蚁垤《罗摩衍那》 · 篇 3.68
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.68.1
रामः प्रेक्ष्य तु तं गृध्रं भुवि रौद्रेण पातितम्।
सौमित्रिं मित्रसम्पन्नमिदं वचनमब्रवीत् ॥ ३.६८.१ ॥
罗摩见那只被凶猛的罗刹击落在地的大鹫,便对与他情谊深厚的罗什曼那(苏弥陀罗之子)说了这些话。
3.68.2
ममायं नूनमर्थेषु यतमानो विहंगमः।
राक्षसेन हतः संख्ये प्राणांस्त्यजति मत्कृते ॥ ३.६८.२ ॥
这只鸟必定是为了我而奋力相搏,在战斗中被罗刹击中,为我而舍弃了性命。
3.68.3
अतिखिन्नः शरीरेऽस्मिन् प्राणो लक्ष्मण विद्यते।
तथा स्वरविहीनोऽयं विक्लवं समुदीक्षते ॥ ३.६८.३ ॥
罗什曼那啊,这身体中的生命之气仍在,极为悲痛;而这失去声音的鸟,正满怀痛苦地凝望。
3.68.4
जटायो यदि शक्नोषि वाक्यं व्याहरितुं पुनः।
सीतामाख्याहि भद्रं ते वधमाख्याहि चात्मनः ॥ ३.६८.४ ॥
迦吒优啊,你若还能再说话,就告诉我关于悉多的事吧;愿你平安,也请说说你自己是如何被杀的。
3.68.5
किंनिमित्तो जहारार्यां रावणस्तस्य किं मया।
अपराधं तु यं दृष्ट्वा रावणेन हृता प्रिया ॥ ३.६८.५ ॥
罗波那因何缘故劫走了那位高贵的夫人?他看到我有何过失,以致罗波那夺走了我心爱的妻子?
3.68.6
कथं तच्चन्द्रसंकाशं मुखमासीन्मनोहरम्।
सीतया कानि चोक्तानि तस्मिन् काले द्विजोत्तम ॥ ३.६८.६ ॥
最优秀的再生者啊,那时悉多那张如月般迷人的脸容是怎样的?悉多那时又说了哪些话?
3.68.7
कथंवीर्यः कथंरूपः किंकर्मा स च राक्षसः।
क्व चास्य भवनं तात ब्रूहि मे परिपृच्छतः ॥ ३.६८.७ ॥
那罗刹有多大威力,形貌如何,做何事业?亲爱的,他的住处在哪里?请告诉我,我在询问。
3.68.8
तमुद्वीक्ष्य स धर्मात्मा विलपन्तमनाथवत्।
वाचा विक्लवया राममिदं वचनमब्रवीत् ॥ ३.६८.८ ॥
看到他像无依无靠者一样哀泣,那位心地正直的人以颤抖的声音对罗摩说了这些话。
3.68.9
सा हृता राक्षसेन्द्रेण रावणेन दुरात्मना।
मायामास्थाय विपुलां वातदुर्दिनसंकुलाम् ॥ ३.६८.९ ॥
她被心怀恶念的罗刹王罗波那借助一场巨大的幻术劫走,那幻术如同风暴昏暗的日子般浓重。
3.68.10
परिक्लान्तस्य मे तात पक्षौ छित्त्वा निशाचरः।
सीतामादाय वैदेहीं प्रयातो दक्षिणामुखः ॥ ३.६८.१० ॥
亲爱的,他砍断了我疲惫的翅膀,那夜行者带着毗提诃公主悉多朝南而去。
3.68.11
उपरुध्यन्ति मे प्राणा दृष्टिर्भ्रमति राघव।
पश्यामि वृक्षान् सौवर्णानुशीरकृतमूर्धजान् ॥ ३.६८.११ ॥
罗怙婆啊,我的生气正在被阻断,眼前晕眩;我看见金色的树,树顶如同乌舍罗草冠。
3.68.12
येन याति मुहूर्तेन सीतामादाय रावणः।
विप्रणष्टं धनं क्षिप्रं तत्स्वामी प्रतिपद्यते ॥ ३.६८.१२ ॥
罗波那带着悉多离去的那一刻,失去的财富将很快被它的主人重新找回。
3.68.13
विन्दो नाम मुहूर्तोऽसौ न च काकुत्स्थ सोऽबुधत् ।
त्वत्प्रियां जानकीं हृत्वा रावणो राक्षसेश्वरः।
