ヴァールミーキのラーマーヤナ · サルガ 3.74
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.74.1
तौ कबन्धेन तं मार्गं पम्पाया दर्शितं वने।
आतस्थतुर्दिशं गृह्य प्रतीचीं नृवरात्मजौ ॥ ३.७४.१ ॥
カバンダが森の中でパンパーへの道を示したので、人中の最良者の二人の息子は西の方角へと旅立った。
3.74.2
तौ शैलेष्वाचितानेकान् क्षौद्रपुष्पफलद्रुमान्।
वीक्षन्तौ जग्मतुर्द्रष्टुं सुग्रीवं रामलक्ष्मणौ ॥ ३.७४.२ ॥
山々に生い茂る蜜のような花と実をつけた多くの木々を眺めながら、ラーマとラクシュマナはスグリーヴァに会いに進んだ。
3.74.3
कृत्वा तु शैलपृष्ठे तु तौ वासं रघुनन्दनौ।
पम्पायाः पश्चिमं तीरं राघवावुपतस्थतुः ॥ ३.७४.३ ॥
山の頂に住まいを定めた後、ラグ族の喜びである二人は、パンパーの西岸に到着した。
3.74.4
तौ पुष्करिण्याः पम्पायास्तीरमासाद्य पश्चिमम्।
अपश्यतां ततस्तत्र शबर्या रम्यमाश्रमम् ॥ ३.७४.४ ॥
パンパー湖の西岸に着いた二人は、そこでシャバリーの麗しい庵を見た。
3.74.5
तौ तमाश्रममासाद्य द्रुमैर्बहुभिरावृतम्।
सुरम्यमभिवीक्षन्तौ शबरीमभ्युपेयतुः ॥ ३.७४.५ ॥
多くの木々に囲まれたその最も麗しい庵に着き、それを眺めながら、二人はシャバリーのもとへ近づいた。
3.74.6
तौ दृष्ट्वा तु तदा सिद्धा समुत्थाय कृताञ्जलिः।
पादौ जग्राह रामस्य लक्ष्मणस्य च धीमतः ॥ ३.७४.६ ॥
二人を見るや、成就者のシャバリーは立ち上がり、合掌して、賢明なラーマとラクシュマナの足を取った。
3.74.7
पाद्यमाचमनीयं च सर्वं प्रादाद् यथाविधि।
तामुवाच ततो रामः श्रमणीं धर्मसंस्थिताम् ॥ ३.७४.७ ॥
彼女は規定どおり足を洗う水と口をすすぐ水をすべて捧げた。するとラーマは法に確立したその女苦行者に語りかけた。
3.74.8
कच्चित्ते निर्जिता विघ्नाः कच्चित्ते वर्धते तपः।
कच्चित्ते नियतः कोप आहारश्च तपोधने ॥ ३.७४.८ ॥
苦行の女よ、障害は打ち勝ったか。苦行は増しているか。怒りと食は抑えられているか。
3.74.9
कच्चित्ते नियमाः प्राप्ताः कच्चित्ते मनसः सुखम्।
कच्चित्ते गुरुशुश्रूषा सफला चारुभाषिणि ॥ ३.७४.९ ॥
誓戒は成就したか。心は安らぎを得たか。優しく語る女よ、師への奉仕は実を結んだか。
3.74.10
रामेण तापसी पृष्टा सा सिद्धा सिद्धसम्मता।
शशंस शबरी वृद्धा रामाय प्रत्यवस्थिता ॥ ३.७४.१० ॥
ラーマに問われて、成就者たちに敬われる成就の女苦行者、老いたシャバリーは、彼の前に立って語った。
3.74.11
अद्य प्राप्ता तपःसिद्धिस्तव संदर्शनान्मया।
अद्य मे सफलं जन्म गुरवश्च सुपूजिताः ॥ ३.७४.११ ॥
今日、あなたを見たことで、私は苦行の成果を得ました。今日、私の生は実を結び、師たちも立派に敬われました。
3.74.12
अद्य मे सफलं तप्तं स्वर्गश्चैव भविष्यति।
त्वयि देववरे राम पूजिते पुरुषर्षभ ॥ ३.७४.१२ ॥
今日、私の苦行は実を結び、天界もまた私のものとなるでしょう。神々の中で最も優れた、人の中で最も優れたラーマよ、あなたを礼拝したのですから。
