Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 3.69

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.69.1

कृत्वैवमुदकं तस्मै प्रस्थितौ राघवौ तदा।
अवेक्षन्तौ वने सीतां जग्मतुः पश्चिमां दिशम् ॥ ३.६९.१ ॥

二位罗怙之子如此为他奉上水祭之后,便向西方出发,在林中寻找悉多。

3.69.2

तां दिशं दक्षिणां गत्वा शरचापासिधारिणौ।
अविप्रहतमैक्ष्वाकौ पन्थानं प्रतिपेदतुः ॥ ३.६९.२ ॥

二位甘蔗王族持箭、弓、剑,走向那南方,沿着一条无阻的道路前行。

3.69.3

गुल्मैर्वृक्षैश्च बहुभिर्लताभिश्च प्रवेष्टितम्।
आवृतं सर्वतो दुर्गं गहनं घोरदर्शनम् ॥ ३.६९.३ ॥

此林四面被灌木、众多树木和藤蔓缠绕覆盖,难以通行,浓密而令人恐怖。

3.69.4

व्यतिक्रम्य तु वेगेन गृहीत्वा दक्षिणां दिशम्।
सुभीमं तन्महारण्यं व्यतियातौ महाबलौ ॥ ३.६९.४ ॥

二位大力者迅速越过,取道南方,穿过了那片极其可怕的大森林。

3.69.5

ततः परं जनस्थानात् त्रिकोशं गम्य राघवौ।
क्रौञ्चारण्यं विविशतुर्गहनं तौ महौजसौ ॥ ३.६९.५ ॥

此后,二位大光明的罗怙之子越过查纳斯塔纳三科希,进入了茂密的鹤林。

3.69.6

नानामेघघनप्रख्यं प्रहृष्टमिव सर्वतः।
नानावर्णैः शुभैः पुष्पैर्मृगपक्षिगणैर्युतम् ॥ ३.६९.६ ॥

如同各种云层的浓密,仿佛处处欢喜,遍布色彩各异的美丽花朵,满是鹿群与飞鸟。

3.69.7

दिदृक्षमाणौ वैदेहीं तद् वनं तौ विचिक्यतुः।
तत्र तत्रावतिष्ठन्तौ सीताहरणदुःखितौ ॥ ३.६९.७ ॥

二人渴望见到毗提诃公主,在那片森林中搜寻,时而在此停留,时而在彼停留,因悉多被掳而悲痛。

3.69.8

ततः पूर्वेण तौ गत्वा त्रिक्रोशं भ्रातरौ तदा।
क्रौञ्चारण्यमतिक्रम्य मतङ्गाश्रममन्तरे ॥ ३.६९.८ ॥

此后二兄弟向东行三由旬,越过鹤林,抵达摩登伽仙人的道场之中。

3.69.9

दृष्ट्वा तु तद् वनं घोरं बहुभीममृगद्विजम्।
नानावृक्षसमाकीर्णं सर्वं गहनपादपम् ॥ ३.६९.९ ॥

二人见那可怖的森林,充满许多可怕的野兽和飞禽,遍布各种树木,到处是茂密的林木。

3.69.10

ददृशाते गिरौ तत्र दरीं दशरथात्मजौ।
पातालसमगम्भीरां तमसा नित्यसंवृताम् ॥ ३.६९.१० ॥

二位十车王之子在山上看见一个洞穴,深如地府,永远被黑暗笼罩。

3.69.11

आसाद्य च नरव्याघ्रौ दर्यास्तस्याविदूरतः।
ददर्शतुर्महारूपां राक्षसीं विकृताननाम् ॥ ३.६९.११ ॥

二位人中之杰到达洞穴不远处,看见一个形体巨大、面目狰狞的罗刹女。

3.69.12

भयदामल्पसत्त्वानां बीभत्सां रौद्रदर्शनाम्।
लम्बोदरीं तीक्ष्णदंष्ट्रां करालीं परुषत्वचम् ॥ ३.६९.१२ ॥

使意志薄弱者恐惧,丑陋可憎,形貌可怖;腹部下垂,利齿尖锐,狰狞可畏,皮肤粗糙。

3.69.13

भक्षयन्तीं मृगान् भीमान् विकटां मुक्तमूर्धजाम्।
अवैक्षतां तु तौ तत्र भ्रातरौ रामलक्ष्मणौ ॥ ३.६९.१३ ॥

