蚁垤《罗摩衍那》 · 篇 3.64
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.64.1
स दीनो दीनया वाचा लक्ष्मणं वाक्यमब्रवीत्।
शीघ्रं लक्ष्मण जानीहि गत्वा गोदावरीं नदीम् ॥ ३.६४.१ ॥
他悲伤地用哀痛的声音对罗什曼那说:"罗什曼那,快去戈达瓦里河看看。"
3.64.2
अपि गोदावरीं सीता पद्मान्यानयितुं गता।
एवमुक्तस्तु रामेण लक्ष्मणः पुनरेव हि ॥ ३.६४.२ ॥
也许悉多去戈达瓦里河采莲花了。罗摩这样说后,罗什曼那再次出发。
3.64.3
नदीं गोदावरीं रम्यां जगाम लघुविक्रमः।
तां लक्ष्मणस्तीर्थवतीं विचित्वा राममब्रवीत् ॥ ३.६४.३ ॥
步伐轻捷的罗什曼那前往美丽的戈达瓦里河;在这条圣渡口众多的河中寻找之后,他对罗摩说。
3.64.4
नैनां पश्यामि तीर्थेषु क्रोशतो न शृणोति मे।
कं नु सा देशमापन्ना वैदेही क्लेशनाशिनी ॥ ३.६४.४ ॥
我在渡口看不到她,我呼喊她也听不到。那消除忧愁的毗提诃公主到哪里去了呢?
3.64.5
नहि तं वेद्मि वै राम यत्र सा तनुमध्यमा।
लक्ष्मणस्य वचः श्रुत्वा दीनः संतापमोहितः ॥ ३.६४.५ ॥
啊,罗摩,我不知道那细腰的女子在哪里。罗什曼那的话传入耳中,悲痛的罗摩被忧伤搅得神志迷乱。
3.64.6
रामः समभिचक्राम स्वयं गोदावरीं नदीम्।
स तामुपस्थितो रामः क्व सीतेत्येवमब्रवीत् ॥ ३.६४.६ ॥
罗摩亲自走向戈达瓦里河。到达那里后,罗摩问道:"悉多在哪里?"
3.64.7
भूतानि राक्षसेन्द्रेण वधार्हेण हृतामपि।
न तां शशंसू रामाय तथा गोदावरी नदी ॥ ३.६४.७ ॥
尽管那位应当受死的罗刹王劫走了她,众生与戈达瓦里河却没有把她的下落告诉罗摩。
3.64.8
ततः प्रचोदिता भूतैः शंस चास्मै प्रियामिति।
न च सा ह्यवदत् सीतां पृष्टा रामेण शोचता ॥ ३.६४.८ ॥
众生催促她告诉他:“这是你的爱人。”悲伤的罗摩也问过,那河却对悉多只字未提。
3.64.9
रावणस्य च तद्रूपं कर्मापि च दुरात्मनः।
ध्यात्वा भयात् तु वैदेहीं सा नदी न शशंस ह ॥ ३.६४.९ ॥
那河想到罗波那的模样和那恶人的行径,心中恐惧,便没有说出关于毗提诃的事。
3.64.10
निराशस्तु तया नद्या सीताया दर्शने कृतः।
उवाच रामः सौमित्रिं सीतादर्शनकर्शितः ॥ ३.६४.१० ॥
罗摩在那河边看见悉多的希望落空,因渴望见到她而消瘦,便对善友(罗什曼那)说道。
3.64.11
एषा गोदावरी सौम्य किंचिन्न प्रतिभाषते।
किं नु लक्ष्मण वक्ष्यामि समेत्य जनकं वचः ॥ ३.६४.११ ॥
温和的罗什曼那啊,这条戈达瓦里河什么也不回应。罗什曼那,见到遮那伽时,我该说什么话呢?
