Vedyatra वेदयात्रा
検索

ヴァールミーキのラーマーヤナ · サルガ 3.61

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

3.61.1

दृष्ट्वाऽऽश्रमपदं शून्यं रामो दशरथात्मजः।
रहितां पर्णशालां च प्रविद्धान्यासनानि च ॥ ३.६१.१ ॥

ダシャラタの子ラーマは、庵の跡が空しく、葉の小屋が人けなく、散らばった座席があるのを見た。

3.61.2

अदृष्ट्वा तत्र वैदेहीं संनिरीक्ष्य च सर्वशः।
उवाच रामः प्राक्रुश्य प्रगृह्य रुचिरौ भुजौ ॥ ३.६१.२ ॥

そこにヴァイデーヒーの姿がないのを見て、あたりをくまなく見回し、ラーマは大声で叫び、美しい両腕を掲げて言った。

3.61.3

क्व नु लक्ष्मण वैदेही कं वा देशमितो गता।
केनाहृता वा सौमित्रे भक्षिता केन वा प्रिया ॥ ३.६१.३ ॥

ラクシュマナよ、ヴァイデーヒーはどこにいるのか。ここからどこへ行ったのか。ああ、スミトラーの子よ、誰が彼女を奪ったのか、それとも誰が愛しい人を食べてしまったのか。

3.61.4

वृक्षेणावार्य यदि मां सीते हसितुमिच्छसि।
अलं ते हसितेनाद्य मां भजस्व सुदुःखितम् ॥ ३.६१.४ ॥

ああシーター、もし木の陰に隠れて私をからかいたいのなら、もう十分だ。今日はこの冗談をやめて、深く嘆き悲しむ私のもとへ来てくれ。

3.61.5

यैः परिक्रीडसे सीते विश्वस्तैर्मृगपोतकैः।
एते हीनास्त्वया सौम्ये ध्यायन्त्यस्राविलेक्षणाः ॥ ३.६१.५ ॥

ああシーター、お前が戯れていた信頼しきった子鹿たちは、お前を失って嘆いている。ああ心優しき人よ、彼らは涙に曇った目で物思いに沈んで座っている。

3.61.6

सीतया रहितोऽहं वै नहि जीवामि लक्ष्मण।
वृतं शोकेन महता सीताहरणजेन माम् ॥ ३.६१.६ ॥

ラクシュマナよ、シーターなしには、私は確かに生きてはいけない。シーターが奪われたことから生じたこの大きな悲しみが、私を包んでいる。

3.61.7

परलोके महाराजो नूनं द्रक्ष्यति मे पिता।
कथं प्रतिज्ञां संश्रुत्य मया त्वमभियोजितः ॥ ३.६१.७ ॥

あの世で偉大な王である私の父は、必ず私を見るだろう。誓いを立てておきながら、どうして君をこれに巻き込んだのか。

3.61.8

अपूरयित्वा तं कालं मत्सकाशमिहागतः।
कामवृत्तमनार्यं वा मृषावादिनमेव च ॥ ३.६१.८ ॥

その期間を満たさずにここ私のもとへ来たな。人々は君を欲望のままに動く、卑しく、偽りを語る者とみなすだろう。

3.61.9

धिक् त्वामिति परे लोके व्यक्तं वक्ष्यति मे पिता।
विवशं शोकसंतप्तं दीनं भग्नमनोरथम् ॥ ३.६१.९ ॥

あの世で私の父は、無力で悲しみに苛まれ、惨めで望みを打ち砕かれた私を見て、はっきりと「お前を恥じる」と言うだろう。

3.61.10

मामिहोत्सृज्य करुणं कीर्तिर्नरमिवानृजुम्।
क्व गच्छसि वरारोहे मा मोत्सृज सुमध्यमे ॥ ३.६१.१० ॥

ここに私をこうして哀れにも置き去りにして——名声が曲がった人を見捨てるように。美しい腰の女よ、どこへ行くのか。私を捨てないでくれ、細い腰の女よ!

