Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 4.1

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

4.1.1

स तां पुष्करिणीं गत्वा पद्मोत्पलझषाकुलाम्।
रामः सौमित्रिसहितो विललापाकुलेन्द्रियः ॥ ४.१.१ ॥

罗摩与苏弥德罗同至那满是莲花、睡莲与游鱼的池塘,心神激荡,悲叹不已。

4.1.2

तत्र दृष्ट्वैव तां हर्षादिन्द्रियाणि चकम्पिरे।
स कामवशमापन्नः सौमित्रिमिदमब्रवीत् ॥ ४.१.२ ॥

他一见到她,欣喜之下身心皆为之颤动。被欲望所control的他,对苏弥德罗说了这番话。

4.1.3

सौमित्रे शोभते पम्पा वैदूर्यविमलोदका।
फुल्लपद्मोत्पलवती शोभिता विविधैर्द्रुमैः ॥ ४.१.३ ॥

苏弥德罗啊,般波湖闪耀光芒,湖水清澈如琉璃,盛开着莲花与睡莲,被各色树木装点。

4.1.4

सौमित्रे पश्य पम्पायाः काननं शुभदर्शनम्।
यत्र राजन्ति शैला वा द्रुमाः सशिखरा इव ॥ ४.१.४ ॥

苏弥德罗啊,看那般波的林野,令人赏心悦目,树木如带着山峰的群山般闪耀。

4.1.5

मां तु शोकाभिसंतप्तमाधयः पीडयन्ति वै।
भरतस्य च दुःखेन वैदेह्या हरणेन च ॥ ४.१.५ ॥

然而,我被悲伤煎熬,心中的苦痛确实折磨着我——为了婆罗多的哀伤,也为了维德赫希被掳之事。

4.1.6

शोकार्तस्यापि मे पम्पा शोभते चित्रकानना।
व्यवकीर्णा बहुविधैः पुष्पैः शीतोदका शिवा ॥ ४.१.६ ॥

即便对于我这个被悲伤所苦的人,般波也因其奇妙的林野而光彩照人,遍洒各色花朵,水清而凉,吉祥美好。

4.1.7

नलिनैरपि संछन्ना ह्यत्यर्थशुभदर्शना।
सर्पव्यालानुचरिता मृगद्विजसमाकुला ॥ ४.१.७ ॥

即使被莲花覆盖,景色极为美丽,蛇与猛兽出没其间,鹿与飞鸟满布。

4.1.8

अधिकं प्रविभात्येतन्नीलपीतं तु शाद्वलम्।
द्रुमाणां विविधैः पुष्पैः परिस्तोमैरिवार्पितम् ॥ ४.१.८ ॥

这片草地呈现出蓝黄相间的光彩,格外明亮,仿佛铺上了树木各色花朵织成的毯子。

4.1.9

पुष्पभारसमृद्धानि शिखराणि समन्ततः।
लताभिः पुष्पिताग्राभिरुपगूढानि सर्वतः ॥ ४.१.९ ॥

四周山峰满载繁花,四面被顶端开花的藤蔓紧紧缠绕。

4.1.10

सुखानिलोऽयं सौमित्रे कालः प्रचुरमन्मथः।
गन्धवान् सुरभिर्मासो जातपुष्पफलद्रुमः ॥ ४.१.१० ॥

萧弥特里啊,这是宜人的微风;此时节极能撩动情欲。这是芬芳甜美的月份,树木开花结果。

4.1.11

पश्य रूपाणि सौमित्रे वनानां पुष्पशालिनाम्।
सृजतां पुष्पवर्षाणि वर्षं तोयमुचामिव ॥ ४.१.११ ॥

萧弥特里啊,看那繁花盛开的森林之景,它们如同降雨的云层,洒下花雨。

4.1.12

प्रस्तरेषु च रम्येषु विविधाः काननद्रुमाः।
वायुवेगप्रचलिताः पुष्पैरवकिरन्ति गाम् ॥ ४.१.१२ ॥

在可爱的岩石上,各种森林树木被风力吹动,将花朵洒落在大地上。

4.1.13

पतितैः पतमानैश्च पादपस्थैश्च मारुतः।
कुसुमैः पश्य सौमित्रे क्रीडतीव समन्ततः ॥ ४.१.१३ ॥

看啊,萨乌弥德里,风仿佛在四处与落花、飘落的花以及树上的花嬉戏。

4.1.14

विक्षिपन् विविधाः शाखां नगानां कुसुमोत्कटाः।
मारुतश्चलितस्थानैः षट्पदैरनुगीयते ॥ ४.१.१४ ॥

满载花朵的风摇动着树木的各种枝条,离开原处的蜜蜂随之嗡嗡作响。

4.1.15

मत्तकोकिलसंनादैर्नर्तयन्निव पादपान्।
शैलकंदर निष्क्रान्तः प्रगीत इव चानिलः ॥ ४.१.१५ ॥

从山洞中走出的风,仿佛伴着醉意的杜鹃之声使树木起舞,又仿佛被人吟唱。

4.1.16

तेन विक्षिपतात्यर्थं पवनेन समन्ततः।
अमी संसक्तशाखाग्रा ग्रथिता इव पादपाः ॥ ४.१.१६ ॥

这些树被那风从四面剧烈摇动,枝梢相互缠绕,仿佛编织在一起。

4.1.17

स एव सुखसंस्पर्शो वाति चन्दनशीतलः।
गन्धमभ्यवहन् पुण्यं श्रमापनयनोऽनिलः ॥ ४.१.१७ ॥

