Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 3.71

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.71.1

पुरा राम महाबाहो महाबलपराक्रमम्।
रूपमासीन्ममाचिन्त्यं त्रिषु लोकेषु विश्रुतम् ॥ ३.७१.१ ॥

啊,大臂的罗摩!往昔我的身形,具有巨大的力量与威勇,不可思议,并且在三界之中闻名。

3.71.2

यथा सूर्यस्य सोमस्य शक्रस्य च यथा वपुः।
सोऽहं रूपमिदं कृत्वा लोकवित्रासनं महत् ॥ ३.७१.२ ॥

我的身形如同太阳、月亮与因陀罗之身;而我化为这巨大的形貌,令世界惊恐。

3.71.3

ऋषीन् वनगतान् राम त्रासयामि ततस्ततः।
ततः स्थूलशिरा नाम महर्षिः कोपितो मया ॥ ३.७१.३ ॥

啊,罗摩!我时常惊吓那些进入森林的仙人。于是名为斯图拉希罗的大仙对我愤怒了。

3.71.4

स चिन्वन् विविधं वन्यं रूपेणानेन धर्षितः।
तेनाहमुक्तः प्रेक्ष्यैवं घोरशापाभिधायिना ॥ ३.७१.४ ॥

他正采集各种林中果实,被我的这副形貌所扰。他看见我,便以那宣说可怕诅咒者的口吻这样说道。

3.71.5

एतदेवं नृशंसं ते रूपमस्तु विगर्हितम्।
स मया याचितः क्रुद्धः शापस्यान्तो भवेदिति ॥ ३.७१.५ ॥

愿你这残酷可鄙的形貌如此存在。我向那愤怒的他恳求,问诅咒何时才会终止。

3.71.6

अभिशापकृतस्येति तेनेदं भाषितं वचः।
यदा छित्त्वा भुजौ रामस्त्वां दहेद् विजने वने ॥ ३.७१.६ ॥

他对我这受咒之人说了这些话:“当罗摩斩断你的双臂,在荒僻的森林中焚烧你时,你的诅咒便会终结。”

3.71.7

तदा त्वं प्राप्स्यसे रूपं स्वमेव विपुलं शुभम्।
श्रिया विराजितं पुत्रं दनोस्त्वं विद्धि लक्ष्मण ॥ ३.७१.७ ॥

那时你将恢复自己宏大而吉祥的形体,光辉照耀。应知,罗什曼那,你是檀努之子。

3.71.8

इन्द्रकोपादिदं रूपं प्राप्तमेवं रणाजिरे।
अहं हि तपसोग्रेण पितामहमतोषयम् ॥ ३.७१.८ ॥

因因陀罗之怒,此形体在战场上如此降临于我。因我以严苛苦行,使祖父欢喜。

3.71.9

दीर्घमायुः स मे प्रादात् ततो मां विभ्रमोऽस्पृशत् ।
दीर्घमायुर्मया प्राप्तं किं मां शक्रः करिष्यति ॥ ३.७१.९ ॥

他赐我长寿,随后迷惑攫住了我。我已得长寿,因陀罗能对我怎样?

3.71.10

इत्येवं बुद्धिमास्थाय रणे शक्रमधर्षयम्।
तस्य बाहुप्रमुक्तेन वज्रेण शतपर्वणा ॥ ३.७१.१० ॥

我如此决意,在战场上攻击因陀罗;以他手臂掷出的百节金刚杵——

3.71.11

सक्थिनी च शिरश्चैव शरीरे सम्प्रवेशितम्।
स मया याच्यमानः सन् नानयद् यमसादनम् ॥ ३.७१.११ ॥

它把我的两股与头颅都压入身体;尽管我恳求,他仍未将我带往阎摩之所。

3.71.12

पितामहवचः सत्यं तदस्त्विति ममाब्रवीत्।
अनाहारः कथं शक्तो भग्नसक्थिशिरोमुखः ॥ ३.७१.१२ ॥

他对我说:“愿祖父之言为真,就如此吧。”我无食,双股、头颅与面孔俱碎,又怎能有力量呢?