3.64.12
मातरं चैव वैदेह्या विना तामहमप्रियम्।
या मे राज्यविहीनस्य वने वन्येन जीवतः ॥ ३.६४.१२ ॥
没有毗提诃,我如何面对那位母亲?她将看见我失去王国,在森林里靠野食过活。
3.64.13
सर्वं व्यपानयच्छोकं वैदेही क्व नु सा गता।
ज्ञातिवर्गविहीनस्य वैदेहीमप्यपश्यतः ॥ ३.६४.१३ ॥
我驱散了一切悲伤,可维黛希去了哪里?失去亲人的我,连维黛希也见不到。
3.64.14
मन्ये दीर्घा भविष्यन्ति रात्रयो मम जाग्रतः।
मन्दाकिनीं जनस्थानमिमं प्रस्रवणं गिरिम् ॥ ३.६४.१४ ॥
我想,我醒着的夜晚将会漫长:曼达基尼河、这座居士谷,以及这座普拉斯拉瓦那山。
3.64.15
सर्वाण्यनुचरिष्यामि यदि सीता हि लभ्यते।
एते महामृगा वीर मामीक्षन्ते पुनः पुनः ॥ ३.६४.१५ ॥
若能找到悉多,我将到处寻找她。勇士啊,这些大鹿一次又一次地望着我。
3.64.16
वक्तुकामा इह हि मे इङ्गितान्युपलक्षये।
तांस्तु दृष्ट्वा नरव्याघ्रो राघवः प्रत्युवाच ह ॥ ३.६४.१६ ॥
它们似乎想对我说什么,我能察觉它们的示意。人中之虎罗伽婆看见它们,便回答道。
3.64.17
क्व सीतेति निरीक्षन् वै बाष्पसंरुद्धया गिरा।
एवमुक्ता नरेन्द्रेण ते मृगाः सहसोत्थिताः ॥ ३.६४.१७ ॥
他环顾四周,哽咽着问道:“悉多在哪里?”人主如此发问,那些鹿忽然站了起来。
3.64.18
दक्षिणाभिमुखाः सर्वे दर्शयन्तो नभःस्थलम्।
मैथिली ह्रियमाणा सा दिशं यामभ्यपद्यत ॥ ३.६४.१८ ॥
它们都面向南方,指着天空,指示被掳走的弥蒂利所去的方向。
3.64.19
तेन मार्गेण गच्छन्तो निरीक्षन्ते नराधिपम्।
येन मार्गं च भूमिं च निरीक्षन्ते स्म ते मृगाः ॥ ३.६४.१९ ॥
他们沿着那条路前行,望着人主(罗摩);那些鹿所望的道路与大地,它们也都望着。
3.64.20
पुनर्नदन्तो गच्छन्ति लक्ष्मणेनोपलक्षिताः।
तेषां वचनसर्वस्वं लक्षयामास चेङ्गितम् ॥ ३.६४.२० ॥
被罗什曼那注意到的那些鹿又吼叫着前行;他领会了它们叫声的全部含义与示意。
3.64.21
उवाच लक्ष्मणो धीमान् ज्येष्ठं भ्रातरमार्तवत्।
क्व सीतेति त्वया पृष्टा यथेमे सहसोत्थिताः ॥ ३.६४.२१ ॥
聪慧的罗什曼那如忧伤者般对兄长说:"正如你问'悉多在哪里?',这些鹿也突然跃起了。"
3.64.22
दर्शयन्ति क्षितिं चैव दक्षिणां च दिशं मृगाः।
साधु गच्छावहे देव दिशमेतां च नैर्ऋतीम् ॥ ३.६४.२२ ॥
鹿指示着大地与南方。主啊,让我们好好地朝这西南方向(nairṛti)前行吧。
3.64.23
यदि तस्यागमः कश्चिदार्या वा साथ लक्ष्यते।
बाढमित्येव काकुत्स्थः प्रस्थितो दक्षिणां दिशम् ॥ ३.६४.२३ ॥
若能看到她的某种踪迹,或那位高贵的女子自己——"很好",居鲁底斯陀之后罗摩说道,便向南方出发了。
3.64.24
लक्ष्मणानुगतः श्रीमान् वीक्षमाणो वसुंधराम्।
एवं सम्भाषमाणौ तावन्योन्यं भ्रातरावुभौ ॥ ३.६४.२४ ॥
罗什曼那随行,光荣的罗摩一边望着大地一边前行;就这样,两位兄弟彼此交谈着前进。
3.64.25
वसुंधरायां पतितपुष्पमार्गमपश्यताम्।
पुष्पवृष्टिं निपतितां दृष्ट्वा रामो महीतले ॥ ३.६४.२५ ॥
二人看见大地上铺满落花的小路。罗摩见到散落于地面的花雨,
3.64.26
उवाच लक्ष्मणं वीरो दुःखितो दुःखितं वचः।
अभिजानामि पुष्पाणि तानीमानीह लक्ष्मण ॥ ३.६४.२६ ॥
悲伤的英雄罗摩以哀痛的话语对罗什曼那说:“罗什曼那,我认得这里散落的这些花。”
3.64.27
अपिनद्धानि वैदेह्या मया दत्तानि कानने।
मन्ये सूर्यश्च वायुश्च मेदिनी च यशस्विनी ॥ ३.६४.२७ ॥
这些花是我在林中编织后送给毗提诃(悉多)的。我想,太阳、风与光荣的大地正守护着它们。
3.64.28
अभिरक्षन्ति पुष्पाणि प्रकुर्वन्तो मम प्रियम्।
एवमुक्त्वा महाबाहुर्लक्ष्मणं पुरुषर्षभम् ॥ ३.६४.२८ ॥
“它们守护着这些花,以成全我的心愿。”大臂的人中之雄罗摩如此说后,又对罗什曼那说道
3.64.29
उवाच रामो धर्मात्मा गिरिं प्रस्रवणाकुलम्।
कच्चित् क्षितिभृतां नाथ दृष्टा सर्वाङ्गसुन्दरी ॥ ३.६४.२९ ॥
心地正直的罗摩对充满溪流的山说:“群山之主啊,你是否见过那全身皆美的女子?”