正是这阵风吹拂着,触感宜人,清凉如檀香,带来纯净的芬芳,消除疲劳。

4.1.18

अमी पवनविक्षिप्ता विनदन्तीव पादपाः।
षट्पदैरनुकूजद्भिर्वनेषु मधुगन्धिषु ॥ ४.१.१८ ॥

这些被风吹动的树木仿佛在鸣响,在满是蜜香的林中,蜜蜂也随之嗡嗡应和。

4.1.19

गिरिप्रस्थेषु रम्येषु पुष्पवद्भिर्मनोरमैः।
संसक्तशिखराः शैला विराजन्ति महाद्रुमैः ॥ ४.१.१९ ॥

在美丽的山坡上,峰顶被繁花大树环绕的群山闪耀着光彩。

4.1.20

पुष्पसंछन्नशिखरा मारुतोत्क्षेपचञ्चलाः।
अमी मधुकरोत्तंसाः प्रगीता इव पादपाः ॥ ४.१.२० ॥

这些树木顶端覆满花朵,随风摇曳,以蜜蜂为冠饰,仿佛在歌唱。

4.1.21

सुपुष्पितांस्तु पश्यैतान् कर्णिकारान् समन्ततः।
हाटकप्रतिसंछन्नान् नरान् पीताम्बरानिव ॥ ४.१.२१ ॥

看那四周盛开的迦尼迦罗树,被金色覆盖,仿佛身着黄衣的人。

4.1.22

अयं वसन्तः सौमित्रे नानाविहगनादितः।
सीतया विप्रहीणस्य शोकसंदीपनो मम ॥ ४.१.२२ ॥

啊,苏弥德罗之子,这春天被各种鸟鸣所充满;对于与悉多分离的我,它点燃了悲伤。

4.1.23

मां हि शोकसमाक्रान्तं संतापयति मन्मथः।
हृष्टं प्रवदमानश्च समाह्वयति कोकिलः ॥ ४.१.२३ ॥

我为悲伤所压,爱神(迦摩)折磨着我;欢快鸣叫的杜鹃仿佛在呼唤我。

4.1.24

एष दात्यूहको हृष्टो रम्ये मां वननिर्झरे।
प्रणदन्मन्मथाविष्टं शोचयिष्यति लक्ष्मण ॥ ४.१.२४ ॥

啊,罗什曼那,这欢快的达蒂乌哈鸟在这美丽的林间瀑布边鸣叫,会使被爱神所困的我悲伤。

4.1.25

श्रुत्वैतस्य पुरा शब्दमाश्रमस्था मम प्रिया।
मामाहूय प्रमुदिताः परमं प्रत्यनन्दत ॥ ४.१.२५ ॥

往昔听到它的声音,住在修行处的我的爱人便呼唤我,并欣然回应。

4.1.26

एवं विचित्राः पतगा नानारावविराविणः।
वृक्षगुल्मलताः पश्य सम्पतन्ति समन्ततः ॥ ४.१.२६ ॥

看那些色彩斑斓的鸟儿,发出各种鸣叫,在树木、灌木和藤蔓之间四处飞舞。

4.1.27

विमिश्रा विहगाः पुंभिरात्मव्यूहाभिनन्दिताः।
भृङ्गराजप्रमुदिताः सौमित्रे मधुरस्वराः ॥ ४.१.२७ ॥

啊,苏弥特拉,这些与雄鸟相混的鸟儿,欣赏着自己的羽饰,与黑头金翅鸟同乐,声音甜美。

4.1.28

अस्याः कूले प्रमुदिताः सङ्घशः शकुनास्त्विह।
दात्यूहरतिविक्रन्दैः पुंस्कोकिलरुतैरपि ॥ ४.१.२८ ॥

在这条河的岸边,成群的鸟儿在此欢欣,既有大杜鹃鸟欢快的鸣叫,也有雄杜鹃的啼声。

4.1.29

स्वनन्ति पादपाश्चेमे ममानङ्गप्रदीपकाः।
अशोकस्तबकाङ्गारः षट्पदस्वननिःस्वनः ॥ ४.१.२९ ॥

这些树木也在作响,它们在我心中点燃爱神的灯火;无忧花的花簇如同灼热的炭火,充满蜜蜂的嗡嗡声。

4.1.30

मां हि पल्लवताम्रार्चिर्वसन्ताग्निः प्रधक्ष्यति।
नहि तां सूक्ष्मपक्ष्माक्षीं सुकेशीं मृदुभाषिणीम् ॥ ४.१.३० ॥

那春天之火,火焰红如嫩叶,必定会焚烧我;但不会焚烧她——那睫毛纤细、秀发美丽、言语柔和的人。

4.1.31

अपश्यतो मे सौमित्रे जीवितेऽस्ति प्रयोजनम्।
अयं हि रुचिरस्तस्याः कालो रुचिरकाननः ॥ ४.१.३१ ॥

啊,苏弥德罗,不见她,我的生命还有什么意义?她所在的这个季节,配以秀丽的林间,确实令人心醉。

4.1.32

कोकिलाकुलसीमान्तो दयिताया ममानघ।
मन्मथायाससम्भूतो वसन्तगुणवर्धितः ॥ ४.१.३२ ॥

啊,无过之人,我所爱之人的这个季节,四周满是杜鹃鸣叫,生于爱欲的煎熬,又因春天的品性而增长。

4.1.33

अयं मां धक्ष्यति क्षिप्रं शोकाग्निर्नचिरादिव।
अपश्यतस्तां वनितां पश्यतो रुचिरान् द्रुमान् ॥ ४.१.३३ ॥

这悲痛之火很快就会将我焚烧,不会等太久。不见那女子,却看着秀丽的树木。

4.1.34

ममायमात्मप्रभवो भूयस्त्वमुपयास्यति।
अदृश्यमाना वैदेही शोकं वर्धयतीह मे ॥ ४.१.३४ ॥

