनीचरः।
अलं व्रीडेन वैदेहि धर्मलोपकृतेन ते ॥ ३.५५.३४ ॥

于是英勇的夜行者罗波那说道:毗提诃啊,羞耻够了。你的这份羞耻,是因违背法而生。

3.55.35

आर्षोऽयं देवि निष्पन्दो यस्त्वामभिभविष्यति।
एतौ पादौ मया स्निग्धौ शिरोभिः परिपीडितौ ॥ ३.५५.३५ ॥

女神啊,这神圣的颤动将会征服你。你这双柔嫩的脚,我曾以我的头颅抵触过。

3.55.36

प्रसादं कुरु मे क्षिप्रं वश्यो दासोऽहमस्मि ते।
इमाः शून्या मया वाचः शुष्यमाणेन भाषिताः ॥ ३.५५.३६ ॥

请对我施恩,快些吧!我是你驯服的仆人。这些由我枯竭之身说出的话,都成了空言。

3.55.37

न चापि रावणः कांचिन्मूर्ध्ना स्त्रीं प्रणमेत ह।
एवमुक्त्वा दशग्रीवो मैथिलीं जनकात्मजाम्।
कृतान्तवशमापन्नो ममेयमिति मन्यते ॥ ३.५५.३७ ॥

罗波那从不向任何女子低头致礼。如此说罢,十首之王落入死神之手,却以为这位遮那迦之女、弥提利是属于他的。