ヴァールミーキのラーマーヤナ · サルガ 3.67
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.67.1
पूर्वजोऽप्युक्तमात्रस्तु लक्ष्मणेन सुभाषितम्।
सारग्राही महासारं प्रतिजग्राह राघवः ॥ ३.६७.१ ॥
ラクシュマナの善言を聞くやいなや、要点を捉える長兄ラーガヴァはその大いなる要諦を受け入れた。
3.67.2
स निगृह्य महाबाहुः प्रवृद्धं रोषमात्मनः।
अवष्टभ्य धनुश्चित्रं रामो लक्ष्मणमब्रवीत् ॥ ३.६७.२ ॥
膨れ上がった怒りを抑え、大腕のラーマは見事な弓を取って、ラクシュマナに語った。
3.67.3
किं करिष्यावहे वत्स क्व वा गच्छाव लक्ष्मण।
केनोपायेन पश्यावः सीतामिह विचिन्तय ॥ ३.६७.३ ॥
どうしようか、わが子よ。ラクシュマナ、どこへ行こうか。どんな方法でここにシーターを見つけられるか。考えてくれ。
3.67.4
तं तथा परितापार्तं लक्ष्मणो वाक्यमब्रवीत्।
इदमेव जनस्थानं त्वमन्वेषितुमर्हसि ॥ ३.६७.४ ॥
深い苦悩に苛まれるラーマに、ラクシュマナはこう言った。「まさにこのジャナスターナで探すべきです。」
3.67.5
राक्षसैर्बहुभिः कीर्णं नानाद्रुमलतायुतम्।
सन्तीह गिरिदुर्गाणि निर्दराः कन्दराणि च ॥ ३.६७.५ ॥
多くのラークシャサに満ち、さまざまな木や蔓に覆われたこの地には、山の要害、峡谷、洞窟もある。
3.67.6
गुहाश्च विविधा घोरा नानामृगगणाकुलाः।
आवासाः किंनराणां च गन्धर्वभवनानि च ॥ ३.६७.६ ॥
さまざまな恐ろしい洞窟があり、多くの獣の群れで賑わっている。キンナラの住居やガンダルヴァの館もある。
3.67.7
तानि युक्तो मया सार्धं समन्वेषितुमर्हसि।
त्वद्विधा बुद्धिसम्पन्ना महात्मानो नरर्षभाः ॥ ३.६७.७ ॥
あなたは私とともにそれらの場所を探すべきだ。あなたのような知恵あり、偉大な魂をもつ人中の雄牛たちこそ、そうすべきなのだ。
3.67.8
आपत्सु न प्रकम्पन्ते वायुवेगैरिवाचलाः।
इत्युक्तस्तद् वनं सर्वं विचचार सलक्ष्मणः ॥ ३.६७.८ ॥
風の勢いに山々が揺らがないように、善人は災難にあっても動じない。そう言われて、彼はラクシュマナとともにその森全体を巡り歩いた。
3.67.9
क्रुद्धो रामः शरं घोरं संधाय धनुषि क्षुरम्।
ततः पर्वतकूटाभं महाभागं द्विजोत्तमम् ॥ ३.६७.९ ॥
怒ったラーマは、恐ろしく鋭い矢を弓につがえた。そのとき彼は、山の峰のような、大いなる幸福を持つ、再生族の最上の鳥を見た。
3.67.10
ददर्श पतितं भूमौ क्षतजार्द्रं जटायुषम्।
तं दृष्ट्वा गिरिशृङ्गाभं रामो लक्ष्मणमब्रवीत् ॥ ३.६७.१० ॥
彼は血に濡れて地に倒れたジャターユを見た。山の峰のようなその姿を見て、ラーマはラクシュマナに言った。
3.67.11
अनेन सीता वैदेही भक्षिता नात्र संशयः।
गृध्ररूपमिदं व्यक्तं रक्षो भ्रमति काननम् ॥ ३.६७.११ ॥
この者がヴァイデーヒーのシーターを食べたことは疑いない。禿鷹の姿をしたこのラークシャサが、森をさまよっていたのは明らかだ。
3.67.12
भक्षयित्वा विशालाक्षीमास्ते सीतां यथासुखम्।
एनं वधिष्ये दीप्ताग्रैः शरैर्घोरैरजिह्मगैः ॥ ३.६७.१२ ॥
大きな目のシーターを食べて、これは安楽にしている。燃え盛る鏃をもつ、恐ろしく、まっすぐ飛ぶ矢で、私はこれを討つつもりだ。
3.67.13
इत्युक्त्वाभ्यपतद् द्रष्टुं संधाय धनुषि क्षुरम्।
क्रुद्धो रामः समुद्रान्तां चालयन्निव मेदिनीम् ॥ ३.६७.१३ ॥
こう言うと、彼はそれを見ようと踏み出し、弓に剃刀の刃のような矢をつがえた。怒れるラーマは、海までを揺るがすかのように立っていた。
3.67.14
तं दीनदीनया वाचा सफेनं रुधिरं वमन्।
अभ्यभाषत पक्षी स रामं दशरथात्मजम् ॥ ३.६७.१४ ॥
その鳥は、泡混じりの血を吐きながら、極めて哀れな声でダシャラタの子ラーマに語りかけた。
3.67.15
यामोषधीमिवायुष्मन्नन्वेषसि महावने।