这由我自身而生的悲痛将再度降临于你。维德海,不见其身,正在此处增添我的哀伤。

4.1.35

दृश्यमानो वसन्तश्च स्वेदसंसर्गदूषकः।
मां हि सा मृगशावाक्षी चिन्ताशोकबलात्कृतम् ॥ ४.१.३५ ॥

可见的春天,玷污着合欢的汗水,使我倍受煎熬;那双如小鹿般的眼睛的女子,确实被忧思与悲痛的力量所压垮。

4.1.36

संतापयति सौमित्रे क्रूरश्चैत्रवनानिलः।
अमी मयूराः शोभन्ते प्रनृत्यन्तस्ततस्ततः ॥ ४.१.३६ ॥

啊,苏弥德罗,那遍林的春风残酷地折磨着我。这些孔雀在这里那里翩翩起舞,显得格外美丽。

4.1.37

स्वैः पक्षैः पवनोद्धूतैर्गवाक्षैः स्फाटिकैरिव।
शिखिनीभिः परिवृतास्त एते मदमूर्च्छिताः ॥ ४.१.३७ ॥

它们的羽翼被风吹动,如水晶窗棂,被孔雀母围绕,沉醉于欢情而昏厥。

4.1.38

मन्मथाभिपरीतस्य मम मन्मथवर्धनाः।
पश्य लक्ष्मण नृत्यन्तं मयूरमुपनृत्यति ॥ ४.१.३८ ॥

对于被爱神所困的我,它们增添了爱意。看吧,罗什曼那,那跳舞的孔雀;一只母孔雀在它身旁起舞。

4.1.39

शिखिनी मन्मथार्तैषा भर्तारं गिरिसानुनि।
तामेव मनसा रामां मयूरोऽप्यनुधावति ॥ ४.१.३९ ॥

这只被爱欲折磨的母孔雀,在山坡上寻找她的伴侣。那公孔雀心中只想着那只母孔雀,也追随着她奔去。

4.1.40

वितत्य रुचिरौ पक्षौ रुतैरुपहसन्निव।
मयूरस्य वने नूनं रक्षसा न हृता प्रिया ॥ ४.१.४० ॥

展开美丽的羽翼,仿佛以鸣叫嘲笑我,想必这片森林中,并无罗刹掳走孔雀的爱侣。

4.1.41

तस्मान्नृत्यति रम्येषु वनेषु सह कान्तया।
मम त्वयं विना वासः पुष्पमासे सुदुःसहः ॥ ४.१.४१ ॥

因此他与所爱之人在可爱的森林中起舞;而我,在花开的月份,没有她的此处居住,实在难以忍受。

4.1.42

पश्य लक्ष्मण संरागस्तिर्यग्योनिगतेष्वपि।
यदेषा शिखिनी कामाद् भर्तारमभिवर्तते ॥ ४.१.४२ ॥

看吧,罗什曼那:即使在畜生之类的生灵中,爱的情意竟也如此深厚!这只母孔雀因欲念而转向她的伴侣。

4.1.43

ममाप्येवं विशालाक्षी जानकी जातसम्भ्रमा।
मदनेनाभिवर्तेत यदि नापहृता भवेत् ॥ ४.१.४३ ॥

若广目的遮那吉未被掳走,她也会因慌乱与爱欲而如此向我转过身来。

4.1.44

पश्य लक्ष्मण पुष्पाणि निष्फलानि भवन्ति मे।
पुष्पभारसमृद्धानां वनानां शिशिरात्यये ॥ ४.१.४४ ॥

看哪,拉克什曼那,寒季既过,满载花朵的森林之花于我已显得毫无意义。

4.1.45

रुचिराण्यपि पुष्पाणि पादपानामतिश्रिया।
निष्फलानि महीं यान्ति समं मधुकरोत्करैः ॥ ४.१.४५ ॥

即便树上可爱的花朵,虽有盛大的光彩,也徒然地与蜂群一同落向大地。

4.1.46

नदन्ति कामं शकुना मुदिताः सङ्घशः कलम्।
आह्वयन्त इवान्योन्यं कामोन्मादकरा मम ॥ ४.१.४६ ॥

欢喜的鸟儿成群地尽情婉转鸣叫,仿佛在彼此呼唤,在我心中激起爱欲的狂乱。

4.1.47

वसन्तो यदि तत्रापि यत्र मे वसति प्रिया।
नूनं परवशा सीता सापि शोचत्यहं यथा ॥ ४.१.४७ ॥

若春天也降临在我心爱之人所在之地,那么身为他人所制的悉多必定也像我一样悲伤。

4.1.48

नूनं न तु वसन्तस्तं देशं स्पृशति यत्र सा।
कथं ह्यसितपद्माक्षी वर्तयेत् सा मया विना ॥ ४.१.४८ ॥

春天必定没有触及她所在的那片土地;那双如青莲般的眼睛,离开我之后又如何度日呢?

4.1.49

अथवा वर्तते तत्र वसन्तो यत्र मे प्रिया।
किं करिष्यति सुश्रोणी सा तु निर्भर्त्सिता परैः ॥ ४.१.४९ ॥

或者春天在我心爱的人所在之处吗?那纤腰的人,被他人责难,将会如何?

