蚁垤《罗摩衍那》 · 篇 3.63
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.63.1
स राजपुत्रः प्रियया विहीनः
शोकेन मोहेन च पीड्यमानः।
विषादयन् भ्रातरमार्तरूपो
भूयो विषादं प्रविवेश तीव्रम् ॥ ३.६३.१ ॥
失去心爱之人的王子,被悲痛与迷乱所折磨,以哀伤的模样使兄弟也陷入忧愁,再次沉入深深的绝望之中。
3.63.2
स लक्ष्मणं शोकवशाभिपन्नं
शोके निमग्नो विपुले तु रामः।
उवाच वाक्यं व्यसनानुरूप-
मुष्णं विनिःश्वस्य रुदन् सशोकम् ॥ ३.६३.२ ॥
看到被悲痛所制的罗什曼那,沉入深深哀伤的罗摩说出了与这场灾难相称的话语,他发出灼热的叹息,悲痛地哭泣。
3.63.3
न मद्विधो दुष्कृतकर्मकारी
मन्ये द्वितीयोऽस्ति वसुंधरायाम्।
शोकानुशोको हि परम्पराया
मामेति भिन्दन् हृदयं मनश्च ॥ ३.६३.३ ॥
我想世上再没有第二个像我这样作恶之人;悲上加悲的连绵不断,如此刺穿着我的心与意。
3.63.4
पूर्वं मया नूनमभीप्सितानि
पापानि कर्माण्यसकृत्कृतानि।
तत्रायमद्यापतितो विपाको
दुःखेन दुःखं यदहं विशामि ॥ ३.६३.४ ॥
我过去一定屡次做过自己所渴求的恶行;如今其成熟的果报降临于我身,因此我从痛苦走入痛苦。
3.63.5
राज्यप्रणाशः स्वजनैर्वियोगः
पितुर्विनाशो जननीवियोगः।
सर्वाणि मे लक्ष्मण शोकवेग-
मापूरयन्ति प्रविचिन्तितानि ॥ ३.६३.५ ॥
失去王国、与亲人分离、父亲的离世、与母亲分隔——罗什曼那啊,我所思量的这一切,都在充盈着我悲痛的波涛。
3.63.6
सर्वं तु दुःखं मम लक्ष्मणेदं
शान्तं शरीरे वनमेत्य क्लेशम्।
सीतावियोगात् पुनरप्युदीर्णं
काष्ठैरिवाग्निः सहसोपदीप्तः ॥ ३.६३.६ ॥
罗什曼那啊,自来到森林后在我身中平息的这一切悲痛与苦恼,因与悉多分离而再度爆发,如同柴薪突然点燃的烈火。
3.63.7
सा नूनमार्या मम राक्षसेन
ह्यभ्याहृता खं समुपेत्य भीरुः।
अपस्वरं सुस्वरविप्रलापा
भयेन विक्रन्दितवत्यभीक्ष्णम् ॥ ३.६३.७ ॥
那位高贵的悉多,惊恐之中,必定被一个罗刹带上了天空;她以甜美的声音哀号,又因恐惧而一次次以刺耳的声音大声呼喊。
3.63.8
तौ लोहितस्य प्रियदर्शनस्य
सदोचितावुत्तमचन्दनस्य।
वृत्तौ स्तनौ शोणितपङ्कदिग्धौ
नूनं प्रियाया मम नाभिपातः ॥ ३.६३.८ ॥
那两只向来以上等檀香膏装饰、红润而可爱的圆润乳房,我心爱之人的双乳,必定已沾满血泥坠落于地。
3.63.9
तच्छ्लक्ष्णसुव्यक्तमृदुप्रलापं
तस्या मुखं कुञ्चितकेशभारम्।
रक्षोवशं नूनमुपागताया
न भ्राजते राहुमुखे यथेन्दुः ॥ ३.६३.९ ॥
她那张发出柔和、清晰、温婉哀声、覆着卷曲长发的面庞,如今落入罗刹之手,必定不再像月亮在罗睺口中那样闪耀。
3.63.10
तां हारपाशस्य सदोचितान्तां
ग्रीवां प्रियाया मम सुव्रतायाः।
रक्षांसि नूनं परिपीतवन्ति
शून्ये हि भित्त्वा रुधिराशनानि ॥ ३.६३.१० ॥
我那德行高尚的爱人的颈项,向来与花环的绳端相衬,罗刹们撕裂虚空,嗜血而饮,必定已将它吸吮殆尽。