3.64.30
रामा रम्ये वनोद्देशे मया विरहिता त्वया।
क्रुद्धोऽब्रवीद् गिरिं तत्र सिंहः क्षुद्रमृगं यथा ॥ ३.६४.३० ॥
“美人啊,在这可爱的林间,你与我分离了。”在那里,愤怒的(罗摩)对那座山说话,如同狮子对小鹿说话一般。
3.64.31
तां हेमवर्णां हेमाङ्गीं सीतां दर्शय पर्वत।
यावत् सानूनि सर्वाणि न ते विध्वंसयाम्यहम् ॥ ३.६४.३१ ॥
山啊,把那位金色肤色、金色身躯的悉多给我看看,否则我将摧毁你所有的山峰!
3.64.32
एवमुक्तस्तु रामेण पर्वतो मैथिलीं प्रति।
दर्शयन्निव तां सीतां नादर्शयत राघवे ॥ ३.६४.३२ ॥
罗摩如此说后,那山仿佛在向摩蒂利展示悉多,却未向罗ghava显示她。
3.64.33
ततो दाशरथी राम उवाच च शिलोच्चयम्।
मम बाणाग्निनिर्दग्धो भस्मीभूतो भविष्यसि ॥ ३.६४.३३ ॥
于是十车王之子罗摩对那堆岩石说:你将被我箭中的火焰焚烧,化为灰烬。
3.64.34
असेव्यः सर्वतश्चैव निस्तृणद्रुमपल्लवः।
इमां वा सरितं चाद्य शोषयिष्यामि लक्ष्मण ॥ ३.६४.३४ ॥
罗什曼,这座山四面都无法靠近,没有草木和嫩芽;今天我要让它,或这条河,干涸。
3.64.35
यदि नाख्याति मे सीतामद्य चन्द्रनिभाननाम्।
एवं प्ररुषितो रामो दिधक्षन्निव चक्षुषा ॥ ३.६४.३५ ॥
若它今日不告诉我月貌的悉多,那位如此愤怒的罗摩,仿佛要用自己的目光将它焚毁。
3.64.36
ददर्श भूमौ निष्क्रान्तं राक्षसस्य पदं महत्।
त्रस्ताया रामकांक्षिण्याः प्रधावन्त्या इतस्ततः ॥ ३.६४.३६ ॥
他看见地上有一个罗刹巨大的脚印,还有那位惊恐、渴慕罗摩的悉多四处奔跑的足迹。
3.64.37
राक्षसेनानुसृप्ताया वैदेह्याश्च पदानि तु।
स समीक्ष्य परिक्रान्तं सीताया राक्षसस्य च ॥ ३.६४.३७ ॥
罗摩看见被罗刹追赶的毗提诃(悉多)与罗刹的足迹,便说道:
3.64.38
भग्नं धनुश्च तूणी च विकीर्णं बहुधा रथम्।
सम्भ्रान्तहृदयो रामः शशंस भ्रातरं प्रियम् ॥ ३.६४.३८ ॥
罗摩看见断裂的弓、箭袋和四散破碎的战车,心中惊乱,便对他亲爱的兄弟说道。
3.64.39
पश्य लक्ष्मण वैदेह्या कीर्णाः कनकबिन्दवः।
भूषणानां हि सौमित्रे माल्यानि विविधानि च ॥ ३.६४.३९ ॥
看啊,罗什曼那!毗提诃饰物上的金珠散落四处,苏弥陀之子啊,还有各式各样的花环。
3.64.40
तप्तबिन्दुनिकाशैश्च चित्रैः क्षतजबिन्दुभिः।
आवृतं पश्य सौमित्रे सर्वतो धरणीतलम् ॥ ३.६४.४० ॥
看啊,苏弥陀之子,大地四处布满了如熔金般的亮点,还有血滴。
3.64.41
मन्ये लक्ष्मण वैदेही राक्षसैः कामरूपिभिः।
भित्त्वा भित्त्वा विभक्ता वा भक्षिता वा भविष्यति ॥ ३.६४.४१ ॥
我想,罗什曼那,能随意变化形体的罗刹,或许已将毗提诃撕成碎块分食,或者把她吃掉了。
3.64.42
तस्या निमित्तं सीताया द्वयोर्विवदमानयोः।
बभूव युद्धं सौमित्रे घोरं राक्षसयोरिह ॥ ३.६४.४२ ॥
因为悉多,苏弥陀之子啊,这里在两个争执的罗刹之间爆发了一场惨烈的战斗。
3.64.43
मुक्तामणिचितं चेदं रमणीयं विभूषितम्।
धरण्यां पतितं सौम्य कस्य भग्नं महद् धनुः ॥ ३.६४.४३ ॥
这张镶满珍珠宝石、华美的弓倒在地上。善良的人啊,这把断裂的大弓是谁的?