4.1.50

श्यामा पद्मपलाशाक्षी मृदुभाषा च मे प्रिया।
नूनं वसन्तमासाद्य परित्यक्ष्यति जीवितम् ॥ ४.१.५० ॥

我那肤色黝黑、眼如莲瓣、言语温柔的爱人,必定会在春天来临时舍弃生命。

4.1.51

दृढं हि हृदये बुद्धिर्मम सम्परिवर्तते।
नालं वर्तयितुं सीता साध्वी मद्विरहं गता ॥ ४.१.५१ ॥

此念在我心中坚定地翻腾:贞洁的悉多,与我分离之后,不能再活下去。

4.1.52

मयि भावो हि वैदेह्यास्तत्त्वतो विनिवेशितः।
ममापि भावः सीतायां सर्वथा विनिवेशितः ॥ ४.१.५२ ॥

实则,毗提诃的情意已确立在我身上;我的情意也已完全确立在悉多身上。

4.1.53

एष पुष्पवहो वायुः सुखस्पर्शो हिमावहः।
तां विचिन्तयतः कान्तां पावकप्रतिमो मम ॥ ४.१.५३ ॥

这吹送花香、触感宜人、带来凉意的风,对于思念那爱人的我来说,却如同火焰。

4.1.54

सदा सुखमहं मन्ये यं पुरा सह सीतया।
मारुतः स विना सीतां शोकसंजननो मम ॥ ४.१.५४ ॥

从前与悉多相伴时,我总觉得这风令人愉悦;如今没有悉多,同一阵风却在我心中引起悲伤。

4.1.55

तां विनाथ विहङ्गोऽसौ पक्षी प्रणदितस्तदा।
वायसः पादपगतः प्रहृष्टमभिकूजति ॥ ४.१.५५ ॥

没有她,那只有翅膀的鸟正在鸣叫,栖息在树上的乌鸦欢快地呱呱叫。

4.1.56

एष वै तत्र वैदेह्या विहगः प्रतिहारकः।
पक्षी मां तु विशालाक्ष्याः समीपमुपनेष्यति ॥ ४.१.५६ ॥

那里这只鸟是味帝希的使者,这只有翅膀的鸟将带我到大眼睛的她身边。

4.1.57

पश्य लक्ष्मण संनादं वने मदविवर्धनम्।
पुष्पिताग्रेषु वृक्षेषु द्विजानामवकूजताम् ॥ ४.१.५७ ॥

看啊,罗什曼,森林里这increase欢喜的鸣声;在花开的树梢上,群鸟正在啼鸣。

4.1.58

विक्षिप्तां पवनेनैतामसौ तिलकमञ्जरीम्।
षट्पदः सहसाभ्येति मदोद्धूतामिव प्रियाम् ॥ ४.१.५८ ॥

那只蜜蜂突然飞向这被风吹动的提拉卡花簇,仿佛飞向因醉意而摇曳的爱人。

4.1.59

कामिनामयमत्यन्तमशोकः शोकवर्धनः।
स्तबकैः पवनोत्क्षिप्तैस्तर्जयन्निव मां स्थितः ॥ ४.१.५९ ॥

对于恋人而言,这棵无忧树极大地增加忧伤;它随风摇动的花簇,仿佛在威胁我般矗立着。

4.1.60

अमी लक्ष्मण दृश्यन्ते चूताः कुसुमशालिनः।
विभ्रमोत्सिक्तमनसः साङ्गरागा नरा इव ॥ ४.१.६० ॥

看啊,罗什曼,这些芒果树繁花满枝,心神因欢愉而激荡,宛如涂抹了香膏的男子。

4.1.61

सौमित्रे पश्य पम्पायाश्चित्रासु वनराजिषु।
किंनरा नरशार्दूल विचरन्ति यतस्ततः ॥ ४.१.६१ ॥

羅什曼那啊,看那潘帕湖畔斑斕的林帶,人中之虎!緊那羅們四處徜徉。

4.1.62

इमानि शुभगन्धीनि पश्य लक्ष्मण सर्वशः।
नलिनानि प्रकाशन्ते जले तरुणसूर्यवत् ॥ ४.१.६२ ॥

羅什曼那啊,看!四周水中这些芬芳吉祥的蓮花,如初升的太陽般閃耀。

4.1.63

एषा प्रसन्नसलिला पद्मनीलोत्पलायुता।
हंसकारण्डवाकीर्णा पम्पा सौगन्धिकायुता ॥ ४.१.६३ ॥

這潘帕湖水清澈,滿布蓮花與藍睡蓮,群鵝與鴨鳧遍布,還有香蓮盛開。

4.1.64

जले तरुणसूर्याभैः षट्पदाहतकेसरैः।
पङ्कजैः शोभते पम्पा समन्तादभिसंवृता ॥ ४.१.६४ ॥

潘帕湖水中蓮花明亮如初升的太陽,花蕊被蜜蜂撩撥,四周環繞,光彩照人。

4.1.65

चक्रवाकयुता नित्यं चित्रप्रस्थवनान्तरा।
मातङ्गमृगयूथैश्च शोभते सलिलार्थिभिः ॥ ४.१.६५ ॥

潘帕湖常有赤鵝相伴,內外高地與林木錯落,前來飲水的象群與鹿群使其更加明麗。

4.1.66

पवनाहतवेगाभिरूर्मिभिर्विमलेऽम्भसि।
पङ्कजानि विराजन्ते ताड्यमानानि लक्ष्मण ॥ ४.१.६६ ॥

羅什曼那啊,這些蓮花在清澈的水中閃耀,被風力推湧的波浪拍打著。

4.1.67

पद्मपत्रविशालाक्षीं सततं प्रियपङ्कजाम्।
अपश्यतो मे वैदेहीं जीवितं नाभिरोचते ॥ ४.१.६७ ॥

不见那眼如莲瓣、常执心爱莲花的毗提诃公主,我便不觉生命可喜。

4.1.68

अहो कामस्य वामत्वं यो गतामपि दुर्लभाम्।
स्मारयिष्यति कल्याणीं कल्याणतरवादिनीम् ॥ ४.१.६८ ॥