3.71.13

वज्रेणाभिहतः कालं सुदीर्घमपि जीवितुम्।
स एवमुक्तः शक्रो मे बाहू योजनमायतौ ॥ ३.७१.१३ ॥

我被金刚杵击中,却能长久活着。因African此被如此请求时,因陀罗将我的双臂伸展开来,长达一由旬。

3.71.14

तदा चास्यं च मे कुक्षौ तीक्ष्णदंष्ट्रमकल्पयत् ।
सोऽहं भुजाभ्यां दीर्घाभ्यां संक्षिप्यास्मिन् वनेचरान् ॥ ३.७१.१४ ॥

那时,他在我的腹中造出一张利齿的嘴。我便用那双长臂,把这片林中的生灵全部卷入。

3.71.15

सिंहद्वीपिमृगव्याघ्रान् भक्षयामि समन्ततः।
स तु मामब्रवीदिन्द्रो यदा रामः सलक्ष्मणः ॥ ३.७१.१५ ॥

狮子、豹、鹿与虎,我从四面八方吞食。然而因陀罗告诉我,当罗摩与罗什曼那一同到来时——

3.71.16

छेत्स्यते समरे बाहू तदा स्वर्गं गमिष्यसि।
अनेन वपुषा तात वनेऽस्मिन् राजसत्तम ॥ ३.७१.१६ ॥

他将在战场上斩断你的双臂;那时你便升往天界。亲爱的,王中最优秀者,在这森林中,以这同一身躯——

3.71.17

यद् यत् पश्यामि सर्वस्य ग्रहणं साधु रोचये।
अवश्यं ग्रहणं रामो मन्येऽहं समुपैष्यति ॥ ३.७१.१७ ॥

凡我所见众人所取之物,我都认为是好的。我想罗摩必定会走近来捉住我。

3.71.18

इमां बुद्धिं पुरस्कृत्य देहन्यासकृतश्रमः।
स त्वं रामोऽसि भद्रं ते नाहमन्येन राघव ॥ ३.७१.१८ ॥

我心怀此念,一心想舍弃此身——你便是那罗摩。愿你吉祥。罗怙婆啊,我不是会被他人所害的人。

3.71.19

शक्यो हन्तुं यथा तत्त्वमेवमुक्तं महर्षिणा।
अहं हि मतिसाचिव्यं करिष्यामि नरर्षभ ॥ ३.७१.१९ ॥

正如大仙所言,此人确可被杀。我将在谋略上为你效力,人中之雄啊。

3.71.20

मित्रं चैवोपदेक्ष्यामि युवाभ्यां संस्कृतोऽग्निना।
एवमुक्तस्तु धर्मात्मा दनुना तेन राघवः ॥ ३.७१.२० ॥

我也将为你们二人指定盟友,你们二人已受火的祝福。他如此说后,正直的罗怙之裔答道。

3.71.21

इदं जगाद वचनं लक्ष्मणस्य च पश्यतः।
रावणेन हृता भार्या सीता मम यशस्विनी ॥ ३.७१.२१ ॥

在罗什曼那注视之下,他说道:“我那光荣的妻子悉多已被罗波那劫走。”

3.71.22

निष्क्रान्तस्य जनस्थानात् सह भ्रात्रा यथासुखम्।
नाममात्रं तु जानामि न रूपं तस्य रक्षसः ॥ ३.७१.२२ ॥

那人与其兄一同从人居处安然离去,我只知其名,不知那罗刹的容貌。

3.71.23

निवासं वा प्रभावं वा वयं तस्य न विद्महे।
शोकार्तानामनाथानामेवं विपरिधावताम् ॥ ३.७१.२३ ॥