झषवद् बडिशं गृह्य क्षिप्रमेव विनश्यति ॥ ३.६८.१३ ॥
啊,迦恭史,名为“频陀”的那一时刻,罗刹之主罗婆那并未察觉。他劫走了你心爱的耆那吉,如鱼吞钩,很快便会灭亡。
3.68.14
न च त्वया व्यथा कार्या जनकस्य सुतां प्रति।
वैदेह्या रंस्यसे क्षिप्रं हत्वा तं रणमूर्धनि ॥ ३.६८.१४ ॥
你不该为阇那迦之女而忧伤。在战场前列杀死他之后,你很快便会与毗提诃共享欢乐。
3.68.15
असम्मूढस्य गृध्रस्य रामं प्रत्यनुभाषतः।
आस्यात् सुस्राव रुधिरं म्रियमाणस्य सामिषम् ॥ ३.६८.१५ ॥
那只神志清醒的秃鹫,在向罗摩说话时,临死之际,口中流出了带着血肉的鲜血。
3.68.16
पुत्रो विश्रवसः साक्षाद् भ्राता वैश्रवणस्य च।
इत्युक्त्वा दुर्लभान् प्राणान् मुमोच पतगेश्वरः ॥ ३.६८.१६ ॥
他说道:“我确是毗湿罗婆之子,财神毗沙罗那之兄。”说完,鸟王便舍弃了难得的生命之息。
3.68.17
ब्रूहि ब्रूहीति रामस्य ब्रुवाणस्य कृताञ्जलेः।
त्यक्त्वा शरीरं गृध्रस्य प्राणा जग्मुर्विहायसम् ॥ ३.६८.१७ ॥
罗摩合掌不停地说:“说吧,说吧。”那只秃鹫舍弃身体,生命之息升入了天空。
3.68.18
स निक्षिप्य शिरो भूमौ प्रसार्य चरणौ तथा।
विक्षिप्य च शरीरं स्वं पपात धरणीतले ॥ ३.६८.१८ ॥
他将头放在地上,伸展双脚,抛开自己的身躯,倒在大地之上。
3.68.19
तं गृध्रं प्रेक्ष्य ताम्राक्षं गतासुमचलोपमम्।
रामः सुबहुभिर्दुःखैर्दीनः सौमित्रिमब्रवीत् ॥ ३.६८.१९ ॥
罗摩见那红眼的秃鹫已无气息,如山般倒卧,因诸多悲痛而哀伤,便对苏弥德拉(罗什曼那)说道。
3.68.20
बहूनि रक्षसां वासे वर्षाणि वसता सुखम्।
अनेन दण्डकारण्ये विशीर्णमिह पक्षिणा ॥ ३.६८.२० ॥
这只鸟在罗刹的居所中快乐地生活了许多年,如今却在檀陀迦林中被撕成碎片。
3.68.21
अनेकवार्षिको यस्तु चिरकालसमुत्थितः।
सोऽयमद्य हतः शेते कालो हि दुरतिक्रमः ॥ ३.६८.२१ ॥
此鸟多年长寿,历时已久,今日却被杀而倒卧;确实,时间难以逾越。
3.68.22
पश्य लक्ष्मण गृध्रोऽयमुपकारी हतश्च मे।
सीतामभ्यवपन्नो हि रावणेन बलीयसा ॥ ३.६८.२२ ॥
看哪,罗什曼那!这只秃鹫曾帮助过我,却为我而死;因为他曾扑向悉多,被强大的罗波那所杀。
3.68.23
गृध्रराज्यं परित्यज्य पितृपैतामहं महत्।
मम हेतोरयं प्राणान् मुमोच पतगेश्वरः ॥ ३.६८.२३ ॥
这位鸟王舍弃了祖传的伟大鹫王国,为了我而献出了生命。
3.68.24
सर्वत्र खलु दृश्यन्ते साधवो धर्मचारिणः।
शूराः शरण्याः सौमित्रे तिर्यग्योनिगतेष्वपि ॥ ३.६८.२४ ॥
确实,苏弥德拉啊,到处都可以看到践行法(dharma)的善良者、勇敢者和庇护者,即使在畜生道中出生的生命里也是如此。
3.68.25
सीताहरणजं दुःखं न मे सौम्य तथागतम्।
यथा विनाशो गृध्रस्य मत्कृते च परंतप ॥ ३.६८.२५ ॥
温和的人啊,悉多被劫带给我的悲痛,并不及因我而使金翅鸟(秃鹫)陨命之痛,克敌者啊。
3.68.26
राजा दशरथः श्रीमान् यथा मम महायशाः।