3.61.11

त्वया विरहितश्चाहं त्यक्ष्ये जीवितमात्मनः।
इतीव विलपन् रामः सीतादर्शनलालसः ॥ ३.६१.११ ॥

君と離れて、私は自らの命を捨てよう——このように嘆きながら、シーターに会いたいと切望するラーマは。

3.61.12

न ददर्श सुदुःखार्तो राघवो जनकात्मजाम्।
अनासादयमानं तं सीतां शोकपरायणम् ॥ ३.६१.१२ ॥

極度の悲しみに苦しんだラーガヴァ(ラーマ)は、ジャナカの娘(シーター)を見ることができなかった。彼女を見つけられず、彼は悲嘆に身を委ねた。

3.61.13

पङ्कमासाद्य विपुलं सीदन्तमिव कुञ्जरम्।
लक्ष्मणो राममत्यर्थमुवाच हितकाम्यया ॥ ३.६१.१३ ॥

深い泥にはまり沈みゆく象のようなラーマを見て、ラクシュマナは彼の幸せを願って語りかけた。

3.61.14

मा विषादं महाबुद्धे कुरु यत्नं मया सह।
इदं गिरिवरं वीर बहुकन्दरशोभितम् ॥ ३.६१.१४ ॥

大いなる賢者よ、悲嘆してはならない、私とともに努力せよ。勇士よ、この見事な山は多くの洞窟で飾られている。

3.61.15

प्रियकाननसंचारा वनोन्मत्ता च मैथिली।
सा वनं वा प्रविष्टा स्यान्नलिनीं वा सुपुष्पिताम् ॥ ३.६१.१५ ॥

森を歩き回ることを好み、森の陶酔に酔いしれたマイティリーは、森へ入ったのかもしれない。あるいは花の咲き満ちた蓮池へ。

3.61.16

सरितं वापि सम्प्राप्ता मीनवञ्जुलसेविताम्।
वित्रासयितुकामा वा लीना स्यात् कानने क्वचित् ॥ ३.६१.१६ ॥

あるいは魚や鶺鴒の集う川に達したのかもしれない。あるいは、あなたを驚かそうと思い、森のどこかに隠れているのかもしれない。

3.61.17

जिज्ञासमाना वैदेही त्वां मां च पुरुषर्षभ।
तस्या ह्यन्वेषणे श्रीमन् क्षिप्रमेव यतावहे ॥ ३.६१.१७ ॥

あなたと私を探しながら、ヴァイデーヒーは来ているかもしれない。人の中の最上の方よ、栄光ある方よ、急いで彼女を探す努力をしましょう。

3.61.18

वनं सर्वं विचिनुवो यत्र सा जनकात्मजा।
मन्यसे यदि काकुत्स्थ मा स्म शोके मनः कृथाः ॥ ३.६१.१८ ॥

あなたがよしとするなら、ジャナカの娘がいるかもしれない森全体を探しましょう。カクッツタの末裔よ、心を悲しみに沈めてはならない。

3.61.19

एवमुक्तः स सौहार्दाल्लक्ष्मणेन समाहितः।
सह सौमित्रिणा रामो विचेतुमुपचक्रमे ॥ ३.६१.१९ ॥

ラクシュマナにこう言われ、愛情から心を静めたラーマは、サウミトリとともに捜索を始めた。

3.61.20

तौ वनानि गिरींश्चैव सरितश्च सरांसि च।
निखिलेन विचिन्वन्तौ सीतां दशरथात्मजौ ॥ ३.६१.२० ॥

ダシャラタの二人の息子は、森、山、川、湖をくまなくシータを探した。

3.61.21

तस्य शैलस्य सानूनि शिलाश्च शिखराणि च।
निखिलेन विचिन्वन्तौ नैव तामभिजग्मतुः ॥ ३.६१.२१ ॥