啊,欲望的乖戾!它使我想起那位吉祥的人,她虽已逝去、难以再得,却说话最为温柔。

4.1.69

शक्यो धारयितुं कामो भवेदभ्यागतो मया।
यदि भूयो वसन्तो मां न हन्यात् पुष्पितद्रुमः ॥ ४.१.६९ ॥

这已降临于我的欲望本可以克制,若是那花木盛开的春天不再次击倒我。

4.1.70

यानि स्म रमणीयानि तया सह भवन्ति मे।
तान्येवारमणीयानि जायन्ते मे तया विना ॥ ४.१.७० ॥

昔日与她同在时令我欣悦的事物,如今没有她,便再无乐趣。

4.1.71

पद्मकोशपलाशानि द्रष्टुं दृष्टिर्हि मन्यते।
सीताया नेत्रकोशाभ्यां सदृशानीति लक्ष्मण ॥ ४.१.७१ ॥

罗什曼那啊,我的目光渴望观看莲花的花苞与花瓣,因为它们如同悉多的眼眶。

4.1.72

पद्मकेसरसंसृष्टो वृक्षान्तरविनिःसृतः।
निःश्वास इव सीताया वाति वायुर्मनोहरः ॥ ४.१.७२ ॥

这阵沾着莲花花粉、从树间吹出的清风,轻拂如悉多的叹息。

4.1.73

सौमित्रे पश्य पम्पाया दक्षिणे गिरिसानुषु।
पुष्पितां कर्णिकारस्य यष्टिं परमशोभिताम् ॥ ४.१.७३ ॥

萨乌米特里啊,看南边Pampā湖的山坡上,那棵卡尔尼迦罗树的枝条,开满鲜花,极其绚丽。

4.1.74

अधिकं शैलराजोऽयं धातुभिस्तु विभूषितः।
विचित्रं सृजते रेणुं वायुवेगविघट्टितम् ॥ ४.१.७४ ॥

这座群山之王,因矿石而更加装饰,被风力吹动,扬起奇异的尘埃。

4.1.75

गिरिप्रस्थास्तु सौमित्रे सर्वतः सम्प्रपुष्पितैः।
निष्पत्रैः सर्वतो रम्यैः प्रदीप्ता इव किंशुकैः ॥ ४.१.७५ ॥

萨乌米特里啊,山地高原处处繁花盛开,那些无叶的可爱金苏卡树仿佛燃烧起火焰。

4.1.76

पम्पातीररुहाश्चेमे संसिक्ता मधुगन्धिनः।
मालतीमल्लिकापद्मकरवीराश्च पुष्पिताः ॥ ४.१.७६ ॥

生长在Pampā湖岸的这些树木,被水浇灌,散发着甜美的香气;茉莉、白莲、莲花与夹竹桃等也都开花了。

4.1.77

केतक्यः सिन्दुवाराश्च वासन्त्यश्च सुपुष्पिताः।
माधव्यो गन्धपूर्णाश्च कुन्दगुल्माश्च सर्वशः ॥ ४.१.७७ ॥

开满鲜花的有钩吻花、黄花夹竹桃和春花藤;满是芬芳的是母藤,四处蔓延的是坤达灌丛。

4.1.78

चिरिबिल्वा मधूकाश्च वञ्जुला बकुलास्तथा।
चम्पकास्तिलकाश्चैव नागवृक्षाश्च पुष्पिताः ॥ ४.१.७८ ॥

奇里比尔瓦树、摩度迦树、万朱拉树和巴库拉树,还有金色花树、提拉卡树和那伽树,都开花了。

4.1.79

पद्मकाश्चैव शोभन्ते नीलाशोकाश्च पुष्पिताः।
लोध्राश्च गिरिपृष्ठेषु सिंहकेसरपिञ्जराः ॥ ४.१.७९ ॥

莲花树也光彩照人,蓝色的无忧树正在开花;山坡上的罗陀树呈狮鬃般的黄褐色。

4.1.80

अङ्कोलाश्च कुरण्टाश्च चूर्णकाः पारिभद्रकाः।
चूताः पाटलयश्चापि कोविदाराश्च पुष्पिताः ॥ ४.१.८० ॥

安科罗树、库然陀树、丘尔那迦树、帕里跋陀罗树、芒果树、波吒罗树和拘卑陀罗树也都开满了花。

4.1.81

मुचुकुन्दार्जुनाश्चैव दृश्यन्ते गिरिसानुषु।
केतकोद्दालकाश्चैव शिरीषाः शिंशपा धवाः ॥ ४.१.८१ ॥

山脊上可以看到穆楚坤陀树和阿周那树,还有鬼车树、乌达拉迦树、舍利沙树、舍瑟婆树和达婆树。

4.1.82

शाल्मल्यः किंशुकाश्चैव रक्ताः कुरबकास्तथा।
तिनिशा नक्तमालाश्च चन्दनाः स्यन्दनास्तथा ॥ ४.१.८२ ॥

还可以看到木棉树、红色的苦楝树、提尼沙树、夜合树、檀香树和斯扬达那树。

4.1.83

हिन्तालास्तिलकाश्चैव नागवृक्षाश्च पुष्पिताः।
पुष्पितान् पुष्पिताग्राभिर्लताभिः परिवेष्टितान् ॥ ४.१.८३ ॥

亨塔拉树、提拉卡树和那伽树也开满了花,被开花的藤蔓缠绕着。

4.1.84

द्रुमान् पश्येह सौमित्रे पम्पाया रुचिरान् बहून्।
वातविक्षिप्तविटपान् यथासन्नान् द्रुमानिमान् ॥ ४.१.८४ ॥

