蚁垤《罗摩衍那》 · 篇 3.6
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.6.1
शरभङ्गे दिवं प्राप्ते मुनिसङ्घाः समागताः।
अभ्यगच्छन्त काकुत्स्थं रामं ज्वलिततेजसम् ॥ ३.६.१ ॥
舍罗婆伽升天之后,众多仙人聚集起来,走近光芒炽盛的迦古特stha后裔罗摩。
3.6.2
वैखानसा वालखिल्याः सम्प्रक्षाला मरीचिपाः।
अश्मकुट्टाश्च बहवः पत्राहाराश्च तापसाः ॥ ३.६.२ ॥
毗卡纳萨与婆罗希利亚苦行者,彻底沐浴者,饮用阳光者,捣石者,以及许多以树叶为食的苦行者。
3.6.3
दन्तोलूखलिनश्चैव तथैवोन्मज्जकाः परे।
गात्रशय्या अशय्याश्च तथैवानवकाशिकाः ॥ ३.६.३ ॥
以牙齿当臼杵捣物者,同样还有长久浸泡于水中的其他人,以身体为床者,无床者,以及同样不寻求住所者。
3.6.4
मुनयः सलिलाहारा वायुभक्षास्तथापरे।
आकाशनिलयाश्चैव तथा स्थण्डिलशायिनः ॥ ३.६.४ ॥
以水为食的仙人,以风为食的其他人,住在天空中的人,同样还有睡在光地上的人。
3.6.5
तथोर्ध्ववासिनो दान्तास्तथाऽऽर्द्रपटवाससः।
सजपाश्च तपोनिष्ठास्तथा पञ्चतपोऽन्विताः ॥ ३.६.५ ॥
同样,住在高处的人,克制自身的人,穿湿衣的人,持诵念修的人,专注苦行的人,以及修五火苦行的人。
3.6.6
सर्वे ब्राह्म्या श्रिया युक्ता दृढयोगसमाहिताः।
शरभङ्गाश्रमे राममभिजग्मुश्च तापसाः ॥ ३.६.६ ॥
所有苦行者都具备婆罗门的光辉,专注于坚定的瑜伽,在舍罗婆伽的修道处走近罗摩。
3.6.7
अभिगम्य च धर्मज्ञा रामं धर्मभृतां वरम्।
ऊचुः परमधर्मज्ञमृषिसङ्घाः समागताः ॥ ३.६.७ ॥
众多通晓法义的仙人聚集,走近持法者中最优秀的罗摩,对这位至高通晓法义者说道。
3.6.8
त्वमिक्ष्वाकुकुलस्यास्य पृथिव्याश्च महारथः।
प्रधानश्चापि नाथश्च देवानां मघवानिव ॥ ३.६.८ ॥
你是伊克史瓦库家族及此大地的大战车手,是众主,如因陀罗之于诸天神一般的护佑者。
3.6.9
विश्रुतस्त्रिषु लोकेषु यशसा विक्रमेण च।
पितृव्रतत्वं सत्यं च त्वयि धर्मश्च पुष्कलः ॥ ३.६.९ ॥
你以名望与勇武闻名三界;遵从父命、真实与充盈的法,都在你身上。
3.6.10
त्वामासाद्य महात्मानं धर्मज्ञं धर्मवत्सलम्।
अर्थित्वान्नाथ वक्ष्यामस्तच्च नः क्षन्तुमर्हसि ॥ ३.६.१० ॥
我们来到你——大德、通晓并热爱法义的你——面前,主啊,因我们有所请求而开口;望你宽恕。
3.6.11
अधर्मः सुमहान् नाथ भवेत् तस्य तु भूपतेः।
यो हरेद् बलिषड्भागं न च रक्षति पुत्रवत् ॥ ३.६.११ ॥
主啊,那取税收六分之一、却不如护子般守护百姓的君王,会犯下极大的非法(adharma)。
3.6.12
युञ्जानः स्वानिव प्राणान् प्राणैरिष्टान् सुतानिव।
नित्ययुक्तः सदा रक्षन् सर्वान् विषयवासिनः ॥ ३.६.१२ ॥
如同守护自己的生命与珍爱的儿子一般,常怀坚定之心,应当守护国土内的一切居民。
3.6.13
प्राप्नोति शाश्वतीं राम कीर्तिं स बहुवार्षिकीम्।
ब्रह्मणः स्थानमासाद्य तत्र चापि महीयते ॥ ३.६.१३ ॥
罗摩啊,他抵达梵天之居,获得久远的永恒名声,并在那里也受到尊敬。