その山の斜面、岩、峰をくまなく探したが、彼女に会うことはできなかった。

3.61.22

विचित्य सर्वतः शैलं रामो लक्ष्मणमब्रवीत्।
नेह पश्यामि सौमित्रे वैदेहीं पर्वते शुभाम् ॥ ३.६१.२२ ॥

山をくまなく探した後、ラーマはラクシュマナに言った。「サウミトリよ、この山の上に吉祥なヴァイデーヒーは見えない。」

3.61.23

ततो दुःखाभिसंतप्तो लक्ष्मणो वाक्यमब्रवीत्।
विचरन् दण्डकारण्यं भ्रातरं दीप्ततेजसम् ॥ ३.६१.२३ ॥

その時、悲しみに深く苦しんだラクシュマナは、ダンダカの森をさまよう輝くばかりの兄に、こう言った。

3.61.24

प्राप्स्यसे त्वं महाप्राज्ञ मैथिलीं जनकात्मजाम्।
यथा विष्णुर्महाबाहुर्बलिं बद्ध्वा महीमिमाम् ॥ ३.६१.२४ ॥

大いなる賢者よ、あなたは必ずジャナカの娘マイティリーを得るでしょう。大腕のヴィシュヌがバリを縛って、この大地を得たように。

3.61.25

एवमुक्तस्तु वीरेण लक्ष्मणेन स राघवः।
उवाच दीनया वाचा दुःखाभिहतचेतनः ॥ ३.६१.२५ ॥

英雄ラクシュマナにこう言われ、悲嘆に打ちのめされた心のラーガヴァは、哀れな声で語った。

3.61.26

वनं सुविचितं सर्वं पद्मिन्यः फुल्लपङ्कजाः।
गिरिश्चायं महाप्राज्ञ बहुकन्दरनिर्झरः।
नहि पश्यामि वैदेहीं प्राणेभ्योऽपि गरीयसीम् ॥ ३.६१.२६ ॥

この森全体は実に多彩で、蓮の池は花開いている。賢き者よ、この山にも多くの洞窟と滝がある。しかし命よりも愛しいヴァイデーヒーの姿が見えない。

3.61.27

एवं स विलपन् रामः सीताहरणकर्षितः।
दीनः शोकसमाविष्टो मुहूर्तं विह्वलोऽभवत् ॥ ३.६१.२७ ॥

このように嘆き悲しむラーマは、シーターの誘拐に衰弱し、悲嘆に満たされ、しばし心乱れた。

3.61.28

स विह्वलितसर्वाङ्गो गतबुद्धिर्विचेतनः।
निषसादातुरो दीनो निःश्वस्याशीतमायतम् ॥ ३.६१.२८ ॥

手足はことごとく震え、理性を失い、意識もなく、苦しみ哀れに座り込み、長く熱い溜息をついた。

3.61.29

बहुशः स तु निःश्वस्य रामो राजीवलोचनः।
हा प्रियेति विचुक्रोश बहुशो बाष्पगद्गदः ॥ ३.६१.२९ ॥

何度も溜息をつき、蓮の眼のラーマは「ああ、愛しい人よ!」と幾度も叫んだ。涙に声が詰まりながら。

3.61.30

तं सान्त्वयामास ततो लक्ष्मणः प्रियबान्धवम्।
बहुप्रकारं शोकार्तः प्रश्रितः प्रश्रिताञ्जलिः ॥ ३.६१.३० ॥

そのとき悲嘆に苦しむラクシュマナは、謙虚に合掌して、愛する肉親のラーマを様々に慰めた。

3.61.31

अनादृत्य तु तद् वाक्यं लक्ष्मणोष्ठपुटच्युतम्।
अपश्यंस्तां प्रियां सीतां प्राक्रोशत् स पुनः पुनः ॥ ३.६१.३१ ॥

ラクシュマナの唇から漏れた言葉を聞き流し、愛しいシーターの姿が見えず、彼は何度も何度も叫び声をあげた。