3.64.44
राक्षसानामिदं वत्स सुराणामथवापि वा।
तरुणादित्यसंकाशं वैदूर्यगुलिकाचितम् ॥ ३.६४.४४ ॥
孩子,这是罗刹的,还是天神的?它像初升的太阳一样闪耀,镶嵌着青金石珠。
3.64.45
विशीर्णं पतितं भूमौ कवचं कस्य काञ्चनम्।
छत्रं शतशलाकं च दिव्यमाल्योपशोभितम् ॥ ३.६४.४५ ॥
这副散落倒在地上的金甲是谁的?还有这把百骨、装饰着神圣花环的伞盖,又是谁的?
3.64.46
भग्नदण्डमिदं सौम्य भूमौ कस्य निपातितम्।
काञ्चनोरश्छदाश्चेमे पिशाचवदनाः खराः ॥ ३.६४.४६ ॥
善良的人啊,这辆断了车辕的战车是被谁推倒在地的?这些披着金胸甲、长着鬼怪面孔的驴子又是谁的?
3.64.47
भीमरूपा महाकायाः कस्य वा निहता रणे।
दीप्तपावकसंकाशो द्युतिमान् समरध्वजः ॥ ३.६४.४७ ॥
这些形貌恐怖、身躯庞大的,是被谁在战场上杀死的?这面如燃烧的火焰般闪耀的战旗又是谁的?
3.64.48
अपविद्धश्च भग्नश्च कस्य साङ्ग्रामिको रथः।
रथाक्षमात्रा विशिखास्तपनीयविभूषणाः ॥ ३.६४.४८ ॥
这辆被抛弃、破碎的战车是谁的?这些长如车轴、饰以黄金的箭又是谁的?
3.64.49
कस्येमे निहता बाणाः प्रकीर्णा घोरदर्शनाः।
शरावरौ शरैः पूर्णौ विध्वस्तौ पश्य लक्ष्मण ॥ ३.६४.४९ ॥
罗什曼那,看哪,这些令人恐怖的箭散落一地,是谁的?那两个装满箭的箭囊也都碎裂在地。
3.64.50
प्रतोदाभीषुहस्तोऽयं कस्य वा सारथिर्हतः।
पदवी पुरुषस्यैषा व्यक्तं कस्यापि रक्षसः ॥ ३.६४.५० ॥
这个手持鞭子与缰绳、被杀的御者是谁的?这是一个人的足迹,显然也是某个罗刹的。
3.64.51
वैरं शतगुणं पश्य मम तैर्जीवितान्तकम्।
सुघोरहृदयैः सौम्य राक्षसैः कामरूपिभिः ॥ ३.६४.५१ ॥
看,他们对我的仇恨增加了百倍,那些想要夺取我性命的人。善良的人啊,他们是心肠极其残忍、能随意变化形貌的罗刹。
3.64.52
हृता मृता वा वैदेही भक्षिता वा तपस्विनी।
न धर्मस्त्रायते सीतां ह्रियमाणां महावने ॥ ३.६४.५२ ॥
维德黑希悉多是被劫走了,还是死了,或是被吃掉了,哦苦行女。在这大森林里被劫走的悉多,连法也没有保护她。
3.64.53
भक्षितायां हि वैदेह्यां हृतायामपि लक्ष्मण।
के हि लोके प्रियं कर्तुं शक्ताः सौम्य ममेश्वराः ॥ ३.६४.५३ ॥
罗什曼那,即使维德黑希被吃掉或被劫走,善良的人啊,世上谁是我的主人,能够为我做我所喜爱的事呢?