萨乌米特里啊,看这湖边众多可爱的树,枝条被风吹动,就在近处。

4.1.85

लताः समनुवर्तन्ते मत्ता इव वरस्त्रियः।
पादपात् पादपं गच्छन् शैलाच्छैलं वनाद् वनम् ॥ ४.१.८५ ॥

藤蔓缠绕追随,宛如醉态的美好女子,从一棵树到另一棵树,从一座山到另一座山,从一片林到另一片林。

4.1.86

वाति नैकरसास्वादसम्मोदित इवानिलः।
केचित् पर्याप्तकुसुमाः पादपा मधुगन्धिनः ॥ ४.१.८६ ॥

微风吹拂,仿佛品尝了百般滋味而欢欣;有些树木花开繁盛,散发着蜂蜜的芬芳。

4.1.87

केचिन्मुकुलसंवीताः श्यामवर्णा इवाबभुः।
इदं मृष्टमिदं स्वादु प्रफुल्लमिदमित्यपि ॥ ४.१.८७ ॥

有些树木被花苞包裹,闪耀着如同深色的光泽;人们或许会说:“这甜美,这可口,这已绽放。”

4.1.88

रागरक्तो मधुकरः कुसुमेष्वेव लीयते।
निलीय पुनरुत्पत्य सहसान्यत्र गच्छति।
मधुलुब्धो मधुकरः पम्पातीरद्रुमेष्वसौ ॥ ४.१.८८ ॥

染上色彩的蜜蜂只停在花朵上;停下后又飞起,忽然飞往别处。那贪恋蜂蜜的蜜蜂在般波湖岸的树木间飞来飞去。

4.1.89

इयं कुसुमसंघातैरुपस्तीर्णा सुखाकृता।
स्वयं निपतितैर्भूमिः शयनप्रस्तरैरिव ॥ ४.१.८९ ॥

这片大地铺满了成堆的花朵,仿佛由自行落下的卧石铺就,显得格外舒适。

4.1.90

विविधा विविधैः पुष्पैस्तैरेव नगसानुषु।
विस्तीर्णाः पीतरक्ताभाः सौमित्रे प्रस्तराः कृताः ॥ ४.१.९० ॥

哦,苏弥特拉之子,以各色花朵,正是这些花朵,在山坡上铺成了宽阔的黄红色石板。

4.1.91

हिमान्ते पश्य सौमित्रे वृक्षाणां पुष्पसम्भवम्।
पुष्पमासे हि तरवः संघर्षादिव पुष्पिताः ॥ ४.१.९१ ॥

寒冬将尽,看啊,萨乌米特里,树木开花的景象。在花月里,树木繁花盛开,仿佛是被摩擦而开花。

4.1.92

आह्वयन्त इवान्योन्यं नगाः षट्पदनादिताः।
कुसुमोत्तंसविटपाः शोभन्ते बहु लक्ष्मण ॥ ४.१.९२ ॥

仿佛彼此呼唤,树木回荡着蜜蜂的嗡鸣,枝条如花冠般装饰,光彩熠熠,啊,罗什曼那。

4.1.93

एष कारण्डवः पक्षी विगाह्य सलिलं शुभम्।
रमते कान्तया सार्धं काममुद्दीपयन्निव ॥ ४.१.९३ ॥

这只迦罗檀婆鸟潜入清澈的水中,与爱人嬉戏,仿佛在点燃欲望。

4.1.94

मन्दाकिन्यास्तु यदिदं रूपमेतन्मनोरमम्।
स्थाने जगति विख्याता गुणास्तस्या मनोरमाः ॥ ४.१.९४ ॥

曼陀基尼的这副容貌确实迷人;她那迷人的品德在世间享有盛名,实属当然。

4.1.95

यदि दृश्येत सा साध्वी यदि चेह वसेमहि।
स्पृहयेयं न शक्राय नायोध्यायै रघूत्तम ॥ ४.१.९५ ॥

若那位贤德的女子能在此见到,若我们能住在此处,啊,罗怙族的最优秀者,我便既不渴望因陀罗的天界,也不渴望阿逾陀。

4.1.96

न ह्येवं रमणीयेषु शाद्वलेषु तया सह।
रमतो मे भवेच्चिन्ता न स्पृहान्येषु वा भवेत् ॥ ४.१.९६ ॥

实则,若我与她在这些可爱的草地上嬉戏,我便不会有忧虑,也不会渴望其他之物。

4.1.97

अमी हि विविधैः पुष्पैस्तरवो विविधच्छदाः।
काननेऽस्मिन् विना कान्तां चिन्तामुत्पादयन्ति मे ॥ ४.१.९७ ॥

这些花木繁多、枝叶各异的树木,在这片森林中,没有爱人在身边,却在我心中引起忧思。

4.1.98

पश्य शीतजलां चेमां सौमित्रे पुष्करायुताम्।
चक्रवाकानुचरितां कारण्डवनिषेविताम् ॥ ४.१.९८ ॥

看啊,苏弥特拉,这片清凉之水的般婆湖,满是莲花,有赤麻鸭往来,又有卡兰达瓦鸭栖息。

4.1.99

प्लवैः क्रौञ्चैश्च सम्पूर्णां महामृगनिषेविताम्।
अधिकं शोभते पम्पा विकूजद्भिर्विहंगमैः ॥ ४.१.९९ ॥

般婆湖充满水鸟与鹤,大鹿在此栖息,群鸟鸣叫,更显得光彩夺目。

4.1.100

दीपयन्तीव मे कामं विविधा मुदिता द्विजाः।
श्यामां चन्द्रमुखीं स्मृत्वा प्रियां पद्मनिभेक्षणाम् ॥ ४.१.१०० ॥

