蚁垤《罗摩衍那》 · 篇 3.9
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.9.1
सुतीक्ष्णेनाभ्यनुज्ञातं प्रस्थितं रघुनन्दनम्।
हृद्यया स्निग्धया वाचा भर्तारमिदमब्रवीत् ॥ ३.९.१ ॥
悉多获得苏提克希那的允许后启程,她以悦耳而温情的话语对她的夫君、罗怙子孙的喜悦者说道:
3.9.2
अधर्मं तु सुसूक्ष्मेण विधिना प्राप्यते महान्।
निवृत्तेन च शक्योऽयं व्यसनात् कामजादिह ॥ ३.९.२ ॥
非法以极细微的途径获得并变得巨大;但已回头者可以在此从由欲望所生的灾祸中脱离出来。
3.9.3
त्रीण्येव व्यसनान्यत्र कामजानि भवन्त्युत।
मिथ्यावाक्यं तु परमं तस्माद् गुरुतरावुभौ ॥ ३.९.३ ॥
在此,由欲望所生的恶行实为三种;但虚假之言最为严重,因此那两者更为沉重。
3.9.4
परदाराभिगमनं विना वैरं च रौद्रता।
मिथ्यावाक्यं न ते भूतं न भविष्यति राघव ॥ ३.९.४ ॥
除了亲近他人之妻、怀有敌意与残酷之外——啊,罗怙子孙,你从未说过虚假之言,也永不会说。
3.9.5
कुतोऽभिलषणं स्त्रीणां परेषां धर्मनाशनम्।
तव नास्ति मनुष्येन्द्र न चाभूत् ते कदाचन ॥ ३.९.५ ॥
啊,人主,你怎会有那种毁坏他人法度的、妇人的贪求?它不在你身上,也从来不曾在你身上。
3.9.6
मनस्यपि तथा राम न चैतद् विद्यते क्वचित्।
स्वदारनिरतश्चैव नित्यमेव नृपात्मज ॥ ३.९.६ ॥
啊,罗摩,即使在你心中,此种念头也从不存在;你始终专一于自己的妻子,啊,王子。
3.9.7
धर्मिष्ठः सत्यसंधश्च पितुर्निर्देशकारकः।
त्वयि धर्मश्च सत्यं च त्वयि सर्वं प्रतिष्ठितम् ॥ ३.९.७ ॥
你坚守法义,诚信不渝,遵行父亲的命令。法与真理存在于你之中;一切都建立于你之中。
3.9.8
तच्च सर्वं महाबाहो शक्यं वोढुं जितेन्द्रियैः।
तव वश्येन्द्रियत्वं च जानामि शुभदर्शन ॥ ३.९.८ ॥
啊,大臂者,这一切唯有克制诸根者方能承担。我知道你已制服自己的感官,啊,吉相之人。
3.9.9
तृतीयं यदिदं रौद्रं परप्राणाभिहिंसनम्।
निर्वैरं क्रियते मोहात् तच्च ते समुपस्थितम् ॥ ३.९.९ ॥
这第三件事,极为可怖:夺取他人的性命。那些无仇恨、因迷惑而做出的事,如今已摆在你面前。
3.9.10
प्रतिज्ञातस्त्वया वीर दण्डकारण्यवासिनाम्।
ऋषीणां रक्षणार्थाय वधः संयति रक्षसाम् ॥ ३.९.१० ॥
啊,英雄,你已发誓,为保护居住在檀特迦森林中的仙人,在战斗中诛杀罗刹。
3.9.11
एतन्निमित्तं च वनं दण्डका इति विश्रुतम्।
प्रस्थितस्त्वं सह भ्रात्रा धृतबाणशरासनः ॥ ३.९.११ ॥
正因此故,你偕同兄长,手持弓箭,启程前往那座名为檀特迦的森林。
3.9.12
ततस्त्वां प्रस्थितं दृष्ट्वा मम चिन्ताकुलं मनः।
त्वद्धृत्तं चिन्तयन्त्या वै भवेन्निःश्रेयसं हितम् ॥ ३.९.१२ ॥
因此,见你启程,我的心被忧虑扰乱;唯有思念你的德行,方才真正是我至高的福祉与利益。
3.9.13
नहि मे रोचते वीर गमनं दण्डकान् प्रति।
कारणं तत्र वक्ष्यामि वदन्त्याः श्रूयतां मम ॥ ३.९.१३ ॥
英雄啊,我不愿前往檀特迦森林。我将说明原因,请听我说。
3.9.14
त्वं हि बाणधनुष्पाणिर्भ्रात्रा सह वनं गतः।
दृष्ट्वा वनचरान् सर्वान् कच्चित् कुर्याः शरव्ययम् ॥ ३.९.१४ ॥
你手持弓箭,与弟弟一同进入森林。见到林中所有的居民,你会不会耗费箭矢呢?