3.63.11
मया विहीना विजने वने सा
रक्षोभिराहृत्य विकृष्यमाणा।
नूनं विनादं कुररीव दीना
सा मुक्तवत्यायतकान्तनेत्रा ॥ ३.६३.११ ॥
与我分离,在荒僻的森林中被罗刹劫持拖拽而去的那可怜的悉多,那双修长美丽的眼睛,想必正如鹗鸟般哀号呼喊。
3.63.12
अस्मिन् मया सार्धमुदारशीला
शिलातले पूर्वमुपोपविष्टा।
कान्तस्मिता लक्ष्मण जातहासा
त्वामाह सीता बहुवाक्यजातम् ॥ ३.६३.१२ ॥
往昔与我一同坐在这块石头上的高尚的悉多,面带迷人的微笑,欢笑着,对你,罗什曼,说了许多话。
3.63.13
गोदावरीयं सरितां वरिष्ठा
प्रिया प्रियाया मम नित्यकालम्।
अप्यत्र गच्छेदिति चिन्तयामि
नैकाकिनी याति हि सा कदाचित् ॥ ३.६३.१३ ॥
这条戈达瓦里河,河中之最,始终为我的爱人所钟爱。我想她或许来过这里,但她从不独自前往。
3.63.14
पद्मानना पद्मपलाशनेत्रा
पद्मानि वानेतुमभिप्रयाता।
तदप्ययुक्तं नहि सा कदाचि-
न्मया विना गच्छति पङ्कजानि ॥ ३.६३.१४ ॥
她面如莲花,眼如莲瓣,或许出去采摘莲花了;但这也不合情理,因为她从不离开我去采莲。
3.63.15
कामं त्विदं पुष्पितवृक्षषण्डं
नानाविधैः पक्षिगणैरुपेतम्।
वनं प्रयाता नु तदप्ययुक्त-
मेकाकिनी सातिबिभेति भीरुः ॥ ३.६३.१५ ॥
这片森林,开满花的树丛,群鸟成群,或许她去了这里;但这也不合情理,独自一人,那胆怯的女子非常害怕。
3.63.16
आदित्य भो लोककृताकृतज्ञ
लोकस्य सत्यानृतकर्मसाक्षिन्।
मम प्रिया सा क्व गता हृता वा
शंसस्व मे शोकहतस्य सर्वम् ॥ ३.६३.१६ ॥
太阳啊,你知晓世间已作与未作之事,是世间真假业行的见证者。我的爱人去了哪里,或是被人夺走了?请把一切告诉我这被忧愁击倒的人。
3.63.17
लोकेषु सर्वेषु न नास्ति किंचिद्
यत् ते न नित्यं विदितं भवेत् तत्।
शंसस्व वायो कुलपालिनीं तां
मृता हृता वा पथि वर्तते वा ॥ ३.६३.१७ ॥
在一切世界中,没有你不曾知晓的事。哦风啊!请告诉我那位家族的守护者:她是死了,被夺走了,还是在路上?
3.63.18
इतीव तं शोकविधेयदेहं
रामं विसंज्ञं विलपन्तमेव।
उवाच सौमित्रिरदीनसत्त्वो
न्याय्ये स्थितः कालयुतं च वाक्यम् ॥ ३.६३.१८ ॥
当罗摩因悲痛而身体崩溃,昏乱地哀号之时,性情坚毅、安立于正道的萨乌弥特里(罗什曼那)说出了合乎时宜的话语。
3.63.19
शोकं विसृज्याद्य धृतिं भजस्व
सोत्साहता चास्तु विमार्गणेऽस्याः।
उत्साहवन्तो हि नरा न लोके
सीदन्ति कर्मस्वतिदुष्करेषु ॥ ३.६३.१९ ॥
如今应当抛开悲痛,坚定心志,寻找她时也要有干劲。因为世上有干劲的人,即使面对极其艰难的事业,也不会退缩。
3.63.20
इतीव सौमित्रिमुदग्रपौरुषं
ब्रुवन्तमार्तो रघुवंशवर्धनः।
न चिन्तयामास धृतिं विमुक्तवान्
पुनश्च दुःखं महदभ्युपागमत् ॥ ३.६३.२० ॥
当英勇卓绝的萨乌弥特里(罗什曼那)如此说话时,罗摩——罗怙族的光荣——因悲痛而不曾思量他的话;他放下了坚定,巨大的悲痛再次降临到他身上。