3.74.13
तवाहं चक्षुषा सौम्य पूता सौम्येन मानद।
गमिष्याम्यक्षयांल्लोकांस्त्वत्प्रसादादरिंदम ॥ ३.७४.१३ ॥
穏やかな方よ、誉れを与える方よ、あなたのまなざしによって私は清められました。敵を制する方よ、あなたの恩寵によって私は不滅の世界へ行くでしょう。
3.74.14
चित्रकूटं त्वयि प्राप्ते विमानैरतुलप्रभैः।
इतस्ते दिवमारूढा यानहं पर्यचारिषम् ॥ ३.७४.१४ ॥
あなたがチトラクータに来たとき、私が仕えていた人々は、比類なき輝きの天界の乗り物に乗り、ここから天へ昇っていきました。
3.74.15
तैश्चाहमुक्ता धर्मज्ञैर्महाभागैर्महर्षिभिः।
आगमिष्यति ते रामः सुपुण्यमिममाश्रमम् ॥ ३.७४.१५ ॥
法を知り、大いなる福徳を持つ大仙人たちは私に言いました。「ラーマがこの最も聖なる庵に来るであろう」と。
3.74.16
स ते प्रतिग्रहीतव्यः सौमित्रिसहितोऽतिथिः।
तं च दृष्ट्वा वरांल्लोकानक्षयांस्त्वं गमिष्यसि ॥ ३.७४.१६ ॥
サウミトリと共に来るその客人を、あなたは迎え入れるべきです。彼を見てから、あなたは優れた不滅の世界へ行くでしょう。
3.74.17
एवमुक्ता महाभागैस्तदाहं पुरुषर्षभ।
मया तु संचितं वन्यं विविधं पुरुषर्षभ ॥ ३.७४.१७ ॥
大いなる福徳の聖者たちにこう告げられて、人中の雄牛よ、私は森に生じた様々なものを集めました。人中の雄牛よ。
3.74.18
तवार्थे पुरुषव्याघ्र पम्पायास्तीरसम्भवम्।
एवमुक्तः स धर्मात्मा शबर्या शबरीमिदम् ॥ ३.७४.१८ ॥
人中の虎よ、あなたのために私はパンパー河岸に生じたものを集めました。シャバリーにこう言われて、法の心を持つ彼はシャバリーにこの言葉を語りました。
3.74.19
राघवः प्राह विज्ञाने तां नित्यमबहिष्कृताम्।
दनोः सकाशात् तत्त्वेन प्रभावं ते महात्मनाम् ॥ ३.७४.१९ ॥
ラーガヴァは、決して退けられることのなかった、知恵ある彼女に言った。ダヌの系譜から、あの偉大な魂の真の力を聞いている、と。
3.74.20
श्रुतं प्रत्यक्षमिच्छामि संद्रष्टुं यदि मन्यसे।
एतत्तु वचनं श्रुत्वा रामवक्त्रविनिःसृतम् ॥ ३.७४.२० ॥
もしふさわしいと思われるなら、聞いたことを直接見たいと思う。ラーマの口から出たこの言葉を聞いて——
3.74.21
शबरी दर्शयामास तावुभौ तद्वनं महत्।
पश्य मेघघनप्रख्यं मृगपक्षिसमाकुलम् ॥ ३.७४.२१ ॥
シャバリーは二人にその広大な森を示した。「ご覧ください、濃い雲の塊のようで、鹿や鳥に満ちた森を。」
3.74.22
मतङ्गवनमित्येव विश्रुतं रघुनन्दन।
इह ते भावितात्मानो गुरवो मे महाद्युते।
जुहवांचक्रिरे नीडं मन्त्रवन्मन्त्रपूजितम् ॥ ३.७४.२२ ॥
「ラグ族の喜びよ、これは名高いマタンガの森です。輝ける方よ、ここで私の心の清らかな師たちが、真言に従って供物を捧げました。真言によって祀られた祭壇の上で……」
3.74.23
इयं प्रत्यक्स्थली वेदी यत्र ते मे सुसत्कृताः।
पुष्पोपहारं कुर्वन्ति श्रमादुद्वेपिभिः करैः ॥ ३.७४.२३ ॥
これは西向きの祭壇です。私が敬う師たちが、疲れで震える手で花を供えるところです。