兄弟二人罗摩与罗什曼那在那里看见她:她正在吞食可怕的鹿,形貌丑陋,披头散发。

3.69.14

सा समासाद्य तौ वीरौ व्रजन्तं भ्रातुरग्रतः।
एहि रंस्यावहेत्युक्त्वा समालम्भत लक्ष्मणम् ॥ ३.६९.१४ ॥

她走近这两位英雄,对走在兄长前面的罗什曼那说:“来吧,我们一起欢乐”,说完便拥抱了罗什曼那。

3.69.15

उवाच चैनं वचनं सौमित्रिमुपगुह्य च।
अहं त्वयोमुखी नाम लाभस्ते त्वमसि प्रियः ॥ ३.६९.१५ ॥

她拥抱着苏弥德罗(罗什曼那),说了这些话:“我名叫特瓦约穆基;这是你的福气,你是我所爱的人。”

3.69.16

नाथ पर्वतदुर्गेषु नदीनां पुलिनेषु च।
आयुश्चिरमिदं वीर त्वं मया सह रंस्यसे ॥ ३.६९.१६ ॥

“夫君啊,在山间的险要之处,在河流的沙岸上,英雄啊,你将与我在这漫长的一生中欢乐。”

3.69.17

एवमुक्तस्तु कुपितः खड्गमुद्धृत्य लक्ष्मणः।
कर्णनासस्तनं तस्या निचकर्तारिसूदनः ॥ ३.६९.१७ ॥

罗什曼那,这位摧毁敌人者,听了这话,怒火中烧,拔出剑来,割下她的耳朵、鼻子和乳房。

3.69.18

कर्णनासे निकृत्ते तु विस्वरं विननाद सा।
यथागतं प्रदुद्राव राक्षसी घोरदर्शना ॥ ३.६९.१८ ॥

她的耳朵和鼻子被割下后,她大声尖叫,那形貌可怖的罗刹女便从来路逃走了。

3.69.19

तस्यां गतायां गहनं व्रजन्तौ वनमोजसा।
आसेदतुरमित्रघ्नौ भ्रातरौ रामलक्ष्मणौ ॥ ३.६९.१९ ॥

她离去之后,两位消灭敌人的兄弟罗摩与罗什曼那奋力前行,抵达了茂密的森林。

3.69.20

लक्ष्मणस्तु महातेजाः सत्त्ववाञ्छीलवाञ्छुचिः।
अब्रवीत् प्राञ्जलिर्वाक्यं भ्रातरं दीप्ततेजसम् ॥ ३.६९.२० ॥

光辉伟大、坚定、品行端正而纯洁的罗什曼那合掌,对那光芒耀眼的兄长说了这些话。

3.69.21

स्पन्दते मे दृढं बाहुरुद्विग्नमिव मे मनः।
प्रायशश्चाप्यनिष्टानि निमित्तान्युपलक्षये ॥ ३.६९.२१ ॥

我的手臂剧烈跳动,心中仿佛不安。我常常看到不祥的征兆。

3.69.22

तस्मात् सज्जीभवार्य त्वं कुरुष्व वचनं मम।
ममैव हि निमित्तानि सद्यः शंसन्ति सम्भ्रमम् ॥ ३.६९.२२ ॥

因此,尊贵的兄长,请你做好准备,听从我的话。我所见的这些征兆,立刻预示着一场骚动。

3.69.23

एष वञ्जुलको नाम पक्षी परमदारुणः।
आवयोर्विजयं युद्धे शंसन्निव विनर्दति ॥ ३.६९.२३ ॥

这只名叫伐遮罗迦的极其可怖的鸟,正在鸣叫,仿佛在宣告我们在战斗中的胜利。

3.69.24

तयोरन्वेषतोरेवं सर्वं तद् वनमोजसा।
संजज्ञे विपुलः शब्दः प्रभञ्जन्निव तद् वनम् ॥ ३.६९.२४ ॥

两人这样寻找时,整片森林中骤然响起一阵巨大的声音,仿佛要将这森林撕裂。

3.69.25

संवेष्टितमिवात्यर्थं गहनं मातरिश्वना।
वनस्य तस्य शब्दोऽभूद् वनमापूरयन्निव ॥ ३.६९.२५ ॥

那片茂密的森林仿佛被风完全包围;林中响起一阵声音,仿佛充满了整个森林。

3.69.26

तं शब्दं कांक्षमाणस्तु रामः खड्गी सहानुजः।
ददर्श सुमहाकायं राक्षसं विपुलोरसम् ॥ ३.६९.२६ ॥