我们不知他的居所,也不知他的威力;我们因悲伤所困,无依无靠,如此四处奔走。

3.71.24

कारुण्यं सदृशं कर्तुमुपकारेण वर्तताम्।
काष्ठान्यानीय भग्नानि काले शुष्काणि कुञ्जरैः ॥ ३.७१.२४ ॥

愿他以相称的慈悲施以恩惠,正如象群适时折断、搬来的干柴(我们彼此相助)。

3.71.25

धक्ष्यामस्त्वां वयं वीर श्वभ्रे महति कल्पिते।
स त्वं सीतां समाचक्ष्व येन वा यत्र वा हृता ॥ ३.७१.२५ ॥

勇士啊,我们要把你投入已经挖好的大坑中焚烧。所以请告诉我们,悉多是被谁、带到了哪里。

3.71.26

कुरु कल्याणमत्यर्थं यदि जानासि तत्त्वतः।
एवमुक्तस्तु रामेण वाक्यं दनुरनुत्तमम् ॥ ३.७१.२६ ॥

若你确实知道,就做最大的善事吧。罗摩如此说后,檀那婆说出了这番至上的话。

3.71.27

प्रोवाच कुशलो वक्ता वक्तारमपि राघवम्।
दिव्यमस्ति न मे ज्ञानं नाभिजानामि मैथिलीम् ॥ ३.७१.२७ ॥

那位擅长言辞的檀那婆对说话的罗ghava说:“我有神圣的知识,但我并不认识弥提罗之女。”

3.71.28

यस्तां वक्ष्यति तं वक्ष्ये दग्धः स्वं रूपमास्थितः।
योऽभिजानाति तद्रक्षस्तद् वक्ष्ये राम तत्परम् ॥ ३.७१.२८ ॥

谁能说出她的下落,我便告诉谁;我虽已被焚烧,仍以本来面目出现。罗摩啊,对于了解她的罗刹,我将说出那至高之事。

3.71.29

अदग्धस्य हि विज्ञातुं शक्तिरस्ति न मे प्रभो।
राक्षसं तु महावीर्यं सीता येन हृता तव ॥ ३.७१.२९ ॥

主啊,我确实没有能力认识一个未被焚烧的人。但是劫走你悉多的那位大力罗刹,我是认识的。

3.71.30

विज्ञानं हि महद् भ्रष्टं शापदोषेण राघव।
स्वकृतेन मया प्राप्तं रूपं लोकविगर्हितम् ॥ ३.७१.३० ॥

罗ghava啊,因咒诅之过,我的大智慧已经丧失。因自己的所作,我得到了这为世人所鄙视的形相。

3.71.31

किं तु यावन्न यात्यस्तं सविता श्रान्तवाहनः।
तावन्मामवटे क्षिप्त्वा दह राम यथाविधि ॥ ३.७१.३१ ॥

在疲惫的马车之日落下之前,罗摩啊,请把我投入这个坑中,依礼将我焚化。

3.71.32

दग्धस्त्वयाहमवटे न्यायेन रघुनन्दन।
वक्ष्यामि तं महावीर यस्तं वेत्स्यति राक्षसम् ॥ ३.७१.३२ ॥

罗怙之喜啊,你依法在此坑中焚化我之后,伟大的英雄啊,我将告诉那将会认识你的罗刹。

3.71.33

तेन सख्यं च कर्तव्यं न्याय्यवृत्तेन राघव।
कल्पयिष्यति ते वीर साहाय्यं लघुविक्रम ॥ ३.७१.३३ ॥

罗怙之子啊,你应与那行事正直的人结为友好。英雄啊,勇武迅捷的人,他会为你安排援助。

3.71.34

नहि तस्यास्त्यविज्ञातं त्रिषु लोकेषु राघव।
सर्वान् परिवृतो लोकान् पुरा वै कारणान्तरे ॥ ३.७१.३४ ॥

罗怙之子啊,三界之中没有他不知道的事。往昔因另一缘由,他曾遍绕并笼罩一切世界。