3.9.15
क्षत्रियाणामिह धनुर्हुताशस्येन्धनानि च।
समीपतः स्थितं तेजोबलमुच्छ्रयते भृशम् ॥ ३.९.१५ ॥
对刹帝利而言,弓就像火的柴薪;近旁的威光与力量会极大地增长。
3.9.16
पुरा किल महाबाहो तपस्वी सत्यवान् शुचिः।
कस्मिंश्चिदभवत् पुण्ये वने रतमृगद्विजे ॥ ३.९.१६ ॥
往昔,啊,大臂者,有一位诚实而清净的苦行者住在某座圣林中,那里鹿与鸟儿快乐地游荡。
3.9.17
तस्यैव तपसो विघ्नं कर्तुमिन्द्रः शचीपतिः।
खड्गपाणिरथागच्छदाश्रमं भटरूपधृक् ॥ ३.९.१७ ॥
为了阻挠那位苦行者的修行,舍姬之夫因陀罗手持宝剑,化作武士的模样来到了静修处。
3.9.18
तस्मिंस्तदाश्रमपदे निहितः खड्ग उत्तमः।
स न्यासविधिना दत्तः पुण्ये तपसि तिष्ठतः ॥ ३.९.१८ ॥
那时,在静修之处放着一把上好的宝剑;依照寄存的礼仪,它已交付给那位正安住于圣洁苦行中的苦行者。
3.9.19
स तच्छस्त्रमनुप्राप्य न्यासरक्षणतत्परः।
वने तु विचरत्येव रक्षन् प्रत्ययमात्मनः ॥ ३.९.१९ ॥
他得到那件兵器后,专心守护所托之物,在林中四处游荡,守护自己的信义。
3.9.20
यत्र गच्छत्युपादातुं मूलानि च फलानि च।
न विना याति तं खड्गं न्यासरक्षणतत्परः ॥ ३.९.२० ॥
无论他去何处采集根茎与果实,从不离开那把剑,专心守护所托之物。
3.9.21
नित्यं शस्त्रं परिवहन् क्रमेण स तपोधनः।
चकार रौद्रीं स्वां बुद्धिं त्यक्त्वा तपसि निश्चयम् ॥ ३.९.२१ ॥
他每日携带武器,渐渐使自己的心变得狂暴,放弃了苦修中的决心。
3.9.22
ततः स रौद्राभिरतः प्रमत्तोऽधर्मकर्षितः।
तस्य शस्त्रस्य संवासाज्जगाम नरकं मुनिः ॥ ३.९.२२ ॥
于是他沉溺于残暴,疏忽放任,为不义所牵引;因与那武器相伴,这位圣人堕入了地狱。
3.9.23
एवमेतत् पुरावृत्तं शस्त्रसंयोगकारणम्।
अग्निसंयोगवद्धेतुः शस्त्रसंयोग उच्यते ॥ ३.९.२३ ॥
这便是古时的事迹,乃与兵器相接的缘由。正如与火相接是一种因缘,与兵器相接也被称为一种因缘。
3.9.24
स्नेहाच्च बहुमानाच्च स्मारये त्वां तु शिक्षये।
न कथंचन सा कार्या गृहीतधनुषा त्वया ॥ ३.९.२४ ॥
出于爱护与深切的敬重,我提醒并教导你:你既然手持弓箭,无论如何都不可做那件事。
3.9.25
बुद्धिर्वैरं विना हन्तुं राक्षसान् दण्डकाश्रितान्।
अपराधं विना हन्तुं लोको वीर न मंस्यते ॥ ३.९.२५ ॥
勇士啊,在无仇怨的情况下杀害居住在檀陀迦林中的罗刹,并且无罪而杀,世人是不认可的。
3.9.26
क्षत्रियाणां तु वीराणां वनेषु नियतात्मनाम्।
धनुषा कार्यमेतावदार्तानामभिरक्षणम् ॥ ३.९.२६ ॥
住在森林中、自制的英勇刹帝利,用弓所应做的,只是这一件:保护受苦之人。
3.9.27
क्व च शस्त्रं क्व च वनं क्व च क्षात्रं तपः क्व च।
व्याविद्धमिदमस्माभिर्देशधर्मस्तु पूज्यताम् ॥ ३.९.२७ ॥
武器在哪里,森林在哪里,刹帝利之责在哪里,苦行又在哪里!我们把这些搅乱了;但这片土地的习俗应当受到尊重。
3.9.28
कदर्यकलुषा बुद्धिर्जायते शस्त्रसेवनात्।
पुनर्गत्वा त्वयोध्यायां क्षत्रधर्मं चरिष्यसि ॥ ३.९.२८ ॥
从事兵器之事,心便被卑劣所污染。你回到阿逾陀之后,将再度履行刹帝利之责。
3.9.29
अक्षया तु भवेत् प्रीतिः श्वश्रूश्वशुरयोर्मम।
यदि राज्यं हि संन्यस्य भवेस्त्वं निरतो मुनिः ॥ ३.९.२९ ॥
如果你放弃王国,成为专心苦行的隐士,那么我对公婆的敬爱将永不减少。
3.9.30
धर्मादर्थः प्रभवति धर्मात् प्रभवते सुखम्।
धर्मेण लभते सर्वं धर्मसारमिदं जगत् ॥ ३.९.३० ॥
从法(达摩)生财富,从法生安乐;依靠法得到一切——这是世间法的精髓。
3.9.31
आत्मानं नियमैस्तैस्तैः कर्षयित्वा प्रयत्नतः।
प्राप्तये निपुणैर्धर्मो न सुखाल्लभते सुखम् ॥ ३.९.३१ ॥
以种种戒律、勤勉地磨练自身,有才能者方能得法;不能由安逸获得安乐。
3.9.32
नित्यं शुचिमतिः सौम्य चर धर्मं तपोवने।
सर्वं तु विदितं तुभ्यं त्रैलोक्यामपि तत्त्वतः ॥ ३.९.३२ ॥
温和的人啊,以始终纯净的心在苦行林中修行法;三界之事你都确实知晓。
3.9.33
स्त्रीचापलादेतदुपाहृतं मे
धर्मं च वक्तुं तव कः समर्थः।
विचार्य बुद्ध्या तु सहानुजेन
यद् रोचते तत् कुरु माचिरेण ॥ ३.९.३३ ॥
这是我出于女子的轻率说出的;谁有资格向你讲说法呢?与你的弟弟用智慧商量之后,就尽快做你所愿意的事吧。