Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 3.65

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.65.1

तप्यमानं तदा रामं सीताहरणकर्शितम्।
लोकानामभवे युक्तं सांवर्तकमिवानलम् ॥ ३.६५.१ ॥

此时,因悉多被劫而备受煎熬、憔悴不堪的罗摩,宛如毁灭世界的劫末之火。

3.65.2

वीक्षमाणं धनुः सज्यं निःश्वसन्तं पुनः पुनः।
दग्धुकामं जगत् सर्वं युगान्ते च यथा हरम् ॥ ३.६५.२ ॥

罗摩注视着上好弦的弓,一再叹息,想要像劫末的哈罗(湿婆)那样焚烧整个世界。

3.65.3

अदृष्टपूर्वं संक्रुद्धं दृष्ट्वा रामं स लक्ष्मणः।
अब्रवीत् प्राञ्जलिर्वाक्यं मुखेन परिशुष्यता ॥ ३.६५.३ ॥

罗什曼那见罗摩从未如此震怒,便合掌,面色枯槁,说出了这些话。

3.65.4

पुरा भूत्वा मृदुर्दान्तः सर्वभूतहिते रतः।
न क्रोधवशमापन्नः प्रकृतिं हातुमर्हसि ॥ ३.६५.४ ॥

你从前温和而自制,乐于利益一切众生。你不应被愤怒所左右,而舍弃你的本性。

3.65.5

चन्द्रे लक्ष्मीः प्रभा सूर्ये गतिर्वायौ भुवि क्षमा।
एतच्च नियतं नित्यं त्वयि चानुत्तमं यशः ॥ ३.६५.५ ॥

月亮之中有光辉,太阳之中有光明,风中有运行,大地之上有忍耐;而在你身上,无与伦比的声名同样恒常不变。

3.65.6

एकस्य नापराधेन लोकान् हन्तुं त्वमर्हसि।
ननु जानामि कस्यायं भग्नः सांग्रामिको रथः ॥ ३.६५.६ ॥

因一人之罪而毁灭所有世界,于你不相称。我确实知道这辆被毁的战车属于谁。

3.65.7

केन वा कस्य वा हेतोः सयुगः सपरिच्छदः।
खुरनेमिक्षतश्चायं सिक्तो रुधिरबिन्दुभिः ॥ ३.६५.७ ॥

这辆战车连同车轭和全部配件,是被谁、因何缘故毁坏的?被马蹄和车轮边缘所伤,沾满了血滴。

3.65.8

देशो निर्वृत्तसंग्रामः सुघोरः पार्थिवात्मज।
एकस्य तु विमर्दोऽयं न द्वयोर्वदतां वर ॥ ३.६५.८ ॥

王子啊,这里是一场极其可怕的战斗结束的地方。这片践踏只属于一人,而非两人,善言者中最优秀的人啊。

3.65.9

नहि वृत्तं हि पश्यामि बलस्य महतः पदम्।
नैकस्य तु कृते लोकान् विनाशयितुमर्हसि ॥ ३.६५.९ ॥

我在这里看不到大军的足迹。你不应为了一人而毁灭诸世界。

3.65.10

युक्तदण्डा हि मृदवः प्रशान्ता वसुधाधिपाः।
सदा त्वं सर्वभूतानां शरण्यः परमा गतिः ॥ ३.६५.१० ॥

善用刑罚的君王温和而平静。而你始终是一切众生的庇护与至高的依归。

3.65.11

को नु दारप्रणाशं ते साधु मन्येत राघव।
सरितः सागराः शैला देवगन्धर्वदानवाः ॥ ३.६५.११ ॥

啊,罗怙之后,谁会认为你妻子的毁灭是好事?河流、海洋、山峦、天神、乾闼婆与阿修罗也不会这样认为。

3.65.12

नालं ते विप्रियं कर्तुं दीक्षितस्येव साधवः।
येन राजन् हृता सीता तमन्वेषितुमर्हसि ॥ ३.६५.१२ ॥

正如善人不会对发愿守戒之人做不悦之事,也无人能对你做不悦之事。大王啊,你应当去寻找那个劫走悉多的人。

3.65.13

मद्द्वितीयो धनुष्पाणिः सहायैः परमर्षिभिः।
समुद्रं वा विचेष्यामः पर्वतांश्च वनानि च ॥ ३.६५.१३ ॥

我为第二,手持弓箭,借助至上的仙人,我们将寻找大海,或山岳与森林。

3.65.14

गुहाश्च विविधा घोराः पद्मिन्यो विविधास्तथा।
देवगन्धर्वलोकांश्च विचेष्यामः समाहिताः ॥ ३.६५.१४ ॥

各种可怖的洞穴,各种莲花池,以及天神与乾闼婆的世界,我们将凝神寻找。

3.65.15

यावन्नाधिगमिष्यामस्तव भार्यापहारिणम्।
न चेत् साम्ना प्रदास्यन्ति पत्नीं ते त्रिदशेश्वराः।
कोसलेन्द्र ततः पश्चात् प्राप्तकालं करिष्यसि ॥ ३.६५.१५ ॥

直到我们找到你妻子的掳掠者;如果三十天神之主不以和解交还你的妻子,科萨拉之王啊,那么之后,在适当的时候,你将采取行动。

3.65.16

शीलेन साम्ना विनयेन सीतां
नयेन न प्राप्स्यसि चेन्नरेन्द्र।
ततः समुत्सादय हेमपुङ्खै-
र्महेन्द्रवज्रप्रतिमैः शरौघैः ॥ ३.६५.१६ ॥

若你不能以善行、和解、谦逊或策略得到悉多,人主啊,那么就用金羽的箭群,如因陀罗的金刚杵般,将他们彻底消灭。