3.64.54
कर्तारमपि लोकानां शूरं करुणवेदिनम्।
अज्ञानादवमन्येरन् सर्वभूतानि लक्ष्मण ॥ ३.६४.५४ ॥
即便是世界的创造者、懂得慈悲的英雄,罗什曼那,众生也可能因无知而轻慢他。
3.64.55
मृदुं लोकहिते युक्तं दान्तं करुणवेदिनम्।
निर्वीर्य इति मन्यन्ते नूनं मां त्रिदशेश्वराः ॥ ३.६४.५५ ॥
我致力于世界的福祉,温和、克己,懂得慈悲,然而三十三天之主必定以为我软弱无力。
3.64.56
मां प्राप्य हि गुणो दोषः संवृत्तः पश्य लक्ष्मण।
अद्यैव सर्वभूतानां रक्षसामभवाय च ॥ ३.६४.५६ ॥
罗什曼那,你看:我一旦到来,美德也成了过失;今日它必将成为一切众生与罗刹的毁灭。
3.64.57
संहृत्यैव शशिज्योत्स्नां महान् सूर्य इवोदितः।
संहृत्यैव गुणान् सर्वान् मम तेजः प्रकाशते ॥ ३.६४.५७ ॥
如同伟大的太阳升起,收敛了月光,我的光辉也在收敛一切德性之后显现。
3.64.58
नैव यक्षा न गन्धर्वा न पिशाचा न राक्षसाः।
किंनरा वा मनुष्या वा सुखं प्राप्स्यन्ति लक्ष्मण ॥ ३.६४.५८ ॥
罗什曼那,夜叉、乾闼婆、毗舍遮、罗刹、紧那罗,乃至人类,都不会获得幸福。
3.64.59
ममास्त्रबाणसम्पूर्णमाकाशं पश्य लक्ष्मण।
असम्पातं करिष्यामि ह्यद्य त्रैलोक्यचारिणाम् ॥ ३.६४.५९ ॥
罗什曼那,看那布满我的兵器与箭矢的天空;今日我必使它对游走三界者不可通行。
3.64.60
संनिरुद्धग्रहगणमावारितनिशाकरम्।
विप्रणष्टानलमरुद्भास्करद्युतिसंवृतम् ॥ ३.६४.६० ॥
天空中星群被阻,月亮被遮,火与风及日光尽数消散,被笼罩其中。
3.64.61
विनिर्मथितशैलाग्रं शुष्यमाणजलाशयम्।
ध्वस्तद्रुमलतागुल्मं विप्रणाशितसागरम् ॥ ३.६४.६१ ॥
山峰被碾碎,池塘正在干涸,树木、藤蔓和灌木都被摧毁,大海也已完全毁灭。
3.64.62
त्रैलोक्यं तु करिष्यामि संयुक्तं कालकर्मणा।
न ते कुशलिनीं सीतां प्रदास्यन्ति ममेश्वराः ॥ ३.६४.६२ ॥
我将以时间之业束缚三界;那些主宰者不会把安好的悉多还给我。
3.64.63
अस्मिन् मुहूर्ते सौमित्रे मम द्रक्ष्यन्ति विक्रमम्।
नाकाशमुत्पतिष्यन्ति सर्वभूतानि लक्ष्मण ॥ ३.६४.६३ ॥
萨米特里啊,此刻一切众生都将见到我的威勇;罗什曼那啊,没有任何生灵能飞上天空逃脱。
3.64.64
मम चापगुणोन्मुक्तैर्बाणजालैर्निरन्तरम्।
मर्दितं मम नाराचैर्ध्वस्तभ्रान्तमृगद्विजम् ॥ ३.६४.६४ ॥
被从我弓弦上连续射出的箭网,以及我的铁箭所碾压,鹿与鸟将惊惶四散。
3.64.65
समाकुलममर्यादं जगत् पश्याद्य लक्ष्मण।
आकर्णपूर्णैरिषुभिर्जीवलोकदुरावरैः ॥ ३.६४.६५ ॥
罗什曼那啊,今日请看,世界将陷入无边的混乱,箭矢拉至耳际,有生之界无法抵挡。
3.64.66
करिष्ये मैथिलीहेतोरपिशाचमराक्षसम्।
मम रोषप्रयुक्तानां विशिखानां बलं सुराः ॥ ३.६४.६६ ॥