罗摩持剑,与其弟一同寻找那声音,看到一个身形极其庞大、胸膛宽阔的罗刹。

3.69.27

आसेदतुश्च तद्रक्षस्तावुभौ प्रमुखे स्थितम्।
विवृद्धमशिरोग्रीवं कबन्धमुदरेमुखम् ॥ ३.६९.२७ ॥

两人走近那站在面前的罗刹:头颈已长大、口在腹中的羯班陀。

3.69.28

रोमभिर्निशितैस्तीक्ष्णैर्महागिरिमिवोच्छ्रितम्।
नीलमेघनिभं रौद्रं मेघस्तनितनिःस्वनम् ॥ ३.६९.२८ ॥

他以锐利尖细的毛发,如巨大高耸的山峰一般矗立;如蓝色乌云,可怖,发出如雷鸣般的声音。

3.69.29

अग्निज्वालानिकाशेन ललाटस्थेन दीप्यता।
महापक्षेण पिङ्गेन विपुलेनायतेन च ॥ ३.६९.२९ ॥

如火焰般,位于额上,闪耀,带着一只巨大的棕黄色、宽阔而修长的翅膀。

3.69.30

एकेनोरसि घोरेण नयनेन सुदर्शिना।
महादंष्ट्रोपपन्नं तं लेलिहानं महामुखम् ॥ ३.६९.३० ॥

胸前只有一只可怖而锐利的眼睛;长着大獠牙,舔着嘴唇,口大如渊。

3.69.31

भक्षयन्तं महाघोरानृक्षसिंहमृगद्विजान्।
घोरौ भुजौ विकुर्वाणमुभौ योजनमायतौ ॥ ३.६९.३१ ॥

他吞食着可怕的熊、狮子、鹿和鸟,伸展着他那两条恐怖的手臂,each长达一由旬。

3.69.32

कराभ्यां विविधान् गृह्य ऋक्षान् पक्षिगणान् मृगान्।
आकर्षन्तं विकर्षन्तमनेकान् मृगयूथपान् ॥ ३.६९.३२ ॥

他用双手抓住各种熊、群鸟和鹿,拖拽撕扯,还拖拽许多鹿群的首领。

3.69.33

स्थितमावृत्य पन्थानं तयोर्भ्रात्रोः प्रपन्नयोः।
अथ तं समतिक्रम्य क्रोशमात्रं ददर्शतुः ॥ ३.६९.३३ ॥

他站着挡住道路;两兄弟走近时,越过他,在一克罗舍之外看见了他。

3.69.34

महान्तं दारुणं भीमं कबन्धं भुजसंवृतम्।
कबन्धमिव संस्थानादतिघोरप्रदर्शनम् ॥ ३.६९.३४ ॥

他是一个巨大、可怖、骇人的迦般陀,被手臂环绕;形貌如同迦般陀,显得极其恐怖。

3.69.35

स महाबाहुरत्यर्थं प्रसार्य विपुलौ भुजौ।
जग्राह सहितावेव राघवौ पीडयन् बलात् ॥ ३.६९.३५ ॥

那位大臂者将他巨大的双臂伸展到极致,同时抓住了两位罗伽后裔,用力挤压他们。

3.69.36

खड्गिनौ दृढधन्वानौ तिग्मतेजौ महाभुजौ।
भ्रातरौ विवशं प्राप्तौ कृष्यमाणौ महाबलौ ॥ ३.६९.३६ ॥

这两位手持宝剑、弓弦坚韧、光辉炽烈、双臂有力、力量强大的兄弟,无力地被拖拽着。

3.69.37

तत्र धैर्याच्च शूरस्तु राघवो नैव विव्यथे।
बाल्यादनाश्रयाच्चैव लक्ष्मणस्त्वभिविव्यथे ॥ ३.६९.३७ ॥

在那里,英勇的罗伽瓦(罗摩)因坚定而毫不慌乱;而罗什曼那因年幼且无所依靠,极为惊扰。

3.69.38

उवाच च विषण्णः सन् राघवं राघवानुजः।
पश्य मां विवशं वीर राक्षसस्य वशंगतम् ॥ ३.६९.३८ ॥

悲伤的罗伽瓦之弟(罗什曼那)对罗伽瓦(罗摩)说:“英雄啊,看我,无助地落入了罗刹的掌控。”

3.69.39

मयैकेन तु निर्युक्तः परिमुच्यस्व राघव।
मां हि भूतबलिं दत्त्वा पलायस्व यथासुखम् ॥ ३.६९.३९ ॥