各色欢快的鸟儿仿佛在点燃我的情欲,让我想起那位月面、肤色深黑、莲目的爱人。

4.1.101

पश्य सानुषु चित्रेषु मृगीभिः सहितान् मृगान्।
मां पुनर्मृगशावाक्ष्या वैदेह्या विरहीकृतम्।
व्यथयन्तीव मे चित्तं संचरन्तस्ततस्ततः ॥ ४.१.१०१ ॥

看那五彩山坡上成群的鹿与母鹿。我与眼如小鹿的维德黑依分离,它们来回游走,仿佛令我心中痛楚。

4.1.102

अस्मिन् सानुनि रम्ये हि मत्तद्विजगणाकुले।
पश्येयं यदि तां कान्तां ततः स्वस्ति भवेन्मम ॥ ४.१.१०२ ॥

若我能在这美丽的山坡上,群鸟欢鸣之处,见到那位爱人,那便是我的吉祥。

4.1.103

जीवेयं खलु सौमित्रे मया सह सुमध्यमा।
सेवेत यदि वैदेही पम्पायाः पवनं शुभम् ॥ ४.१.१०३ ॥

萨乌弥德利啊,若纤腰的毗提诃公主能与我一同享受般波河吉祥的微风,我必定还能活下去。

4.1.104

पद्मसौगन्धिकवहं शिवं शोकविनाशनम्।
धन्या लक्ष्मण सेवन्ते पम्पाया वनमारुतम् ॥ ४.१.१०४ ॥

罗什曼那啊,能享受般波河林间微风者是有福的——那微风带着莲花与萨乌甘迪迦花的芬芳,吉祥而能消除忧愁。

4.1.105

श्यामा पद्मपलाशाक्षी प्रिया विरहिता मया।
कथं धारयति प्राणान् विवशा जनकात्मजा ॥ ४.१.१०५ ॥

那黝黑、眼如莲瓣的爱人,与我分离的无助的遮那伽之女,她如何维持着生命之息呢?

4.1.106

किं नु वक्ष्यामि धर्मज्ञं राजानं सत्यवादिनम्।
जनकं पृष्टसीतं तं कुशलं जनसंसदि ॥ ४.१.१०६ ॥

当在众人集会中,懂法而诚实的遮那伽王问道“悉多安好吗?”时,我该如何回答呢?

4.1.107

या मामनुगता मन्दं पित्रा प्रस्थापितं वनम्।
सीता धर्मं समास्थाय क्व नु सा वर्तते प्रिया ॥ ४.१.१०७ ॥

当父王将我送往森林时,那位缓步跟随我、恪守法度的爱人悉多,如今身在何处?

4.1.108

तया विहीनः कृपणः कथं लक्ष्मण धारये।
या मामनुगता राज्याद् भ्रष्टं विहतचेतसम् ॥ ४.१.१०८ ॥

罗什曼那啊,失去她的我,这般可怜,如何支撑下去?那个跟随被逐出王国、心神俱碎的我的,正是她。

4.1.109

तच्चार्वाञ्चितपद्माक्षं सुगन्धि शुभमव्रणम्।
अपश्यतो मुखं तस्याः सीदतीव मतिर्मम ॥ ४.१.१०९ ॥

不见她那美丽、莲花般的双目、芬芳、吉祥而无瑕的面容,我的心神仿佛沉没。

4.1.110

स्मितहास्यान्तरयुतं गुणवन्मधुरं हितम्।
वैदेह्या वाक्यमतुलं कदा श्रोष्यामि लक्ष्मण ॥ ४.१.११० ॥

光辉的毗提诃公主啊,那充满微笑与欢笑、贤善、甘美、有益而无与伦比的话语,我何时才能再听到?弟弟罗什曼那啊?

4.1.111

प्राप्य दुःखं वने श्यामा मां मन्मथविकर्शितम्।
नष्टदुःखेव हृष्टेव साध्वी साध्वभ्यभाषत ॥ ४.१.१११ ॥

她在林中虽受苦难,那纤细的贤淑女子,对被爱欲消瘦的我,好似忘却了忧愁而欢喜地好好说话。

4.1.112

किं नु वक्ष्याम्ययोध्यायां कौसल्यां हि नृपात्मज।
क्व सा स्नुषेति पृच्छन्तीं कथं चापि मनस्विनीम् ॥ ४.१.११२ ॥

王子啊,我在阿逾陀该对憍莎罗说什么?当那位高贵的夫人问'我的儿媳在哪里?'时,我该如何回答?

4.1.113

गच्छ लक्ष्मण पश्य त्वं भरतं भ्रातृवत्सलम्।
नह्यहं जीवितुं शक्तस्तामृते जनकात्मजाम् ॥ ४.१.११३ ॥

罗什曼那啊,你去吧,去看看那位爱护兄弟的婆罗多。没有遮那伽之女,我实在无法活下去。

4.1.114

उवाच लक्ष्मणो भ्राता वचनं युक्तमव्ययम् ॥ ४.१.११४ ॥

他的兄弟罗什曼那说出了这些恰当而永恒的话语。

4.1.115

संस्तम्भ राम भद्रं ते मा शुचः पुरुषोत्तम।
नेदृशानां मतिर्मन्दा भवत्यकलुषात्मनाम् ॥ ४.१.११५ ॥

罗摩啊,愿你吉祥。请镇定,不要悲伤,人中之最。心地纯洁的人,其判断不会如此软弱。

4.1.116

स्मृत्वा वियोगजं दुःखं त्यज स्नेहं प्रिये जने।
अतिस्नेहपरिष्वङ्गाद् वर्तिरार्द्रापि दह्यते ॥ ४.१.११६ ॥