सा देवी मम च प्राणा रावणेनोभयं हृतम् ॥ ३.६७.१५ ॥
長寿の方よ、この大森林であなたが探している、薬草のような女神と私の命、その二つともラーヴァナに奪われたのです。
3.67.16
त्वया विरहिता देवी लक्ष्मणेन च राघव।
ह्रियमाणा मया दृष्टा रावणेन बलीयसा ॥ ३.६७.१६ ॥
ラーガヴァよ、あなたとラクシュマナから引き離された女神が、強大なラーヴァナに連れ去られるのを私は見ました。
3.67.17
सीतामभ्यवपन्नोऽहं रावणश्च रणे प्रभो।
विध्वंसितरथच्छत्रः पतितो धरणीतले ॥ ३.६७.१७ ॥
主よ、私はシーターを攻撃し、戦いの中でラーヴァナも——彼の戦車と天蓋は砕け、彼は地に倒れました。
3.67.18
एतदस्य धनुर्भग्नमेते चास्य शरास्तथा।
अयमस्य रणे राम भग्नः सांग्रामिको रथः ॥ ३.६७.१८ ॥
見てください、彼の弓は折れ、矢も同様です。ラーマよ、戦いで彼のこの戦車も砕けてしまいました。
3.67.19
अयं तु सारथिस्तस्य मत्पक्षनिहतो भुवि।
परिश्रान्तस्य मे पक्षौ छित्त्वा खड्गेन रावणः ॥ ३.६७.१९ ॥
これは彼の御者で、私の翼に打たれて地に倒れている。ラーヴァナは疲れ果てた私の両翼を剣で断ち切り——
3.67.20
सीतामादाय वैदेहीमुत्पपात विहायसम्।
रक्षसा निहतं पूर्वं मां न हन्तुं त्वमर्हसि ॥ ३.६७.२० ॥
ヴァイデーヒーのシーターを奪って、彼は空へ舞い上がった。以前、羅刹に打ち倒された私を、あなたは殺してはならない。
3.67.21
रामस्तस्य तु विज्ञाय सीतासक्तां प्रियां कथाम्।
गृध्रराजं परिष्वज्य परित्यज्य महद् धनुः ॥ ३.६७.२१ ॥
ラーマは彼の言葉を理解した——シーターにまつわるその愛しい知らせを。鷲の王を抱きしめ、大弓を置いて——
3.67.22
निपपातावशो भूमौ रुरोद सहलक्ष्मणः।
द्विगुणीकृततापार्तो रामो धीरतरोऽपि सन् ॥ ३.६७.२२ ॥
彼は力なく地に倒れ、ラクシュマナと共に泣いた。倍になった苦しみに悩まされたラーマは、最も堅固な人であったのに——
3.67.23
एकमेकायने कृच्छ्रे निःश्वसन्तं मुहुर्मुहुः।
समीक्ष्य दुःखितो रामः सौमित्रिमिदमब्रवीत् ॥ ३.६७.२३ ॥
苦しみの中で、一瞬一瞬繰り返し嘆息する彼を見て、悲しんだラーマはサウミトリにこう言った。
3.67.24
राज्यं भ्रष्टं वने वासः सीता नष्टा मृतो द्विजः।
ईदृशीयं ममालक्ष्मीर्दहेदपि हि पावकम् ॥ ३.६७.२४ ॥
王国を失い、森に住み、シーターは消え、再生者の鳥は死んだ。私のこのような不運は、火さえも焼き尽くすだろう。
3.67.25
सम्पूर्णमपि चेदद्य प्रतरेयं महोदधिम्।
सोऽपि नूनं ममालक्ष्म्या विशुष्येत् सरितां पतिः ॥ ३.६७.२५ ॥
今日、満ちた大海を渡ったとしても、私の不運のせいで、川の主であるその海すら必ず干上がるだろう。
3.67.26
नास्त्यभाग्यतरो लोके मत्तोऽस्मिन् स चराचरे।
येनेयं महती प्राप्ता मया व्यसनवागुरा ॥ ३.६७.२६ ॥
動くものと動かないもののこの世界で、私より不運な者はいない。私のせいで彼女はこの大きな災厄の罠に捕らえられたのだ。
3.67.27
अयं पितुर्वयस्यो मे गृध्रराजो महाबलः।
शेते विनिहतो भूमौ मम भाग्यविपर्ययात् ॥ ३.६७.२७ ॥
これは父の友であり、大力の禿鷹の王である。私の運命の逆転によって打ち倒され、地に横たわっているのだ。
3.67.28
इत्येवमुक्त्वा बहुशो राघवः सहलक्ष्मणः।
जटायुषं च पस्पर्श पितृस्नेहं निदर्शयन् ॥ ३.६७.२८ ॥
このように何度も語った後、ラーガヴァはラクシュマナとともにジャターユに触れ、父への情愛を示した。
3.67.29
निकृत्तपक्षं रुधिरावसिक्तं
तं गृध्रराजं परिगृह्य राघवः।
क्व मैथिली प्राणसमा गतेति
विमुच्य वाचं निपपात भूमौ ॥ ३.६७.२९ ॥
翼を切られ血にまみれたその禿鷹王を抱きかかえ、ラーガヴァは「命より大切なマイティリーはどこへ行ったのか」と言い、言葉を途切らせて地に倒れ伏した。