3.6.14
यत् करोति परं धर्मं मुनिर्मूलफलाशनः।
तत्र राज्ञश्चतुर्भागः प्रजा धर्मेण रक्षतः ॥ ३.६.१४ ॥
凡以根与果为食的苦行仙人所行的至上法,其四分之一归于以法护持臣民的国王。
3.6.15
सोऽयं ब्राह्मणभूयिष्ठो वानप्रस्थगणो महान्।
त्वन्नाथोऽनाथवद् राम राक्षसैर्हन्यते भृशम् ॥ ३.६.१५ ॥
罗摩啊,这大批以婆罗门为主的林居者,以你为保护者,却如无依无靠之人,被罗刹大肆杀害。
3.6.16
एहि पश्य शरीराणि मुनीनां भावितात्मनाम्।
हतानां राक्षसैर्घोरैर्बहूनां बहुधा वने ॥ ३.६.१६ ॥
来看吧,那些心性清净的众多仙人之身,在森林中被凶恶的罗刹以种种方式所杀。
3.6.17
पम्पानदीनिवासानामनुमन्दाकिनीमपि।
चित्रकूटालयानां च क्रियते कदनं महत् ॥ ३.६.१७ ॥
居于般波河畔、沿曼陀吉尼河的人们,以及居于奇特罗俱吒山的人们,正遭受大规模的屠杀。
3.6.18
एवं वयं न मृष्यामो विप्रकारं तपस्विनाम्।
क्रियमाणं वने घोरं रक्षोभिर्भीमकर्मभिः ॥ ३.६.१८ ॥
如此,我们无法忍受那些行事凶暴的罗刹在森林中对苦行者所施加的可怕侮辱。
3.6.19
ततस्त्वां शरणार्थं च शरण्यं समुपस्थिताः।
परिपालय नो राम वध्यमानान् निशाचरैः ॥ ३.६.१९ ॥
因此我们前来投奔你这位庇护者,寻求庇护。啊,罗摩,请保护我们,我们正被夜行者杀害。
3.6.20
परा त्वत्तो गतिर्वीर पृथिव्यां नोपपद्यते।
परिपालय नः सर्वान् राक्षसेभ्यो नृपात्मज ॥ ३.६.२० ॥
啊英雄,在这大地上除你之外,我们再无别的依靠。王子啊,请保护我们所有人免遭罗刹之害。
3.6.21
एतच्छ्रुत्वा तु काकुत्स्थस्तापसानां तपस्विनाम्।
इदं प्रोवाच धर्मात्मा सर्वानेव तपस्विनः ॥ ३.६.२१ ॥
罗摩——那位心地正直的迦古特斯塔后裔——听了这些苦行者的话,便对所有苦行者这样说道。
3.6.22
नैवमर्हथ मां वक्तुमाज्ञाप्योऽहं तपस्विनाम्।
केवलेन स्वकार्येण प्रवेष्टव्यं वनं मया ॥ ३.६.२२ ॥
你们不应该这样对我说。我不是可以被苦行者命令的人。我只为自己的使命,才必须进入这片森林。
3.6.23
विप्रकारमपाक्रष्टुं राक्षसैर्भवतामिमम्।
पितुस्तु निर्देशकरः प्रविष्टोऽहमिदं वनम् ॥ ३.६.२३ ॥
为了消除罗刹加在你们身上的这种侵扰,也为了遵从父亲的命令,我进入了这片森林。
3.6.24
भवतामर्थसिद्ध्यर्थमागतोऽहं यदृच्छया।
तस्य मेऽयं वने वासो भविष्यति महाफलः ॥ ३.६.२४ ॥
我偶然来到此地,是为了成就你们的心愿。因此,我在这片森林中的居住将结出丰硕的果实。
3.6.25
तपस्विनां रणे शत्रून् हन्तुमिच्छामि राक्षसान्।
पश्यन्तु वीर्यमृषयः सभ्रातुर्मे तपोधनाः ॥ ३.६.२५ ॥
我愿在战场上杀死作为苦行者之敌的罗刹。愿以苦行为财富的仙人们看到我与我兄弟的勇力。
3.6.26
दत्त्वा वरं चापि तपोधनानां
धर्मे धृतात्मा सह लक्ष्मणेन।
तपोधनैश्चापि सहार्यदत्तः
सुतीक्ष्णमेवाभिजगाम वीरः ॥ ३.६.२६ ॥
那位坚守法度的英雄赐予苦行者们恩惠之后,与罗什曼那及众苦行者一同,径直前往阿利耶所指示的苏提克什那处。