为了迈提利(悉多),我连毕舍遮与罗刹都不会放过;诸天啊,请看我怒气所发之箭的威力。
3.64.67
द्रक्ष्यन्त्यद्य विमुक्तानाममर्षाद् दूरगामिनाम्।
नैव देवा न दैतेया न पिशाचा न राक्षसाः ॥ ३.६४.६७ ॥
今日他们将见到,那些因愤怒而射出、飞向远方的箭:无论天神、达提亚、毕舍遮,还是罗刹,都无法幸免。
3.64.68
भविष्यन्ति मम क्रोधात् त्रैलोक्ये विप्रणाशिते।
देवदानवयक्षाणां लोका ये रक्षसामपि ॥ ३.६४.६८ ॥
因我的愤怒,当三界被毁灭之时,天神、檀那婆、夜叉之界,以及罗刹之界,也都将被毁灭。
3.64.69
बहुधा निपतिष्यन्ति बाणौघैः शकलीकृताः।
निर्मर्यादानिमाँल्लोकान् करिष्याम्यद्य सायकैः ॥ ३.६४.६९ ॥
被箭雨割裂,他们将以种种方式倒下。今日我将以我的箭使这些世界失去秩序。
3.64.70
हृतां मृतां वा सौमित्रे न दास्यन्ति ममेश्वराः।
तथारूपां हि वैदेहीं न दास्यन्ति यदि प्रियाम् ॥ ३.६४.७० ॥
萨乌弥特丽啊,无论她被掳走还是已死,我的主宰(诸神)都不会把她还给我;如果他们不把我这样容貌的心爱的毗提诃还给我,[便会如此]。
3.64.71
नाशयामि जगत् सर्वं त्रैलोक्यं सचराचरम्।
यावद् दर्शनमस्या वै तापयामि च सायकैः ॥ ३.६४.७१ ॥
我将毁灭整个世界,连同三界中的动与不动之物;只要我还未见到她,我就要以箭炙烤它们。
3.64.72
इत्युक्त्वा क्रोधताम्राक्षः स्फुरमाणोष्ठसम्पुटः।
वल्कलाजिनमाबद्ध्य जटाभारमबन्धयत् ॥ ३.६४.७२ ॥
说完这话,他双眼因愤怒而泛红,嘴唇颤抖,披上树皮衣与鹿皮,并将纠结的发髻束起。
3.64.73
तस्य क्रुद्धस्य रामस्य तथाभूतस्य धीमतः।
त्रिपुरं जघ्नुषः पूर्वं रुद्रस्येव बभौ तनुः ॥ ३.६४.७३ ॥
智者罗摩怒火中烧,形貌如此改变,光彩如昔日摧毁三城的楼陀罗之身。
3.64.74
लक्ष्मणादथ चादाय रामो निष्पीड्य कार्मुकम्।
शरमादाय संदीप्तं घोरमाशीविषोपमम् ॥ ३.६४.७४ ॥
罗摩从罗什曼那手中接过弓,用力压住,又取出一支燃烧的可怖之箭,如同毒蛇。
3.64.75
संदधे धनुषि श्रीमान् रामः परपुरञ्जयः।
युगान्ताग्निरिव क्रुद्ध इदं वचनमब्रवीत् ॥ ३.६४.७५ ॥
威严的罗摩,征服敌城者,将箭搭在弓上,怒如劫末之火,说出了这番话。
3.64.76
यथा जरा यथा मृत्युर्यथा कालो यथा विधिः।
नित्यं न प्रतिहन्यन्ते सर्वभूतेषु लक्ष्मण।
तथाहं क्रोधसंयुक्तो न निवार्योऽस्म्यसंशयम् ॥ ३.६४.७६ ॥
如衰老、死亡、时间与命运在一切众生中从不受阻,罗什曼那啊,我此刻怀着愤怒,无疑也是不可阻挡的。
3.64.77
पुरेव मे चारुदतीमनिन्दितां
दिशन्ति सीतां यदि नाद्य मैथिलीम्।
सदेवगन्धर्वमनुष्यपन्नगं
जगत् सशैलं परिवर्तयाम्यहम् ॥ ३.६४.७७ ॥
若今日他们不归还从前一般美齿、无瑕的弥提罗女悉多,我便要连同诸天、乾闼婆、人与龙蛇,以及山岳,一并倾覆这世界。