想起因离别而生的痛苦,舍去对所爱之人的眷恋。即使湿润的灯芯,若被过度的爱紧紧拥抱,也会燃烧起来。

4.1.117

यदि गच्छति पातालं ततोऽभ्यधिकमेव वा।
सर्वथा रावणस्तात न भविष्यति राघव ॥ ४.१.११७ ॥

即使罗波那潜入地下,或比那更远,他也绝不会逃脱,罗怙之裔啊,亲爱的兄长。

4.1.118

प्रवृत्तिर्लभ्यतां तावत् तस्य पापस्य रक्षसः।
ततो हास्यति वा सीतां निधनं वा गमिष्यति ॥ ४.१.११८ ॥

先去探明那个恶毒罗刹的下落。然后他要么放弃悉多,要么走向毁灭。

4.1.119

यदि याति दितेर्गर्भं रावणं सह सीतया।
तत्राप्येनं हनिष्यामि न चेद् दास्यति मैथिलीम् ॥ ४.१.११९ ॥

即使罗波那携悉多遁入提帝的胎中,我也要在那里杀了他,若他不归还迷提利。

4.1.120

स्वास्थ्यं भद्रं भजस्वार्य त्यज्यतां कृपणा मतिः।
अर्थो हि नष्टकार्यार्थैरयत्नेनाधिगम्यते ॥ ४.१.१२० ॥

高贵的兄长,请保持吉祥的镇定,舍去卑微的念头。即使事业已失败之人,也能不费力地达成所求。

4.1.121

उत्साहो बलवानार्य नास्त्युत्साहात् परं बलम्।
सोत्साहस्य हि लोकेषु न किंचिदपि दुर्लभम् ॥ ४.१.१२१ ॥

高贵者啊,热忱是最强的力量,没有比热忱更大的力量。对于充满热忱的人,世间没有什么是难以获得的。

4.1.122

उत्साहवन्तः पुरुषा नावसीदन्ति कर्मसु।
उत्साहमात्रमाश्रित्य प्रतिलप्स्याम जानकीम् ॥ ४.१.१२२ ॥

充满热忱的人在事业中不会退缩。仅凭热忱,我们必将夺回嘉纳姬。

4.1.123

त्यजतां कामवृत्तत्वं शोकं संन्यस्य पृष्ठतः।
महात्मानं कृतात्मानमात्मानं नावबुध्यसे ॥ ४.१.१२३ ॥

舍弃受欲望驱使的行为,把悲伤抛在身后。你没有认清自己——你是大人、是自律之人。

4.1.124

एवं सम्बोधितस्तेन शोकोपहतचेतनः।
त्यज्य शोकं च मोहं च रामो धैर्यमुपागमत् ॥ ४.१.१२४ ॥

罗摩被他如此劝慰,心神因悲伤而受挫,于是舍弃了悲伤与迷惑,重新获得了坚定。

4.1.125

सोऽभ्यतिक्रामदव्यग्रस्तामचिन्त्यपराक्रमः।
रामः पम्पां सुरुचिरां रम्यां पारिप्लवद्रुमाम् ॥ ४.१.१२५ ॥

那位威力不可思议的罗摩,心境平和沉稳,越过了秀美宜人的般波湖,湖边树木随风摇曳。

4.1.126

निरीक्षमाणः सहसा महात्मा
सर्वं वनं निर्झरकन्दरं च।
उद्विग्नचेताः सह लक्ष्मणेन
विचार्य दुःखोपहतः प्रतस्थे ॥ ४.१.१२६ ॥

大德的罗摩忽然环顾整片森林,有瀑布,有洞穴,心绪纷乱,与罗什曼那商量之后,被悲痛所击,便启程前行。

4.1.127

तं मत्तमातङ्गविलासगामी
गच्छन्तमव्यग्रमना महात्मा।
स लक्ष्मणो राघवमिष्टचेष्टो
ररक्ष धर्मेण बलेन चैव ॥ ४.१.१२७ ॥

Lakṣmaṇa 以其对 Rāghava 的敬爱之行,以法与力护卫着那位心无旁骛、步履如发情大象般从容前行的大德者 Rāghava。

4.1.128

तावृष्यमूकस्य समीपचारी
चरन् ददर्शाद्भुतदर्शनीयौ।
शाखामृगाणामधिपस्तरस्वी
वितत्रसे नैव विचेष्ट चेष्टाम् ॥ ४.१.१२८ ॥

在 Ṛṣyamūka 山附近游荡的那位迅捷的猴王,看见了这两位奇妙而可观的人;他感到恐惧,却没有在其姿态中动摇。

4.1.129

स तौ महात्मा गजमन्दगामी
शाखामृगस्तत्र चरंश्चरन्तौ।
दृष्ट्वा विषादं परमं जगाम
चिन्तापरीतो भयभारभग्नः ॥ ४.१.१२९ ॥

那位大德的猴王,步履缓慢如象,看见那里徘徊的两人,陷入深深的忧伤,被忧虑所困,在恐惧的重压下几乎崩溃。

4.1.130

तमाश्रमं पुण्यसुखं शरण्यं
सदैव शाखामृगसेवितान्तम्।
त्रस्ताश्च दृष्ट्वा हरयोऽभिजग्मु-
र्महौजसौ राघवलक्ष्मणौ तौ ॥ ४.१.१३० ॥

那座圣洁而安乐的隐修处,是可以庇护的所在,其四周常有猴子聚居;受惊的猴子看见那两位大力者 Rāghava 与 Lakṣmaṇa,便向他们走近。