我一人已被选定为祭品;罗伽瓦啊,你自己脱身吧。把我作为“众生祭”献出之后,你便可安然逃走。

3.69.40

अधिगन्तासि वैदेहीमचिरेणेति मे मतिः।
प्रतिलभ्य च काकुत्स्थ पितृपैतामहीं महीम् ॥ ३.६९.४० ॥

我以为你很快就会得到毗提诃(悉多);而且,啊,迦古特斯塔,你将重新夺回祖先的土地。

3.69.41

तत्र मां राम राज्यस्थः स्मर्तुमर्हसि सर्वदा।
लक्ष्मणेनैवमुक्तस्तु रामः सौमित्रिमब्रवीत् ॥ ३.६९.४१ ॥

啊,罗摩,你在王国中安坐之后,应当时时记念我。罗什曼那如此说后,罗摩便对苏弥特利(罗什曼那)说道。

3.69.42

मा स्म त्रासं वृथा वीर नहि त्वादृग् विषीदति।
एतस्मिन्नन्तरे क्रूरो भ्रातरौ रामलक्ष्मणौ ॥ ३.६९.४२ ॥

英雄啊,不要无端恐惧;像你这样的人不会如此沮丧。就在此时,那残暴的罗刹把罗摩与罗什曼那两兄弟……

3.69.43

तावुवाच महाबाहुः कबन्धो दानवोत्तमः।
कौ युवां वृषभस्कन्धौ महाखड्गधनुर्धरौ ॥ ३.६९.४३ ॥

大臂的罗刹王中最杰出的罗波陀对那两人说:“你们二人是谁?肩如公牛,手持大剑与弓?”

3.69.44

घोरं देशमिमं प्राप्तौ दैवेन मम चाक्षुषौ।
वदतं कार्यमिह वां किमर्थं चागतौ युवाम् ॥ ३.६९.४४ ॥

“你们因命运来到这可怕之地,落入我的眼中。说吧,你们在此有何事,为何而来?”

3.69.45

इमं देशमनुप्राप्तौ क्षुधार्तस्येह तिष्ठतः।
सबाणचापखड्गौ च तीक्ष्णशृङ्गाविवर्षभौ ॥ ३.६९.४५ ॥

“你们来到这里,我因饥饿而痛苦地站在此地。你们带着箭、弓与剑,如同两头尖角的公牛。”

3.69.46

मां तूर्णमनुसम्प्राप्तौ दुर्लभं जीवितं हि वाम्।
तस्य तद् वचनं श्रुत्वा कबन्धस्य दुरात्मनः ॥ ३.६९.४६ ॥

“你们很快来到我这里;你们的性命实在难以保全。”听到那恶心的罗波陀的这些话——

3.69.47

उवाच लक्ष्मणं रामो मुखेन परिशुष्यता।
कृच्छ्रात् कृच्छ्रतरं प्राप्य दारुणं सत्यविक्रम ॥ ३.६९.४७ ॥

罗摩干涸着嘴唇对罗什曼那说:“真勇者啊,我们陷入比困苦更甚的可怕灾难之中——

3.69.48

व्यसनं जीवितान्ताय प्राप्तमप्राप्य तां प्रियाम्।
कालस्य सुमहद् वीर्यं सर्वभूतेषु लक्ष्मण ॥ ३.६९.४८ ॥

“我们陷入了致命的灾难,尚未得到那位心爱之人。罗什曼那啊,时间对一切众生的力量是多么巨大!”

3.69.49

त्वां च मां च नरव्याघ्र व्यसनैः पश्य मोहितौ।
नहि भारोऽस्ति दैवस्य सर्वभूतेषु लक्ष्मण ॥ ३.६९.४९ ॥

啊,人中之虎罗什曼那!看啊,你我都被灾难迷惑了。命运对一切众生并无负担。

3.69.50

शूराश्च बलवन्तश्च कृतास्त्राश्च रणाजिरे।
कालाभिपन्नाः सीदन्ति यथा वालुकसेतवः ॥ ३.६९.५० ॥

英雄、强者以及在战场上精通武艺的人,一旦被时间所擒,便如沙筑的堤坝一般崩塌。

3.69.51

महायशा दाशरथिः प्रतापवान्।
अवेक्ष्य सौमित्रिमुदग्रविक्रमः
स्थिरां तदा स्वां मतिमात्मनाकरोत् ॥ ३.६९.५१ ॥

伟大名声的达舍罗陀之子、光辉的罗摩,望着勇猛过人的罗什曼那,此时便自己坚定了自己的心志。