3.74.24
तेषां तपःप्रभावेण पश्याद्यापि रघूत्तम।
द्योतयन्ती दिशः सर्वाः श्रिया वेद्यतुलप्रभा ॥ ३.७४.२४ ॥
ラグ族の最も優れた方よ、彼らの苦行の力によって、今もなお御覧ください。比類なき輝きを持つあの祭壇が、その光で全ての方角を照らしています。
3.74.25
अशक्नुवद्भिस्तैर्गन्तुमुपवासश्रमालसैः।
चिन्तितेनागतान् पश्य समेतान् सप्त सागरान् ॥ ३.७४.२५ ॥
断食と疲労で衰え歩けなかった彼らのもとへ、ただ念じただけで七つの海が来て集まった。見よ。
3.74.26
कृताभिषेकैस्तैर्न्यस्ता वल्कलाः पादपेष्विह।
अद्यापि न विशुष्यन्ति प्रदेशे रघुनन्दन ॥ ३.७४.२६ ॥
沐浴を終えた彼らは、ここの木々に樹皮の衣を掛けた。ラグの喜びよ、今も彼らの樹皮衣はこの地で乾いていない。
3.74.27
देवकार्याणि कुर्वद्भिर्यानीमानि कृतानि वै।
पुष्पैः कुवलयैः सार्धं म्लानत्वं न तु यान्ति वै ॥ ३.७४.२७ ॥
神々への祭儀を行う彼らが捧げたこれらの供物、花と青蓮華は、確かに萎れていない。
3.74.28
कृत्स्नं वनमिदं दृष्टं श्रोतव्यं च श्रुतं त्वया।
तद् इच्छाम्य् अभ्यनुज्ञाता त्यक्ष्याम्य् एतत् कलेवरम् ॥ ३.७४.२८ ॥
この森全体をあなたは見たし、聞くべきことも聞いた。ですから、お許しをいただいて、この身体を捨てたいと思います。
3.74.29
तेषामिच्छाम्यहं गन्तुं समीपं भावितात्मनाम्।
मुनीनामाश्रमो येषामहं च परिचारिणी ॥ ३.७४.२९ ॥
清らかな心の聖者たちのもとへ行きたい。その庵では私も侍女なのです。
3.74.30
धर्मिष्ठं तु वचः श्रुत्वा राघवः सहलक्ष्मणः।
प्रहर्षमतुलं लेभे आश्चर्यमिति चाब्रवीत् ॥ ३.७४.३० ॥
その正しい言葉を聞いて、ラーガヴァはラクシュマナとともに比類ない喜びを得て、「驚くべきことだ」と言った。
3.74.31
तामुवाच ततो रामः शबरीं संशितव्रताम्।
अर्चितोऽहं त्वया भद्रे गच्छ कामं यथासुखम् ॥ ३.७४.३१ ॥
そこでラーマは、誓いの固い女シャバリーに言った。「善き人よ、あなたは私を敬ってくれた。now望むとおり、安らかに行きなさい。」
3.74.32
इत्येवमुक्ता जटिला चीरकृष्णाजिनाम्बरा।
अनुज्ञाता तु रामेण हुत्वाऽऽत्मानं हुताशने ॥ ३.७४.३२ ॥
ラーマにそう言われ、樹皮と黒鹿の皮をまとい髪を束ねたシャバリーは許しを得て、自らを聖なる火への供物として捧げた。
3.74.33
ज्वलत्पावकसंकाशा स्वर्गमेव जगाम ह।
दिव्याभरणसंयुक्ता दिव्यमाल्यानुलेपना ॥ ३.७४.३३ ॥
燃え盛る火のように輝きながら、彼女はまっすぐに天へ向かった。神々しい装身具をまとい、神聖な花環と香油で飾られて。
3.74.34
दिव्याम्बरधरा तत्र बभूव प्रियदर्शना।
विराजयन्ती तं देशं विद्युत्सौदामनी यथा ॥ ३.७४.३४ ॥
そこで彼女は天衣をまとい、見目麗しくなった。稲妻のようにその場所を照らしながら。
3.74.35
यत्र ते सुकृतात्मानो विहरन्ति महर्षयः।
तत् पुण्यं शबरी स्थानं जगामात्मसमाधिना ॥ ३.७४.३५ ॥
徳高き大仙人たちが住むその聖地へ、シャバリーは自らの三昧によって赴いた。