पूजनीयश्च मान्यश्च तथायं पतगेश्वरः ॥ ३.६८.२६ ॥
正如我那光荣、大名远扬的国王十车王值得敬重和尊崇,这位鸟王也是如此。
3.68.27
सौमित्रे हर काष्ठानि निर्मथिष्यामि पावकम्।
गृध्रराजं दिधक्ष्यामि मत्कृते निधनं गतम् ॥ ३.६८.२७ ॥
罗什曼,去拿柴来;我将生火,焚烧为我而死的秃鹫王。
3.68.28
नाथं पतगलोकस्य चितिमारोपयाम्यहम्।
इमं धक्ष्यामि सौमित्रे हतं रौद्रेण रक्षसा ॥ ३.६८.२८ ॥
我将这位鸟界之主置于柴堆之上;罗什曼啊,我要焚化他,他是被残暴的罗刹杀死的。
3.68.29
या गतिर्यज्ञशीलानामाहिताग्नेश्च या गतिः।
अपरावर्तिनां या च या च भूमिप्रदायिनाम् ॥ ३.६८.२९ ॥
那些敬奉祭祀者的归宿,那些守持圣火者的归宿,那些不再退转者的归宿,以及那些施舍土地者的归宿——
3.68.30
मया त्वं समनुज्ञातो गच्छ लोकाननुत्तमान्।
गृध्रराज महासत्त्व संस्कृतश्च मया व्रज ॥ ३.६८.३० ॥
经我允许,你可以前往至上的世界;秃鹫王,大勇之士啊,经我如法安葬之后,启程吧。
3.68.31
एवमुक्त्वा चितां दीप्तामारोप्य पतगेश्वरम्।
ददाह रामो धर्मात्मा स्वबन्धुमिव दुःखितः ॥ ३.६८.३१ ॥
说完这话,正直的罗摩将鸟王安放在熊熊燃烧的柴堆上,悲伤地像对待自己的亲人一样将他火化。
3.68.32
रामोऽथ सहसौमित्रिर्वनं गत्वा स वीर्यवान्।
स्थूलान् हत्वा महारोहीननुतस्तार तं द्विजम् ॥ ३.६८.३२ ॥
随后,勇猛的罗摩与萨乌弥德梨一同进入森林,杀死大型摩诃罗诃鹿,为那位再生者献上了祭水。
3.68.33
रोहिमांसानि चोद्धृत्य पेशीकृत्वा महायशाः।
शकुनाय ददौ रामो रम्ये हरितशाद्वले ॥ ३.६८.३३ ॥
罗摩将罗希鹿的肉割下,切成小块,在那片可爱的青草地上供给那只鸟。
3.68.34
यत् तत् प्रेतस्य मर्त्यस्य कथयन्ति द्विजातयः।
तत् स्वर्गगमनं पित्र्यं तस्य रामो जजाप ह ॥ ३.६८.३४ ॥
凡再生者为死去的凡人所诵的,即为其升天而行的祖先之仪,罗摩果然诵念了它。
3.68.35
ततो गोदावरीं गत्वा नदीं नरवरात्मजौ।
उदकं चक्रतुस्तस्मै गृध्रराजाय तावुभौ ॥ ३.६८.३५ ॥
随后,两位最优之人的儿子来到戈达瓦里河,为秃鹫王献上了水。
3.68.36
शास्त्रदृष्टेन विधिना जलं गृध्राय राघवौ।
स्नात्वा तौ गृध्रराजाय उदकं चक्रतुस्तदा ॥ ३.६८.३६ ॥
两位罗怙族后裔依照经典规定的仪轨沐浴后,便为秃鹫王献上了水。
3.68.37
स गृध्रराजः कृतवान् यशस्करं
सुदुष्करं कर्म रणे निपातितः।
महर्षिकल्पेन च संस्कृतस्तदा
जगाम पुण्यां गतिमात्मनः शुभाम् ॥ ३.६८.३७ ॥
那位鹫王完成了极其艰难而光荣的功绩,在战场上倒下,此时得到如大仙人般的礼葬,前往他吉祥而有功德的归宿。
3.68.38
कृतोदकौ तावपि पक्षिसत्तमे
स्थिरां च बुद्धिं प्रणिधाय जग्मतुः।
प्रवेश्य सीताधिगमे ततो मनो
वनं सुरेन्द्राविव विष्णुवासवौ ॥ ३.६८.३८ ॥
二人为鸟中之最者奉上水祭之后,也以坚定的心志出发,将心思专注于寻找悉多,如毗湿奴与婆娑婆(因陀罗)两位天神之主一般进入森林。